धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 69

  1. [स] ततः परविष्टे कौन्तेये सिन्धुराजजिघांसया दरॊणानीकं विनिर्भिद्य भॊजानीकं च दुस्तरम ॥ 1 ॥

  2. काम्बॊजस्य च दायादे हते राजन सुदक्षिणे शरुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥ 2 ॥

  3. विप्रद्रुतेष्व अनीकेषु विध्वस्तेषु समन्ततः परभग्नं सवबलं दृष्ट्वा पुत्रस ते दरॊणम अभ्ययात ॥ 3 ॥

  4. तवरन्न एकरथेनैव समेत्य दरॊणम अब्रवीत गतः स पुरुषव्याघ्रः परमथ्येमां महाचमूम ॥ 4 ॥

  5. अत्र बुद्ध्या समीक्षस्व किं नु कार्यम अनन्तरम अर्जुनस्य विघाताय दारुणे ऽसमिञ जनक्षये ॥ 5 ॥

  6. यथा स पुरुषव्याघ्रॊ न हन्येत जयद्रथः तथाविधत्स्व भद्रं ते तवं हि नः परमा गतिः ॥ 6 ॥

  7. असौ धनंजयाग्निर हि कॊपमारुत चॊदितः सेना कक्षं दहति मे वह्निः कक्षम इवॊत्थितः ॥ 7 ॥

  8. अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप जयद्रथस्य गॊप्तारः संशयं परमं गताः ॥ 8 ॥

  9. सथिरा बुद्दिह्र नरेन्द्राणाम आसीद बरह्मविदां वर नातिक्रमिष्यति दरॊणं जातु जीवन धनंजयः ॥ 9 ॥

  10. सॊ ऽसौ पाथॊ वयतिक्रान्तॊ मिषतस ते महाद्युते सर्वं हय अद्यातुरं मन्ये नैतद अस्ति बलं मम ॥ 10 ॥

  11. जानामि तवां महाभाग पाण्डवानां हिते रतम तथा मुह्यामि च बरह्मन कार्यवत्तां विचिन्तयन ॥ 11 ॥

  12. यथाशक्ति च ते बरह्मन वर्तये वृत्तिम उत्तमाम परीणामि च यथाशक्ति तच च तवं नावबुध्यसे ॥ 12 ॥

  13. अस्मान न तवं सदा भक्तान इच्छस्य अमितविक्रम पाण्डवान सततं परीणास्य अस्माकं विप्रिये रतान ॥ 13 ॥

  14. अस्मान एवॊपजीवंस तवम अस्माकं विप्रिये रतः न हय अहं तवां विजानामि मधु दिग्धम इव कषुरम ॥ 14 ॥

  15. नादास्यच चेद वरं मह्यं भवान पाण्डव निग्रहे नावारयिष्यं गच्छन्तम अहं सिन्धुपतिं गृहान ॥ 15 ॥

  16. मया तव आशंसमानेन तवत्तस तराणम अबुद्धिना आश्वासितः सिन्धुपतिर मॊहाद दत्तश च मृत्यवे ॥ 16 ॥

  17. यम दंष्ट्रान्तरं पराप्तॊ मुच्येतापि हि मानवः नार्जुनस्य वशं पराप्तॊ मुच्येताजौ जयद्रथः ॥ 17 ॥

  18. स तथा कुरु शॊणाश्व यथा रक्ष्येत सैन्धवः मम चार्तप्रलापानां मा करुधः पाहि सैन्धवम ॥ 18 ॥

  19. [दर्न] नाभ्यसूयामि ते वाचम अश्वत्थाम्नासि मे समः सत्यं तु ते परवक्ष्यामि तज जुषस्व विशां पते ॥ 19 ॥

  20. सारथिः परवरः कृष्णः शीघ्राश चास्य हयॊत्तमाः अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः ॥ 20 ॥

  21. किं नु पश्यसि बाणौघान करॊशमात्रे किरीटिनः पश्चाद रथस्य पतितान कषिप्ताञ शीघ्रं हि गच्छतः ॥ 21 ॥

  22. न चाहं शीघ्रयाने ऽदय समर्थॊ वयसान्वितः सेनामुखे च पार्थानाम एतद बलम उपस्थितम ॥ 22 ॥

  23. युधिष्ठिरश च मे गराह्यॊ मिषतां सर्वधन्विनाम एवं मया परतिज्ञातं कषत्रमध्ये महाभुज ॥ 23 ॥

  24. धनंजयेन चॊत्सृष्टॊ वर्तते परमुखे मम तस्माद वयूह मुखं हित्वा नाहं यास्यामि फल्गुनम ॥ 24 ॥

  25. तुल्याभिजनकर्माणं शत्रुम एकं सहायवान गत्वा यॊधय मा भैस तवं तवं हय अस्य जगतः पतिः ॥ 25 ॥

