[स] संनिरुद्धस तु तैः पार्थॊ महाबलपराक्रमः दरुतं समनुयातश च दरॊणेन रथिनां वरः ॥ 1 ॥
किरन्न इषुगणांस तिक्ष्णान सवरश्मीन इव भास्करः तापयाम आस तत सैन्यं देहं वयाधिगणॊ यथा ॥ 2 ॥
अश्वॊ विद्धॊ धवजश छिन्नः सारॊहः पतितॊ गजः छत्राणि चापविद्धानि रथाश चक्रैर विनाकृताः ॥ 3 ॥
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः इत्य आसीत तुमुलं युद्धं न पराज्ञायत किं चन ॥ 4 ॥
तेषाम आयच्छतां संख्ये परस्परम अजिह्मगैः अर्जुनॊ धवजिनीं राजन्न अभीक्ष्णं समकम्पयत ॥ 5 ॥
सत्यां चिकीर्षमाणस तु परतिज्ञां सत्यसंगरः अभ्यद्रवद रथश्रेष्ठं शॊणाश्वं शवेतवाहनः ॥ 6 ॥
तं दरॊणः पञ्चविंशत्या मर्मभिद्भिर अजिह्मगैः अन्तेवासिनम आचार्यॊ महेष्वासं समर्दयत ॥ 7 ॥
तं तूर्णम इव बीभत्सुः सर्वशस्त्रभृतां वरः अभ्यधावद इषून अस्यन्न इषुवेगविघातकान ॥ 8 ॥
तस्याशु कषिपतॊ भल्लान भल्लैः संनतपर्वभिः परत्यविध्यद अमेयात्मा बरह्मास्त्रं समुदीरयन ॥ 9 ॥
तद अद्भुतम अपश्याम दरॊणस्याचार्यकं युधि यतमानॊ युवा नैनं परत्यविध्यद यद अर्जुनः ॥ 10 ॥
कषरन्न इव महामेघॊ वारिधाराः सहस्रशः दरॊण मेघः पार्थ शैलं ववर्ष शरवृष्टिभिः ॥ 11 ॥
अर्जुनः शरवर्षं तद बरह्मास्त्रेणैव मारिष परतिजग्राह तेजस्वी बाणैर बाणान विशातयन ॥ 12 ॥
दरॊणस तु पञ्चविंशत्या शवेतवाहनम आर्दयत वासुदेवं च सप्तत्या बाह्वॊर उरसि चाशुगैः ॥ 13 ॥
पार्थस तु परहसन धीमान आचार्यं स शरौघिणम विसृजन्तं शितान बाणान अवारयत तं युधि ॥ 14 ॥
अथ तौ वध्यमानौ तु दरॊणेन रथसत्तमौ आवर्जयेतां दुर्धर्षं युगान्ताग्निम इवॊत्थितम ॥ 15 ॥
वर्जयन निशितान बाणान दरॊण चापविनिःसृतान किरीटमाली कौन्तेयॊ भॊजानीकं नयपातयत ॥ 16 ॥
सॊ ऽनतरा कृतवर्माणं काम्बॊजं च सुदक्षिणम अभ्ययाद वर्जयन दरॊणं मैनाकम इव पर्वतम ॥ 17 ॥
ततॊ भॊजॊ नरव्याघ्रं दुःसहः कुरुसत्तम अविध्यत तूर्णम अव्यग्रॊ दशभिः कङ्कपत्रिभिः ॥ 18 ॥
तम अर्जुनः शितेनाजौ राजन विव्याध पत्रिणा पुनश चान्यैस तरिभिर बाणैर मॊहयन्न इव सात्वतम ॥ 19 ॥
भॊजस तु परहसन पार्थं वासुदेवं च माधवम एकैकं पञ्चविंशत्या सायकानां समार्पयत ॥ 20 ॥
तस्यार्जुनॊ धनुश छित्त्वा विव्याधैनं तरिसप्तभिः शरैर अग्निशिखाकारैः करुद्धाशीविष संनिभैः ॥ 21 ॥
अथान्यद धनुर आदाय कृतवर्मा महारथः पञ्चभिः सायकैस तूर्णं विव्याधॊरसि भारत ॥ 22 ॥
पुनश च निशितैर बाणैः पार्थं विव्याध पञ्चभिः तं पार्थॊ नवभिर बाणैर आजघान सतनान्तरे ॥ 23 ॥
विषक्तं दृश्यकौनेयं कृतवर्म रथं परति चिन्तयाम आस वार्ष्णेयॊ न नः कालात्ययॊ भवेत ॥ 24 ॥
ततः कृष्णॊ ऽबरवीत पार्थं कृतवर्मणि मा दयाम कुरु साम्बन्धिकं कृत्वा परमथ्यैनं विशातय ॥ 25 ॥
