धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 66

  1. [स] दुःशासन बलं हत्वा सव्यसाची धनंजयः सिन्धुराजं परीप्सन वै दरॊणानीकम उपाद्रवत ॥ 1 ॥

  2. स तु दरॊणं समासाद्य वयूहस्य परमुखे सथितम कृताञ्जलिर इदं वाक्यं कृष्णस्यानुमते ऽबरवीत ॥ 2 ॥

  3. शिवेन धयाहि मां बरह्म सवस्ति चैव वदस्व मे भवत्प्रसादाद इच्छामि परवेष्टुं दुर्भिदां चमूम ॥ 3 ॥

  4. भवान पितृसमॊ मह्यं धर्मराज समॊ ऽपि च तथा कृष्ण समश चैव सत्यम एतद बरवीमि ते ॥ 4 ॥

  5. अश्वत्थामा यथा तात रक्षणीयस तवानघ तथाहम अपि ते रक्ष्यः सदैव दविजसत्तम ॥ 5 ॥

  6. तव परसादाद इच्छामि सिन्धुराजानम आहवे निहन्तुं दविपदां शरेष्ठ परतिज्ञां रक्ष मे विभॊ ॥ 6 ॥

  7. एवम उक्तस तदाचार्यः परत्युवाच समयन्न इव माम अजित्वा न बीभत्सॊ शक्यॊ जेतुं जयद्रथः ॥ 7 ॥

  8. एतावद उक्त्वा तं दरॊणः शरव्रातैर अवाकिरत स रथाश्वध्वजं तीक्ष्णैः परहसन वै स सारथिम ॥ 8 ॥

  9. ततॊ ऽरजुनः शरव्रातान दरॊणस्यावार्य सायकैः दरॊणम अभ्यर्दयद बाणघॊररूपैर महत्तरैः ॥ 9 ॥

  10. विव्याध च रणे दरॊणम अनुमान्य विशां पते कषत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ 10 ॥

  11. तस्येषून इषुभिश छित्त्वा दरॊणॊ विव्याध ताव उभौ विषाग्निज्वलनप्रख्यैर इषुभिः कृष्ण पाण्डवौ ॥ 11 ॥

  12. इयेष पाण्डवस तस्य बाणैश छेत्तुं शरासनम तस्य चिन्तयतस तव एवं फल्गुनस्य महात्मनः दरॊणः शरैर असंभ्रान्तॊ जयां चिच्छेदाशु वीर्यवान ॥ 12 ॥

  13. विव्याध च हयान अस्य धवजं सारथिम एव च अर्जुनं च शरैर वीरं समयमानॊ ऽभयवाकिरत ॥ 13 ॥

  14. एतस्मिन्न अन्तरे पार्थः सज्जं कृत्वा महद धनुः विशेषयिष्यन्न आचार्यं सर्वास्त्रविदुषां वरम मुमॊच षट्शतान बाणान गृहीत्वैकम इव दरुतम ॥ 14 ॥

  15. पुनः सप्तशतान अन्यान सहस्रं चानिवर्तिनाम चिक्षेपायुतशश चान्यांस ते ऽघनन दरॊणस्य तां चमूम ॥ 15 ॥

  16. तैः सम्यग अस्तैर बलिना कृतिना चित्रयॊधिना मनुष्यवाजि मातङ्गा विद्धाः पेतुर गतासवः ॥ 16 ॥

  17. विद्रुताश च रणे पेतुः संछिन्नायुध जीविताः रथिनॊ रथमुख्येभ्यः सहयाः शरपीडिताः ॥ 17 ॥

  18. चूर्णिताक्षिप्त दग्धानां वज्रानिलहुताशनैः तुल्यरूपा गजाः पेतुर गिर्यग्राम्बुद वेश्मनाम ॥ 18 ॥

  19. पेतुर अश्वसहस्राणि परहतान्य अर्जुनेषुभिः हंसा हिमवतः पृष्ठे वारि विप्रहता इव ॥ 19 ॥

  20. रथाश्वद्विपपत्त्यॊघाः सलिलौघा इवाद्भुताः युगान्तादित्यरश्म्याभः पाण्डवास्त शरैर हताः ॥ 20 ॥

  21. तं पाण्डवादित्य शरांशु जालं; कुरुप्रवीरान युधि निष्टपन्तम स दरॊण मेघः शरवर्ष वेगैः; पराच्छादयन मेघ इवार्क रश्मीन ॥ 21 ॥