  26. राजा शूरः कृती दक्षौ वैरम उत्पाद्य पाण्डवैः वीर सवयं परयाह्य आशु यत्र यातॊ धनंजयः ॥ 26 ॥

  27. [दुर] कथं तवाम अप्य अतिक्रान्तः सर्वशस्त्रभृतां वरः धनंजयॊ मया शक्य आचार्य परतिबाधितुम ॥ 27 ॥

  28. अपि शक्यॊ रणे जेतुं वज्रहस्तः पुरंदरः नार्जुनः समरे शक्यॊ जेतुं परपुरंजयः ॥ 28 ॥

  29. येन भॊजश च हार्दिक्यॊ भवांश च तरिदशॊपमः अस्त्रप्रतापेन जितौ शरुतायुश च निबर्हितः ॥ 29 ॥

  30. सुदक्षिणश च निहतः स च राजा शरुतायुधः शरुतायुश चाच्युतायुश च मलेच्छाश च शतशॊ हताः ॥ 30 ॥

  31. तं कथं पाण्डवं युद्धे दहन्तम अहितान बहून परतियॊत्स्यामि दुर्धर्षं तन मे शंसास्त्र कॊविद ॥ 31 ॥

  32. कषमं चेन मन्यसे युद्धं मम तेनाद्य शाधि माम परवान अस्मि भवति परेष्यकृद रक्ष मे यशः ॥ 32 ॥

  33. [दर्न] सत्यं वदसि कौरव्य कुराधर्षॊ धनंजयः अहं तु तत करिष्यामि यथैनं परसहिष्यसि ॥ 33 ॥

  34. अद्भुतं चाद्य पश्यन्तु लॊके सर्वधनुर्धराः विषक्तं तवयि कौन्तेयं वासुदेवस्य पश्यतः ॥ 34 ॥

  35. एष ते कवचं राजंस तथा बध्नामि काञ्चनम यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ॥ 35 ॥

  36. यदि तवां सासुरसुराः स यक्षॊरग राक्षसाः यॊधयन्ति तरयॊ लॊकाः स नरा नास्ति ते भयम ॥ 36 ॥

  37. न कृष्णॊ न च कौनेयॊ न चान्यः शस्त्रभृद रणे शरानर्पयितुं कश चित कवचे तव शक्ष्यति ॥ 37 ॥

  38. स तवं कवचम आस्थाय करुद्धम अद्य रणे ऽरजुनम तवरमाणः सवयं याहि न चासौ तवां सहिष्यते ॥ 38 ॥

  39. [स] एवम उक्त्वा तवरन दरॊणः सपृष्ट्वाम्भॊ वर्म भास्वरम आबबन्धाद्भुततमं जपन मन्त्रं यथाविधि ॥ 39 ॥

  40. रणे तस्मिन सुमहति विजयाय सुतस्य ते विसिस्मापयिषुर लॊकं विद्यया बरह्मवित्तमः ॥ 40 ॥

  41. [दर्न] करॊतु सवस्ति ते बरह्मा सवस्ति चापि दविजातयः सरीसृपाश च ये शरेष्ठास तेभ्यस ते सवस्ति भारत ॥ 41 ॥

  42. ययातिर नहुषश चैव धुन्धुमारॊ भगीरथः तुभ्यं राजर्षयः सर्वे सवस्ति कुर्वन्तु सर्वशः ॥ 42 ॥

  43. सवस्ति ते ऽसत्व एकपादेभ्यॊ बहु पादेभ्य एव च सवस्त्य अस्त्व अपादकेभ्यश च नित्यं तव महारणे ॥ 43 ॥

  44. सवाहा सवधा शची चैव सवस्ति कुर्वन्तु ते सदा लक्ष्णीर अरुन्धती चैव कुरौतां सवस्ति ते ऽनघ ॥ 44 ॥

  45. असितॊ देवलश चैव विश्वामित्रस तथाङ्गिराः वसिष्ठः कश्यपश चैव सवस्ति कुर्वन्तु ते नृप ॥ 45 ॥

  46. धाता विधाता लॊकेशॊ दिशश च स दिग ईश्वराः सवस्ति ते ऽदय परयच्छन्तु कार्त्तिकेयश च षण मुखः ॥ 46 ॥

  47. विवस्वान भगवान सवस्ति करॊतु तव सर्वशः दिग गजाश चैव चत्वारः कषितिः खं गगनं गरहाः ॥ 47 ॥

  48. अधस्ताद धरणीं यॊ ऽसौ सदा धारयते नृप स शेषः पन्नगश्रेष्ठः सवस्ति तुभ्यं परयच्छतु ॥ 48 ॥

  49. गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ 49 ॥

  50. हृततेजॊबलाः सर्वे तदा सेन्द्रा दिवौकसः बरह्माणं शरणं जग्मुर वृत्राद भीता महासुरात ॥ 50 ॥

