धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 71

  1. [स] राजन संग्रामम आश्चर्यं शृणु कीर्तयतॊ मम कुरूणां पाण्डवानां च यथा युद्धम अवर्तत ॥ 1 ॥

  2. भारद्वाजं समासाद्य वयूहस्य परमुखे सथितम अयॊधयन रणे पार्था दरॊणानीकं बिभित्सवः ॥ 2 ॥

  3. रक्षमाणाः सवकं वयूहं दरॊणस्यापि च सैनिकाः अयॊधयन रणे पार्थान परार्थयन्तॊ महद यशः ॥ 3 ॥

  4. विन्दानुविन्दाव आवन्त्यौ विराटं दशभिः शरैः आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ ॥ 4 ॥

  5. विराटश च महाराज ताव उभौ समरे सथितौ पराक्रान्तम पराक्रम्य यॊधयाम आस सानुगौ ॥ 5 ॥

  6. तेषां युद्धं समभवद दारुणं शॊणितॊदकम सिंहस्य दविपमुख्याभ्यां परभिन्नाभ्यां यथा वने ॥ 6 ॥

  7. बाह्लीकं रभसं युद्धे याज्ञसेनिर महाबलः आजघ्ने विशिखैस तीक्ष्णैर घॊरैर मर्मास्थि भेदिभिः ॥ 7 ॥

  8. बाह्लीकॊ याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः आजघान भृशं करुद्धॊ नवभिर नतपर्वभिः ॥ 8 ॥

  9. तद युद्धम अभवद घॊरं शरशक्तिसमाकुलम भीरूणां तरासजननं शूराणां हर्षवर्धनम ॥ 9 ॥

  10. ताभ्यां तत्र शरैर मुक्तैर अन्तरिक्षं दिशस तथा अभवत संवृतं सर्वं न पराज्ञायत किं चन ॥ 10 ॥

  11. शैब्यॊ गॊवासनॊ युद्धे काश्य पुत्रं महारथम स सैन्यॊ यॊधयाम आस गजः परतिगजं यथा ॥ 11 ॥

  12. बाह्लीक राजः संरब्धॊ दरौपदेयान महारथान मनः पञ्चेन्द्रियाणीव शुशुभे यॊधयन रणे ॥ 12 ॥

  13. अयॊधयंस ते च भृशं तं शरौघैः समन्ततः इन्द्रियार्था यथा देहं शश्वद देहभृतां वर ॥ 13 ॥

  14. वार्ष्णेयं सात्यकिं युद्धे पुत्रॊ दुःशासनस तव आजघ्ने सायकैस तीक्ष्णैर नवभिर नतपर्वभिः ॥ 14 ॥

  15. सॊ ऽतिविद्धॊ बलवता महेष्वासेन धन्विना ईषन मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ 15 ॥

  16. समाश्वस्तस तु वार्ष्णेयस तव पुत्रं महारथम विव्याध दशभिस तूर्णं सायकैः कङ्कपत्रिभिः ॥ 16 ॥

  17. ताव अन्यॊन्यं दृढं विद्धाव अन्यॊन्यशरविक्षतौ रेजतुः समरे राजन पुष्पिताव इव किंशुकौ ॥ 17 ॥

  18. अलम्बुसस तु संक्रुद्धः कुन्तिभॊजशरार्दितः अशॊभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ 18 ॥

  19. कुन्तिभॊजं ततॊ रक्षॊ विद्ध्वा बहुभिर आयसैः अनदद भैरवं नादं वाहिन्याः परमुखे तव ॥ 19 ॥

  20. ततस तौ समरे शूरौ यॊधयन्तौ परस्परम ददृशुः सर्वभूतानि शक्र जम्भौ यथा पुरा ॥ 20 ॥

  21. शकुनिं रभसं युद्धे कृतवैरं च भारत माद्रीपुत्रौ च संरब्धौ शरैर अर्दयतां मृधे ॥ 21 ॥

  22. तन मूलः स महाराज परावर्तत जनक्षयः तवया संजनितॊ ऽतयर्थं कर्णेन च विवर्धितः ॥ 22 ॥

  23. उद्धुक्षितश च पुत्रेण तव करॊधहुताशनः य इमां पृथिवीं राजन दग्धुं सर्वां समुद्यतः ॥ 23 ॥

  24. शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः नाभ्यजानत कर्तव्यं युधि किं चित पराक्रमम ॥ 24 ॥

  25. विमुखं चैनम आलॊक्य माद्रीपुत्रौ महारथौ ववर्षतुः पुनर बाणैर यथा मेघौ महागिरिम ॥ 25 ॥

  26. स वध्यमानॊ बहुभिः शरैः संनतपर्वभिः संप्रायाज जवनैर अश्वैर दरॊणानीकाय सौबलः ॥ 26 ॥

  27. घटॊत्कचस तथा शूरं राक्षस्म तम अलायुधम अभ्ययाद रभसं युद्धे वेगम आस्थाय मध्यमम ॥ 27 ॥

  28. तयॊर युद्धं महाराज चित्ररूपम इवाभवत यादृशं हि पुरावृत्तं रामरावणयॊर मृधे ॥ 28 ॥

  29. ततॊ युधिष्ठिरॊ राजा मद्रराजानम आहवे विद्ध्वा पञ्चाशता बाणैः पुनर विव्याध सप्तभिः ॥ 29 ॥

  30. ततः परववृते युद्धं तयॊर अत्यद्भुतं नृप यथापूर्वं महद युद्धं शम्बरामर राजयॊः ॥ 30 ॥

  31. विविंशतिश चित्रसेनॊ विकर्णश च तवात्मजः अयॊधयन भीमसेनं महत्या सेनया वृताः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 72

Previous: अध्याय 70