धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 72

  1. [स] तथा तस्मिन परवृत्ते तु संग्रामे लॊमहर्षणे कौरवेयांस तरिधा भूतान पाण्डवाः समुपाद्रवन ॥ 1 ॥

  2. जलसंधं महाबाहुर भीमसेनॊ नयवारयत युधिष्ठिरः सहानीकः कृतवर्माणम आहवे ॥ 2 ॥

  3. किरन्तं शरवर्षाणि रॊचमान इवांशुमान धृष्टद्युम्नॊ महाराज दरॊणम अभ्यद्रवद रणे ॥ 3 ॥

  4. ततः परववृते युद्धं तवरतां सर्वधन्विनाम कुरूणां सॊमकानां च संक्रुद्धानां परस्परम ॥ 4 ॥

  5. संक्षये तु तथा भूते वर्तमाने महाभये दवंद्वी भूतेषु सैन्येषु युध्यमानेष्व अभीतवत ॥ 5 ॥

  6. दरॊणः पाञ्चाल पुत्रेण बली बलवता सह विचिक्षेप पृषत्कौघांस तद अद्भुतम इवाभवत ॥ 6 ॥

  7. पुण्डरीकवनानीव विध्वस्तानि समन्ततः चक्राते दरॊण पाञ्चाल्यौ नृणां शीर्षाण्य अनेकशः ॥ 7 ॥

  8. विनिकीर्णानि वीराणाम अनीकेषु समन्ततः वस्त्राभरण शस्त्राणि धवजवर्मायुधानि च ॥ 8 ॥

  9. तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च संसक्ता इव दृश्यन्ते मेघसंघाः स विद्युतः ॥ 9 ॥

  10. कुञ्जराश्वनरान संख्ये पातयन्तः पतत्रिभिः तालमात्राणि चापानि विकर्षन्तॊ महारथाः ॥ 10 ॥

  11. असि चर्माणि चापानि शिरांसि कवचानि च विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम ॥ 11 ॥

  12. उत्थितान्य अगणेयानि कबन्धानि समन्ततः अदृश्यन्त महाराज तस्मिन परमसंकुले ॥ 12 ॥

  13. गृध्राः कङ्का वडाः शयेना वायसा जम्बुकास तथा बहवः पिशिताशाश च तत्रादृश्यन्त मारिष ॥ 13 ॥

  14. भक्षयन्तः सम मांसानि पिबन्तश चापि शॊणितम विलुम्पन्तः सम केशांश च मज्जाश च बहुधा नृप ॥ 14 ॥

  15. आकर्षन्तः शरीराणि शरीरावयवांस तथा नराश्वगजसंघानां शिरांसि च ततस ततः ॥ 15 ॥

  16. कृतास्त्रा रणदीक्षाभिर दीक्षिताः शरधारिणः रणे जयं परार्थयन्तॊ भृशं युयुधिरे तदा ॥ 16 ॥

  17. असि मार्गान बहुविधान विचेरुस तावका रणे ऋष्टिभिः शक्तिभिः परासैः शूलतॊमर पट्टिशैः ॥ 17 ॥

  18. गदाभिः परिघैश चान्ये वयायुधाश च भुजैर अपि अन्यॊन्यं जघ्निरे करुद्धा युद्धरङ्ग गता नराः ॥ 18 ॥

  19. रथिनॊ रथिभिः सार्धम अश्वारॊहाश च सादिभिः मातङ्गा वरमातङ्गैः पदाताश च पदातिभिः ॥ 19 ॥

  20. कषीबा इवान्ये चॊन्मत्ता रङ्गेष्व इव च चारणाः उच्चुक्रुशुस तथान्यॊन्यं जघ्नुर अन्यॊन्यम आहवे ॥ 20 ॥

  21. वर्तमाने तथा युद्धे निर्मर्यादे विशां पते धृष्टद्युम्नॊ हयान अश्वैर दरॊणस्य वयत्यमिश्रयत ॥ 21 ॥

  22. ते हया साध्व अशॊभन्त विमिश्रा वातरंहसः पारावत सवर्णाश च रक्तशॊणाश च संयुगे हयाः शुशुभिरे राजन मेघा इव स विद्युतः ॥ 22 ॥

  23. धृष्टद्युम्नश च संप्रेक्ष्य दरॊणम अभ्याशम आगतम असि चर्माददे वीरॊ धनुर उत्सृज्य भारत ॥ 23 ॥

  24. चिकीर्षुर दुष्करं कर्म पार्षतः परवीरहा ईषया समतिक्रम्य दरॊणस्य रथम आविशत ॥ 24 ॥

  25. अतिष्ठद युगमध्ये स युगसंनहनेषु च जघानार्धेषु चाश्वानां तत सैन्यान्य अभ्यपूजयन ॥ 25 ॥

  26. खड्गेन चरतस तस्य शॊणाश्वान अधितिष्ठतः न ददर्शान्तरं दरॊणस तद अद्भुतम इवाभवत ॥ 26 ॥

  27. यथा शयेनस्य पतनं वनेष्व आमिष गृद्धिनः तथैवासीद अभीसारस तस्य दरॊणं जिघांसतः ॥ 27 ॥

  28. ततः शरशतेनास्य शतचन्द्रं समाक्षिपत दरॊणॊ दरुपदपुत्रस्य खड्गं च दशभिः शरैः ॥ 28 ॥

  29. हयांश चैव चतुःषष्ट्या शराणां जघ्निवान बली धवजं छत्रं च भल्लाभ्यां तथॊभौ पार्ष्णिसारथी ॥ 29 ॥

  30. अथास्मै तवरितॊ बाणम अपरं जीवितान्तकम आकर्णपूर्णं चिक्षेप वज्रं वज्रधरॊ यथा ॥ 30 ॥

  31. तं चतुर्दशभिर बाणैर बाणं चिच्छेद सात्यकिः परस्तम आचार्य मुख्येन धृष्टद्युम्नम अमॊचयत ॥ 31 ॥

  32. सिंहेनेव मृगं गरस्तं नरसिंहेन मारिष दरॊणेन मॊचयाम आस पाञ्चाल्यं शिनिपुंगवः ॥ 32 ॥

  33. सात्यकिं परेक्ष्य गॊप्तारं पाञ्चाल्यस्य महाहवे शराणां तवरितॊ दरॊणः षड्विंशत्या समर्पयत ॥ 33 ॥

  34. ततॊ दरॊणं शिनेः पौत्रॊ गरसन्तम इव सृञ्जयान परत्यविध्यच छितैर बाणैः षड्विंशत्या सतनानरे ॥ 34 ॥

  35. ततः सर्वे रथास तूर्णं पाञ्चाला जय गृद्धिनः सात्वताभिसृते दरॊणे धृष्टद्युम्नम अमॊचयन ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 73

Previous: अध्याय 71