  51. [देवाह] परमर्दितानां वृत्रेण देवानां देव सत्तम गतिर भव सुर शरेष्ठ तराहि नॊ महतॊ भयात ॥ 51 ॥

  52. [दर्न] अथ पार्श्वे सथितं विष्णुं शक्रादींश च सुरॊत्तमान पराह तथ्यम इदं वाक्यं विषण्णान सुरसत्तमान ॥ 52 ॥

  53. रक्ष्या मे सततं देवाः सहेन्द्राः स दविजातयः तवष्टुः सुदुर्धरं तेजॊ यन वृत्रॊ विनिर्मितः ॥ 53 ॥

  54. तवष्ट्रा पुरा तपस तप्त्वा वर्षायुतशतं तदा वृत्रॊ विनिर्मितॊ देवाः पराप्यानुज्ञां महेश्वरात ॥ 54 ॥

  55. स तस्यैव परसादाद वै हन्याद एव रिपुर बली नागत्वा शंकर सथानं भगवान दृश्यते हरः ॥ 55 ॥

  56. दृष्ट्वा हनिष्यथ रिपुं कषिप्रं गच्छत मन्दरम यत्रास्ते तपसां यॊनिर दक्षयज्ञविनाशनः पिनाकी सर्वभूतेशॊ भग नेत्रनिपातनः ॥ 56 ॥

  57. ते गत्वा सहिता देवा बरह्मणा सह मन्दरम अपश्यंस तेजसां राशिं सूर्यकॊटि समप्रभम ॥ 57 ॥

  58. सॊ ऽबरवीत सवागतं देवा बरूत किं करवाण्य अहम अमॊघं दर्शनं मह्यम आमप्राप्तिर अतॊ ऽसतु वः ॥ 58 ॥

  59. एवम उक्तास तु ते सर्वे परत्यूचुस तं दिवौकसः तेजॊ हृतं नॊवृत्रेण गतिर भव दिवौकसाम ॥ 59 ॥

  60. मूर्तीर ईक्षष्व नॊ देव परहारैर जर्जरीकृताः शरणं तवां परपन्नाः सम गतिर भव महेश्वर ॥ 60 ॥

  61. [महेष्वर] विदितं मे यथा देवाः कृत्येयं सुमहाबला तवष्टुस तेजॊ भवा घॊरा दुर्निवार्याकृतात्मभिः ॥ 61 ॥

  62. अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम बधानानेन मन्त्रेण मानसेन सुरेश्वर ॥ 62 ॥

  63. [दर्न] इत्य उक्त्वा वरदः परादाद वर्मतन मन्त्रम एव च स तेन वर्मणा गुप्तः परायाद वृत्र चमूं परति ॥ 63 ॥

  64. नानाविधैश च शस्त्रौघैः पात्यमानैर महारणे न संधिः शक्यते भेत्तुं वर्म बन्धस्य तस्य तु ॥ 64 ॥

  65. ततॊ जघान समरे वृत्रं देवपतिः सवयम तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥ 65 ॥

  66. अङ्गिराः पराह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः बृहस्पतिर अथॊवाच अग्निवेश्याय धीमते ॥ 66 ॥

  67. अग्निवेश्यॊ मम परादात तेन बध्नामि वर्म ते तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥ 67 ॥

  68. एवम उक्त्वा ततॊ दरॊणस तव पुत्रं महाद्युतिः पुनर एव वचः पराह शनैर आचार्य पुंगवः ॥ 68 ॥

  69. बरह्मसूत्रेण बध्नामि कवचं तव पार्थिव हिरण्यगर्भेण यथा यद्धं विष्णॊः पुरा रणे ॥ 69 ॥

  70. यथा च बरह्मणा बद्धं संग्रामे तारकामये शक्रस्य कवचं दिव्यं तथा बध्नाम्य अहं तव ॥ 70 ॥

  71. बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम परेषयाम आस राजानं युद्धाय महते दविजः ॥ 71 ॥

  72. स संनद्धॊ महाबाहुर आचार्येण महात्मना रथानां च सहस्रेण तरिगर्तानां परहारिणाम ॥ 72 ॥

  73. तथा दन्ति सहस्रेण मत्तानां वीर्यशालिनाम अश्वानाम अयुतेनैव तथान्यैश च महारथैः ॥ 73 ॥

  74. वृतः परायान महाबाहुर अर्जुनस्य रथं परति नाना वादित्रघॊषेण यथा वैरॊचनिस तथा ॥ 74 ॥

  75. ततः शब्दॊ महान आसीत सैन्यानां तव भारत अगाधं परस्थितं दृट्ष्ट्वा समुद्रम इव कौरवम ॥ 75 ॥

Reach this point to mark the section finished.

Continue to अध्याय 70

Previous: अध्याय 68