ततः स कृतवर्माणं मॊहयित्वार्जुनः शरैः अभ्यगाज जवनैर अश्वैः काम्बॊजानाम अनीकिनीम ॥ 26 ॥
अमर्षितस तु हार्दिख्यः परविष्टे शवेतवाहने विधुन्वन स शरं चापं पाञ्चाल्याभ्यां समागतः ॥ 27 ॥
चक्ररक्षौ तु पाञ्चाल्याव अर्जुनस्य पदानुगौ पर्यवारयद आयान्तौ कृतवर्मा रथेषुभिः ॥ 28 ॥
ताव अविध्यत ततॊ भॊजः सर्वपारशवैः शरैः तरिभिर एव युधामन्युं चतुर्भिश चॊत्तमौजसम ॥ 29 ॥
ताव अप्य एनं विव्यधतुर दशभिर दशभिः शरैः संचिच्छिदतुर अप्य अस्य धवजं कार्मुकम एव च ॥ 30 ॥
अथान्यद धनुर आदाय हार्दिक्यः करॊधमूर्छितः कृत्वा विधनुषौ वीरौ शरवर्षैर अवाकिरत ॥ 31 ॥
ताव अन्ये धनुषी सज्ये कृत्वा भॊजं विजघ्नतुः तेनान्तरेण बीभत्सुर विवेशामित्र वाहिनीम ॥ 32 ॥
न लेभाते तु तौ दवारं वारितौ कृतवर्मणा धार्तराष्ट्रेष्व अनीकेषु यतमानौ नरर्षभौ ॥ 33 ॥
अनीकान्य अर्दयन युद्धे तवरितः शवेतवाहनः नावधीत कृतवर्माणं पराप्तम अप्य अरिसूदनः ॥ 34 ॥
तं दृष्ट्वा तु तथायान्तं शूरॊ राजा शरुतायुधः अभ्यद्रवत सुसंक्रुद्धॊ विधुन्वानॊ महद धनुः ॥ 35 ॥
स पार्थं तरिभिर आनर्छत सप्तत्या च जनार्दनम कषुरप्रेण सुतीक्ष्णेन पार्थ केतुम अताडयत ॥ 36 ॥
तम अर्जुनॊ नवत्या तु शराणां नतपर्वणाम आजघान भृशं करुद्धस तॊत्त्रैर इव महाद्विपम ॥ 37 ॥
स तन न ममृषे राजन पाण्डवेयस्य विक्रमम अथैनं सप्त सप्तत्या नाराचानां समार्पयत ॥ 38 ॥
तस्यार्जुनॊ धनुश छित्त्वा शरावापं निकृत्य च आजघान उरसि करुद्धः सप्तभिर नतपर्वभिः ॥ 39 ॥
अथान्यद धनुर आदाय स राजा करॊधमूर्हितः वासविं नवभिर बाणैर बाह्वॊर उरसि चार्पयत ॥ 40 ॥
ततॊ ऽरजुनः समयन्न एव शरुतायुधम अरिंदमः शरैर अनेकसाहस्रैः पीडयाम आस भारत ॥ 41 ॥
अश्वांश चास्यावधीत तूर्णं सारथिं च महारथः विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ 42 ॥
हताश्वं रथम उत्सृज्य स तु राजा शरुतायुधः अभ्यद्रवद रणे पार्थं गदाम उद्यम्य वीर्यवान ॥ 43 ॥
वरुणस्यात्मजॊ वीरः स तु राजा शरुतायुधः पर्णाशा जननी यस्य शीततॊया महानदी ॥ 44 ॥
तस्य माताब्रवीद वाक्यं वरुणं पुत्रकारणात अवध्यॊ ऽयं भवेल्लॊके शत्रूणां तनयॊ मम ॥ 45 ॥
वरुणस तव अब्रवीत परीतॊ ददाम्य अस्मै वरं हितम दिव्यम अस्त्रं सुतस ते ऽयं यनावध्यॊ भविष्यति ॥ 46 ॥
नास्ति चाप्य अमरत्वं वै मनुष्यस्य कथं चन सर्वेणावश्य मर्तव्यं जातेन सरितां वरे ॥ 47 ॥
दुर्धर्षस तव एष शत्रूणां रणेषु भविता सदा अस्त्रस्यास्य परभावाद वै वयेतु ते मानसॊ जवरः ॥ 48 ॥
इत्य उक्त्वा वरुणः परादाद गदां मन्त्रपुरस्कृताम याम आसाद्य दुराधर्षः सर्वलॊके शरुतायुधः ॥ 49 ॥
