[स] परविष्टयॊर महाराज पार्थ वार्ष्णेययॊस तदा दुर्यॊधने परयाते च पृष्ठतः पुरुषर्षभे ॥ 1 ॥
जवेनाभ्यद्रवन दरॊणं महता निस्वनेन च पाण्डवाः सॊमकैः सार्धं ततॊ युद्धम अवर्तत ॥ 2 ॥
तद युद्धम अभवद घॊरं तुमुलं लॊमहर्षणम पाञ्चालानां कुरूणां च वयूहस्य पुरतॊ ऽदभुतम ॥ 3 ॥
राजन कदा चिन नास्माभिर दृष्टं तादृङ न च शरुतम यादृङ मध्यगते सूर्ये युद्धम आसीद विशां पते ॥ 4 ॥
धृष्टद्युम्नमुखाः पार्था वयूढानीकाः परहारिणः दरॊणस्य सैन्यं ते सर्वे शरवर्षैर अवाकिरन ॥ 5 ॥
वयं दरॊणं पुरस्कृत्य सर्वशस्त्रभृतां वरम पार्षत परमुखान पार्थान अभ्यवर्षाम सायकैः ॥ 6 ॥
महामेघाव इवॊदीर्णौ मिश्रवातौ हिमात्यये सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥ 7 ॥
समेत्य तु महासेने चक्रतुर वेगम उत्तमम जाह्नवी यमुने नद्यौ परावृषीवॊल्बणॊदके ॥ 8 ॥
नानाशस्त्रपुरॊ वातॊ दविपाश्वरथसंवृतः गदा विद्युन महारौद्रः संग्रामजलदॊ महान ॥ 9 ॥
भारद्वाजानिलॊद्धूतः शरधारा सहस्रवान अभ्यवर्षन महारौद्रः पाण्डुसेनाग्निम उद्धतम ॥ 10 ॥
समुद्रम इव घर्मान्ते विवान घॊरॊ महानिलः वयक्षॊभयद अनीकानि पाण्डवानां दविजॊत्तमः ॥ 11 ॥
ते ऽपि सर्वप्रयत्नेन दरॊणम एव समाद्रवन बिभित्सन्तॊ महासेनं वार्यौघाः परबला इव ॥ 12 ॥
वारयाम आस तान दरॊणॊ जलौघान अचलॊ यथा पाण्डवान समरे करुद्धान पाञ्चालांश च स केकयान ॥ 13 ॥
अथापरे ऽपि राजानः परावृत्य समन्ततः महाबाला रणे शूराः पाञ्चालान अन्ववारयन ॥ 14 ॥
ततॊ रणे नरव्याघ्रः पार्षतः पाण्डवैः सह संजघानासकृद दरॊणं बिभित्सुर अरिवाहिनीम ॥ 15 ॥
यथैव शरवर्षाणि दरॊणॊ वर्षति पार्षते तथैव शरवर्षाणि धृष्टद्युम्नॊ ऽभयवर्षत ॥ 16 ॥
सनिस्त्रिंशपुरॊ वातः शक्तिप्रासर्ष्टि संवृतः जया विद्युच चापसंह्रादॊ धृष्टद्युम्न बलाहकः ॥ 17 ॥
शरधाराश्म वर्षाणि वयसृजत सर्वतॊदिशम निघ्नन रथवराश्वौघांश छादयाम आस वाहिनीम ॥ 18 ॥
यं यम आर्छच छरैर दरॊणः पाण्डवानां रथव्रजम ततस ततः शरैर दरॊणम अपाकर्षत पार्षतः ॥ 19 ॥
तथा तु यतमानस्य दरॊणस्य युधि भारत धृष्टद्युम्नं समासाद्य तरिधा सैन्यम अभिद्यत ॥ 20 ॥
भॊजम एके नयवर्तन्त जलसंधम अथापरे पाण्डवैर हन्यमानाश च दरॊणम एवापरे ऽवरजन ॥ 21 ॥
सैन्यान्य अघटयद यानि दरॊणस तु रथिनां वरः वयधमच चापि तान्य अस्य घृष्टद्युम्नॊ महारथः ॥ 22 ॥
धार्तराष्टास तरिधा भूता वध्यन्ते पाण्डुसृञ्जयैः अगॊपाः पशवॊ ऽरण्ये बहुभिः शवापदैर इव ॥ 23 ॥
कालः संग्रसते यॊधान धृष्टद्युम्नेन मॊहितान संग्रामे तुमुले तस्मिन्न इति संमेनिरे जनाः ॥ 24 ॥
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः दराव्यते तद्वद आपन्ना पाण्डवैस तव वाहिनी ॥ 25 ॥
अर्करश्मि परभिन्नेषु शस्त्रेषु कवचेषु च चक्षूंषि परतिहन्यन्ते सैन्येन रजसा तथा ॥ 26 ॥
तरिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः अमर्षितस ततॊ दरॊणः पाञ्चालान वयधमच छरैः ॥ 27 ॥
मृद्नतस तान्य अनीकानि निघ्नतश चापि सायकैः बभूव रूपं दरॊणस्य कालाग्नेर इव दीप्यतः ॥ 28 ॥
रथं नागं हयं चापि पत्तिनश च विशां पते एकैकेनेषुणा संख्ये निर्बिभेद महारथः ॥ 29 ॥
पाण्डवानां तु सैन्येषु नास्ति कश चित स भारत दधार यॊ रणे बाणान दरॊण चापच्युताञ शितान ॥ 30 ॥
तत पच्यमानम अर्केण दरॊण सायकतापितम बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥ 31 ॥
तथैव पार्षतेनापि काल्यमानं बलं तव अभवत सर्वतॊ दीप्तं शुष्कं वनम इवाग्निना ॥ 32 ॥
वध्यमानेषु सैन्येषु दरॊण पार्षत सायकैः तयक्त्वा पराणान परं शक्त्या परायुध्यन्त सम सैनिकाः ॥ 33 ॥
तावकानां परेषां च युध्यतां भरतर्षभ नासीत कश चिन महाराज यॊ ऽतयाक्षीत संयुगं भयात ॥ 34 ॥
भीमसेनं तु कौन्तेयं सॊदर्याः पर्यवारयन विविंशतिश चित्रसेनॊ विकर्णश च महारथः ॥ 35 ॥
विन्दानुविन्दाव आवन्त्यौ कषेमधूर्तिश च वीर्यवान तरयाणां तव पुत्राणां तरय एवानुयायिनः ॥ 36 ॥
बाह्लीक राजस तेजस्वी कुलपुत्रॊ महारथः सह सेनः सहामात्यॊ दरापदेयान अवारयत ॥ 37 ॥
शब्यॊ गॊवासनॊ राजा यॊधैर दशशतावरैः काश्यस्याभिभुवः पुत्रं पराक्रान्तम अवारयत ॥ 38 ॥
अजातशत्रुं कौन्तेयं जवलन्तम इव पावकम मद्राणमेश्वरः शल्यॊ राजा राजानम आवृणॊत ॥ 39 ॥
दुःशासनस तव अवस्थाप्य सवम अनीकम अमर्षणः सात्यकिं परययौ करुद्धः शूरॊ रथवरं युधि ॥ 40 ॥
सवकेनाहम अनीकेन संनद्ध कवचावृतः चतुःशतैर महेष्वासैश चेकितानम अवारयम ॥ 41 ॥
शकुनिस तु सहानीकॊ माद्रीपुत्रम अवारयत गान्धारकैः सप्तशतैश चापशक्तिशरासिभिः ॥ 42 ॥
विन्दानुविन्दाव आवन्त्यौ विराटं मत्स्यम आर्छताम पराणांस तयक्त्वा महेष्वासौ मित्रार्थे ऽभयुद्यतौ युधि ॥ 43 ॥
शिखण्डिनं याज्ञसेनिं रुन्धानम अपराजितम बाह्लिकः परतिसंयत्तः पराक्रानम अवारयत ॥ 44 ॥
धृष्टद्युम्नं च पाञ्चाल्यं करूरैः सार्धं परभद्रकैः आवन्त्यः सह सौवीरैः करुद्ध रूपम अवारयत ॥ 45 ॥
घटॊत्कचं तथा शूरं राक्षसं करूर यॊधिनम अलायुधॊ ऽदरवत तूर्णं करुद्धम आयान्तम आहवे ॥ 46 ॥
अलम्बुसं राक्षसेन्द्रं कुन्तिभॊजॊ महारथः सैन्येन महता युक्तः करुद्ध रूपम अवारयत ॥ 47 ॥
सैन्धवः पृष्ठतस तव आसीत सर्वसैन्यस्य भारत रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥ 48 ॥
तस्यास्तां चक्ररक्षौ दवौ सैन्धवस्य बृहत्तमौ दरौणिर दक्षिणतॊ राजन सूतपुत्रश च वामतः ॥ 49 ॥
पृष्ठगॊपास तु तस्यासन सौमदत्ति पुरॊगमाः कृपश च वृषसेनश च शलः शल्यश च दुर्जयः ॥ 50 ॥
नीतिमन्तॊ महेष्वासाः सर्वे युद्धविशारदाः सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥ 51 ॥
द्रोणपर्व · Drona Parva
अध्याय 70
Reach this point to mark the section finished.
Continue to अध्याय 71