धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 68

  1. [स] हते सुदक्षिणे राजन वीरे चैव शरुतायुधे जवेनाभ्यद्रवन पार्थं कुपिताः सैनिकास तव ॥ 1 ॥

  2. अभीषाहा शूरसेनाः शिबयॊ ऽथ वसातयः अभ्यवर्षंस ततॊ राजञ शरवर्षैर धनंजयम ॥ 2 ॥

  3. तेषां षष्टिशतानार्यान परामथ्नत पाण्डवैः शरैः ते सम भीताः पलायन्त वयाघ्रात कषुद्रमृगा इव ॥ 3 ॥

  4. ते निवृत्य पुनः पार्थं सरतः पर्यवारयन रणे सपत्नान निघ्नन्तं जिगीषंतन परान युधि ॥ 4 ॥

  5. तेषाम आपततां तूर्णं गाण्डीवप्रेषितैः शरैः शिरांसि पातयाम आस बाहूंश चैव धनंजयः ॥ 5 ॥

  6. शिरॊभिः पतितैस तत्र भूमिर आसीन निरन्तरा अभ्रच छायेव चैवासीद धवाङ्क्ष गृध्रवडैर युधि ॥ 6 ॥

  7. तेषु तूत्साद्यमानेषु करॊधामर्षसमन्वितौ शरुतायुश चाच्युतायुश च धनंजयम अयुध्यताम ॥ 7 ॥

  8. बलिनौ सपर्थिनौ वीरौ कुलजौ बाहुशालिनौ ताव एनं शरवर्षाणि सव्यदक्षिणम अस्यताम ॥ 8 ॥

  9. तवरायुक्तौ महाराज परार्थयानौ महद यशः अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥ 9 ॥

  10. ताव अर्जुनं सहस्रेण पत्रिणां नतपर्वणाम पूरयाम आसतुः करुद्धौ तडागं जलदौ यथा ॥ 10 ॥

  11. शरुतायुश च ततः करुद्धस तॊमरेण धनंजयम आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ 11 ॥

  12. सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः आजगाम परं मॊहं मॊहयन केशवं रणे ॥ 12 ॥

  13. एतस्मिन्न एव काले तु सॊ ऽचयुतायुर महारथः शूलेन भृशतीक्ष्णेन ताडयाम आस पाण्डवम ॥ 13 ॥

  14. कषते कषारं स हि ददौ पाण्डवस्य महात्मनः पार्थॊ ऽपि भृशसंविद्धॊ धवजयष्टिं समाश्रितः ॥ 14 ॥

  15. ततः सर्वस्य सैन्यस्य तावकस्य विशां पते सिंहनादॊ महान आसीद धतं मत्वा धनंजयम ॥ 15 ॥

  16. कृष्णश च भृशसंतप्तॊ दृष्ट्वा पार्थं विचेतसम आश्वासयत सुहृद्याभिर वाग्भिस तत्र धनंजयम ॥ 16 ॥

  17. ततस तौ रथिनां शरेष्ठौ लब्धलक्षौ धनंजयम वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ 17 ॥

  18. सचक्रकूबर रथं साश्वध्वजपताकिनम अदृश्यं चक्रतुर युद्धे तद अद्भुतम इवाभवत ॥ 18 ॥

  19. परत्याश्वस्तस तु बीभत्सुः शनकैर इव भारत परेतराजपुरं पराप्य पुनः परत्यागतॊ यथा ॥ 19 ॥

  20. संछन्नं शरजालेन रथं दृष्ट्वा स केशवम शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाव इवानलौ ॥ 20 ॥

  21. परादुश्चक्रे ततः पार्थः शाक्रम अस्त्रं महारथः तस्माद आसन सहस्राणि शराणां नतपर्वणाम ॥ 21 ॥

  22. ते जघ्नुस तौ महेष्वासौ ताभ्यां सृष्टांश च सायकान विचेरुर आकाशगताः पार्थ बाणविदारिताः ॥ 22 ॥

  23. परतिहत्य शरांस तूर्णं शरवेगेन पाण्डवः परतस्थे तत्र तत्रैव यॊधयन वै महारथान ॥ 23 ॥

  24. तौ च फल्गुन बाणौघैर विबाहु शिरसौ कृतौ वसुधाम अन्वपद्येतां वातनुन्नाव इव दरुमौ ॥ 24 ॥