उवाच चैनं भगवान पुनर एव जलेश्वरः अयुध्यति न भॊक्तव्या स तवय्य एव पतेद इति ॥ 50 ॥
स तया वीर घातिन्या जनार्दनम अताडयत परतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान ॥ 51 ॥
नाकम्पयत शौरिं सा विन्ध्यं गिरिम इवानिलः परत्यभ्ययात तं विप्रॊढा कृत्येव दुरधिष्ठिता ॥ 52 ॥
जघान चास्थितं वीरं शरुतायुधम अमर्षणम हत्वा शरुतायुधं वीरं जगतीम अन्वपद्यत ॥ 53 ॥
हाहाकारॊ महांस तत्र सैन्यानां समजायत सवेनास्त्रेण हतं दृष्ट्वा शरुतायुधम अरिंदमम ॥ 54 ॥
अयुध्यमानाय हि सा केशवाय नराधिप कषिप्ता शरुतायुधेनाथ तस्मात तम अवधीद गदा ॥ 55 ॥
यथॊक्तं वरुणेनाजौ तथा स निधनं गतः वयसुश चाप्य अपतद भूमौ परेक्षतां सर्वधन्विनाम ॥ 56 ॥
पतमानस तु स बभौ पर्णाशायाः परियः सुतः संभग्न इव वातेन बहुशाखॊ वनस्पतिः ॥ 57 ॥
ततः सर्वाणि सैन्यानि सेनामुख्याश च सर्वशः पराद्रवन्त हतं दृष्ट्वा शरुतायुधम अरिंदमम ॥ 58 ॥
तथ काम्बॊजराजस्य पुत्रः शूरः सुदक्षिणः अभ्ययाज जवनैर अश्वैः फल्गुनं शत्रुसूदनम ॥ 59 ॥
तस्य पार्थः शरान सप्त परेषयाम आस भारत ते तं शूरं विनिर्भिद्य पराविशन धरणीतलम ॥ 60 ॥
सॊ ऽतिविद्धः शरैस तीक्ष्णैर गाण्डीवप्रेषितैर मृधे अर्जुनं परतिविव्याध दशभिर कङ्कपत्रिभिः ॥ 61 ॥
वासुदेवं तरिभिर विद्ध्वा पुनः पार्थं च पञ्चभिः तस्य पार्थॊ धनुश छित्त्वा केतुं चिच्छेद मारिष ॥ 62 ॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः स तु पार्थं तरिभिर विद्ध्वा सिंहनादम अथानदत ॥ 63 ॥
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः स घण्टां पराहिणॊद घॊरां करुद्धॊ गाण्डीवधन्वने ॥ 64 ॥
सा जवलन्ती महॊल्केव तम आसाद्य महारथम स विस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ 65 ॥
तं चतुर्दशभिः पार्थॊ नाराचैः कङ्कपत्रिभिः साश्वध्वजधनुः सूतं विव्याधाचिन्त्य विक्रमः रथं चान्यैः सुबहुभिश चक्रे विशकलं शरैः ॥ 66 ॥
सुदक्षिणं तु काम्बॊजं मॊघसंकल्पविक्रमम बिभेद हृदि बाणेन पृथु धारेण पाण्डवः ॥ 67 ॥
स भिन्नमर्मा सरस्ताङ्गः परभ्रष्ट मुकुटाङ्गदः पपाताभिमुखः शूरॊ यन्त्रमुक्त इव धवजः ॥ 68 ॥
गिरेः शिख रजः शरीमान सुशाखः सुप्रतिष्ठितः निर्भग्न इव वातेन कर्णिकारॊ हिमात्यये ॥ 69 ॥
शेते सम निहतॊ भूमौ काम्बॊजास्तरणॊचितः सुदर्शनीयस ताम्राक्षः कर्णिना स सुदक्षिणः पुत्रः काम्बॊजराजस्य पार्थेन विनिपातितः ॥ 70 ॥
ततः सर्वाणि सैन्यानि वयद्रवन्त सुतस्य ते हतं शरुतायुधं दृष्ट्वा काम्बॊजं च सुदक्षिणम ॥ 71 ॥
द्रोणपर्व · Drona Parva
अध्याय 67
Reach this point to mark the section finished.
Continue to अध्याय 68