  22. अथात्यर्थ विषृष्ट्तेन दविषताम असु भॊजिना आजघ्ने वक्षसि दरॊणॊ नाराचेन धनंजयम ॥ 22 ॥

  23. स वह्वलित सर्वाङ्गः कषितिकम्पे यथाचलः धैर्यम आलम्ब्य बीभत्सुर दरॊणं विव्याध पत्रिभिः ॥ 23 ॥

  24. दरॊणस तु पञ्चभिर बाणैर वासुदेवम अताडयत अर्जुनं च तरिसप्तत्या धवजं चास्य तरिभिः शरैः ॥ 24 ॥

  25. विशेषयिष्यञ शिष्यं च दरॊमॊ राजन पराक्रमी अदृश्यम अर्जुनं चक्रे निमेषाच छरवृष्टिभिः ॥ 25 ॥

  26. परसक्तान अप्ततॊ ऽदराक्ष्म भारद्वाजस्य सायकान मण्डलीकृतम एवास्य धनुश चादृश्यताद्भुतम ॥ 26 ॥

  27. ते ऽभययुः समरे राजन वासुदेवधनंजयौ दरॊण सृष्टाः सुबहवः कङ्कपत्र परिच्छदाः ॥ 27 ॥

  28. तद दृष्ट्वा तादृशं युद्धं दरॊण पाण्डवयॊस तदा वासुदेवॊ महाबुद्धिः कार्यवत्ताम अचिन्तयत ॥ 28 ॥

  29. ततॊ ऽबरवीद वासुदेवॊ धनंजयम इदं वचः पार्थ पार्थ महाबाहॊ न नः कालात्ययॊ भवेत ॥ 29 ॥

  30. दरॊणम उत्सृज्य गच्छामः कृत्यम एतन महत्तरम पार्थश चाप्य अब्रवीत कृष्णं यथेष्टम इति केशव ॥ 30 ॥

  31. ततः परदक्षिणं कृत्वा दरॊणं परायान महाभुजः परिवृत्तश च बीभत्सुर अगच्छद विसृजञ शरान ॥ 31 ॥

  32. ततॊ ऽबरवीत समयन दरॊणः कवेदं पाण्डव गम्यते ननु नाम रणे शत्रुम अजित्वा न निवर्तसे ॥ 32 ॥

  33. [अर्ज] गुरुर भवान अन मे शत्रुः शिष्यः पुत्रसमॊ ऽसमि ते न चास्मि स पुमाँल लॊके यस तवां युधि पराजयेत ॥ 33 ॥

  34. [स] एवं बरुवाणॊ बीभत्सुर जयद्रथवधॊत्सुकः तवरायुक्तॊ महाबाहुस तत सैन्यं समुपाद्रवत ॥ 34 ॥

  35. तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ अन्वयातां महात्मानौ विशन्तं तावकं बलम ॥ 35 ॥

  36. ततॊ जयॊ महाराज कृतवर्मा च सात्त्वतः काम्बॊजश च शरुतायुश च धनंजयम अवारयन ॥ 36 ॥

  37. तेषां दशसहस्राणि रथानाम अनुयायिनाम अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः ॥ 37 ॥

  38. माचेल्लका ललित्थाश च केकया मद्रकास तथा नारायणाश च गॊपालाः काम्बॊजानां च ये गणाः ॥ 38 ॥

  39. कर्णेन विजिताः पूर्वं संग्रामे शूर संमताः भारद्वाजं पुरस्कृत्य तयक्तात्मानॊ ऽरजुनं परति ॥ 39 ॥

  40. पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम तयजन्तं तुमुले पराणान संनद्धं चित्रयॊधिनम ॥ 40 ॥

  41. गाहमानम अनीकानि मातङ्गम इव यूथपम महेष्वासं पराक्रान्तं नरव्याघ्रम अवारयन ॥ 41 ॥

  42. ततः परववृते युद्धं तुमुलं लॊमहर्षणम अन्यॊन्यं वै परार्थयतां यॊधानाम अर्जुनस्य च ॥ 42 ॥

  43. जयद्रथ वधप्रेप्सुम आयान्तं पुरुषर्षभम नयवारयन्त सहिताः करिया वयाधिम इवॊत्थितम ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65