  25. शरुतायुषश च निधनं वधश चैवाच्युतायुषः लॊकविस्मापनम अभूत समुद्रस्येव शॊषणम ॥ 25 ॥

  26. तयॊः पदानुगान हत्वा पुनः पञ्चशतान रथान अभ्यगाद भारतीं सेनां निघ्नन पार्थॊ वरान वरान ॥ 26 ॥

  27. शरुतायुषं च निहतं परेक्ष्य चैवाच्युतायुषम अयुतायुश च संक्रुद्धॊ दीर्घायुश चैव भारत ॥ 27 ॥

  28. पुत्रौ तयॊर नरश्रेष्ठौ कौन्तेयं परतिजग्मतुः किरन्तौ विविधान बाणान पितृव्यसनकर्शितौ ॥ 28 ॥

  29. ताव अर्जुनॊ मुहूर्तेन शरैः संनतपर्वभिः परेषयत परमक्रुद्धॊ यमस्य सदनं परति ॥ 29 ॥

  30. लॊडयन्तम अनीकानि दविपं पद्मसरॊ यथा नाशक्नुवन वारयितुं पार्थं कषत्रिय पुंगवाः ॥ 30 ॥

  31. अग्नास तु गजवारेण पाण्डवं पर्यवारयन करुद्धाः सहस्रशॊ राजञ शिखिता हस्तिसादिनः ॥ 31 ॥

  32. दुर्यॊधन समादिष्टाः कुञ्जरैः पर्वतॊपमैः पराच्याश च दाक्षिणात्याश च कलिङ्ग परमुखा नृपाः ॥ 32 ॥

  33. तेषाम आपततां शीघ्रं गाण्डीवप्रेषितैः शरैः निचकर्त शिरांस्य उग्रौ बाहून अपि सुभूषणान ॥ 33 ॥

  34. तैः शिरॊभिर मही कीर्णा बाहुभिश च सहाङ्गदैः बभौ कनकपाषाणा भुजगैर इव संवृता ॥ 34 ॥

  35. बाहवॊ विशिखैश छिन्नाः शिरांस्य उन्मथितानि च चयवमानान्य अदृश्यन्त दरुमेभ्य इव पक्षिणः ॥ 35 ॥

  36. शरैः सहस्रशॊ विद्धा दविपाः परस्रुत शॊणिताः वयदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ 36 ॥

  37. निहताः शेरते समान्ये बीभत्सॊर निशितैः शरैः गजपृष्ठ गता मलेच्छा नाना विकृतदर्शनाः ॥ 37 ॥

  38. नानावेषधरा राजन नानाशस्त्रौघसंवृताः रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर हताः ॥ 38 ॥

  39. शॊणितं निर्वमन्ति सम दविपाः पार्थ शराहताः सहस्रशश छिन्नगात्राः सारॊहाः सपदानुगाः ॥ 39 ॥

  40. चुक्रुशुश च निपेतुश च बभ्रमुश चापरे दिशः भृशं तरसाश च बहुधा सवानेन ममृदुर गजाः सान्तरायुधिका मत्ता दविपास तीक्ष्णविषॊपमाः ॥ 40 ॥

  41. विदन्त्य असुरमायां ये सुघॊरा घॊरचक्षुषः यवनाः पारदाश चैव शकाश च सुनिकैः सह ॥ 41 ॥

  42. यॊ यॊनिप्रभवा मलेच्छाः कालकल्पाः परहारिणः दार्वाभिसारा दरदाः पुण्ड्राश च सह बाह्लिकैः ॥ 42 ॥

  43. न ते सम शक्याः संख्यातुं वराताः शतसहस्रशः वृष्टिस तथाविधा हय आसीच छलभानाम इवायतिः ॥ 43 ॥

  44. अभ्रच छायाम इव शरैः सैन्ये कृत्वा धनंजयः मुण्डार्ध मुण्डजटिलान अशुचीञ जटिलाननान मलेच्छान अशातयत सर्वान समेतान अस्त्रमायया ॥ 44 ॥

  45. शरैश च शतशॊ विद्धास ते संघाः संघचारिणः पराद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ 45 ॥

  46. गजाश्वसादि मलेच्छानां पतितानां शतैः शरैः वडाः कङ्का वृका भूमाव अपिवन रुधिरं मुदा ॥ 46 ॥

  47. पत्त्यश्वरथनागैश च परच्छन्नकृतसंक्रमाम शरवर्ष पलवां घॊरां केशशैवलशाड्वलाम परावर्तयन नदीम उग्रां शॊणितौघतरङ्गिणीम ॥ 47 ॥

  48. शिरस तराणक्षुद्रमत्स्यां युगान्ते कालसंभृताम अकरॊद गजसंबाधां नदीम उत्तरशॊणिताम देहेभ्यॊ राजपुत्राणां नागाश्वरथसादिनाम ॥ 48 ॥

  49. यथा सथलं च निम्नं च न सयाद वर्षति वासवे तथासीत पृथिवी सर्वा शॊणितेन परिप्लुता ॥ 49 ॥

  50. षट सहस्रान वरान वीरान पुनर दशशतान वरान पराहिणॊन मृत्युलॊकाय कषत्रियान कषत्रियर्षभः ॥ 50 ॥

  51. शरैः सहस्रशॊ विद्धा विधिवत कल्पिता दविपाः शेरते भूमिम आसाद्य शैला वज्रहता इव ॥ 51 ॥

  52. स वाजिरथमातङ्गान निघ्नन वयचरद अर्जुनः परभिन्न इव मातङ्गॊ मृद्नन नड वनम यथा ॥ 52 ॥

  53. भूरि दरुमलता गुल्मं शुष्केन्धनतृणॊलपम निर्दहेद अनलॊ ऽरण्यं यथा वायुसमीरितः ॥ 53 ॥

  54. सैन्यारण्यं तव तथा कृष्णानिल समीरितः शरार्चिर अदहत करुद्धः पाण्डवाग्निर धनंजयः ॥ 54 ॥

  55. शून्यान कुर्वन रथॊपस्थान मानवैः संस्तरन महीम परानृत्यद इव संबाधे चापहस्तॊ धनंजयः ॥ 55 ॥

  56. वज्रकल्पैः शरैर भूमिं कुर्वन्न उत्तरशॊणिताम पराविशद भारतीं सेनां संक्रुद्धॊ वै धनंजयः तं शरुतायुस तथाम्बष्ठॊ वरजमानं नयवारयत ॥ 56 ॥

  57. तस्यार्जुनः शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः नयपातयद धयाञ शीघ्रं यतमानस्य मारिष धनुश चास्यापरैश छित्त्वा शरैः पार्थॊ विचक्रमे ॥ 57 ॥

  58. अम्बष्ठस तु गदां गृह्य करॊधपर्याकुलेक्षणः आससाद रणे पार्थं केशवं च महारथम ॥ 58 ॥

  59. ततः स परहसन वीरॊ गदाम उद्यम्य भारत रथम आवार्य गदया केशवं समताडयत ॥ 59 ॥

  60. गदया ताडितं दृष्ट्वा केशवं परवीरहा अर्जुनॊ भृशसंक्रुद्धः सॊ ऽमबष्ठं परति भारत ॥ 60 ॥

  61. ततः शरैर हेमपुङ्खैः सगदं रथिनां वरम छादयाम आस समरे मेघः सूर्यम इवॊदितम ॥ 61 ॥

  62. ततॊ ऽपरैः शरैश चापि गदां तस्य महात्मनः अचूर्णयत तदा पार्थस तद अद्भुतम इवाभवत ॥ 62 ॥

  63. अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम अर्जुनं वासुदेवं च पुनः पुनर अताडयत ॥ 63 ॥

  64. तस्यार्जुनः कषुरप्राभ्यां सगदाव उद्यतौ भुजौ चिच्छेदेन्द्र धवजाकारौ शिरश चान्येन पत्रिणा ॥ 64 ॥

  65. स पपात हतॊ राजन वसुधाम अनुनादयन इन्द्रध्वज इवॊत्सृष्टॊ यन्त्रनिर्मुक्त बन्धनः ॥ 65 ॥

  66. रथानीकावगाढश च वारणाश्वशतैर वृतः सॊ ऽदृश्यत तदा पार्थॊ घनैः सूर्य इवावृतः ॥ 66 ॥

Reach this point to mark the section finished.

Continue to अध्याय 69

Previous: अध्याय 67