[धृ] तस्मिन परभग्ने सैन्याग्रे वध्यमाने किरीटिना के नु तत्र रणे वीराः परत्युदीयुर धनंजयम ॥ 1 ॥
आहॊ सविच छकट वयूहं परविष्टा मॊघनिश्चयाः दरॊणम आश्रित्य तिष्ठन्तः पराकारम अकुतॊभयाः ॥ 2 ॥
[स] तथार्जुनेन संभग्ने तस्मिंस तव बले तदा हतवीरे हतॊत्साहे पलायनकृतक्षणे ॥ 3 ॥
पाकशासनिनाभीक्ष्णं वध्यमाने शरॊत्तमैः न तत्र कश चित संग्रामे शशाकार्जुनम ईक्षितुम ॥ 4 ॥
ततस तव सुतॊ राजन दृष्ट्वा सैन्यं तथागतम दुःशासनॊ भृशं करुद्धॊ युद्धायार्जुनम अभ्ययात ॥ 5 ॥
स काञ्चनविचित्रेण कवचेन समावृतः जाम्बूनदशिरस तराणः शूरस तीव्रपराक्रमः ॥ 6 ॥
नागानीकेन महता गरसन्न इव महीम इमाम दुःशासनॊ महाराज सव्यसाचिनम आवृणॊत ॥ 7 ॥
हरादेन गजघण्टानां शङ्खानां निनदेन च जया कषेप निनदैश चैव विरावेण च दन्तिनाम ॥ 8 ॥
भूर दिशश चान्तरिक्षं च शब्देनासीत समावृतम स मुहूर्तं परतिभयॊ दारुणः समपद्यत ॥ 9 ॥
तान दृष्ट्वा पततस तूर्णम अङ्कुशैर अभिचॊदितान वयालम्ब हस्तान संरब्धान सपक्षान इव पर्वतान ॥ 10 ॥
सिंहनादेन महता नरसिंहॊ धनंजयः गजानीकम अमित्राणाम अभितॊ वयधमच छरैः ॥ 11 ॥
महॊर्मिणम इवॊद्धूतं शवसनेन महार्णवम किरीटी तद गजानीकं पराविशन मकरॊ यथा ॥ 12 ॥
काष्ठातीत इवादित्यः परतपन युगसंक्षये ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥ 13 ॥
खुरशब्देन चाश्वानां नेमिघॊषेण तेन च तेन चॊत्क्रुष्ट शब्देन जया निनादेन तेन च देवदत्तस्य घॊषेण गाण्डीवनिनदेन च ॥ 14 ॥
मन्दवेगतरा नागा बभूवुस ते विचेतसः शरैर आशीविषस्पर्शैर निभिन्नाः सव्यसाचिना ॥ 15 ॥
ते गजा विशिखैस तीक्ष्णैर युधि गाण्डीवचॊदितैः अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥ 16 ॥
आरावं परमं कृत्वा वध्यमानाः किरीटिना निपेतुर अनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ 17 ॥
अपरे दन्तवेष्टेषु कम्भेषु च कटेषु च शरैः समर्पिता नागाः करौञ्चवद वयनदन मुहुः ॥ 18 ॥
गजस्कन्धगताना च पुरुषाणां किरीटिना आच्छिद्यन्तॊत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ 19 ॥
सकुण्डलानां पततां शिरसां धरणीतले पद्मानाम इव संघातैः पार्थश चक्रे निवेदनम ॥ 20 ॥
यन्त्रबद्धा विकवचा वरणार्ता रुधिरॊक्षिताः भरमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥ 21 ॥
के चिद एकेन बाणेन सुमुक्तेन पतत्रिणा दवौ तरयश च विनिर्भिन्ना निपेतुर धरणीतले ॥ 22 ॥
मौर्वीं धनुर धवजं चैव युगानीषास तथैव च रथिनां कुट्टयाम आस भल्लैः संनतपर्वभिः ॥ 23 ॥
न संदधन न चाप्य अस्यन न विमुञ्चन न चॊद्धरन मण्डलेनैव धनुषा नृत्यन पार्थः सम दृश्यते ॥ 24 ॥
अतिविद्धाश च नाराचैर वमन्तॊ रुधिरं मुखैः मुहूर्तान निपतन्त्य अन्ये वारणा वसुधातले ॥ 25 ॥
उथितान्य अगणेयानि कबन्धानि समन्ततः अदृश्यन्त महाराज तस्मिन परमसंकुले ॥ 26 ॥
स चापाः साङ्गुलित्राणाः स खड्गाः साङ्गदा रणे अदृश्यन्त भुजाश छिन्ना हेमाभरण भूषिताः ॥ 27 ॥
सूपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः चक्रैर विमथितैर अक्षै भग्नैश च बहुधा युगैः ॥ 28 ॥
वर्म चापशरैश चैव वयवकीर्णैर ततस ततः सरग्भिर आभरणैर वस्त्रैः पतितैश च महाध्वजैः ॥ 29 ॥
निहतैर वारणैर अश्वैः कषत्रियैश च निपातितैः अदृश्यत मही तत्र दारुणप्रतिदर्शनाः ॥ 30 ॥
एवं दुःशासन बलं वध्यमानं किरीटिना संप्राद्रवन महाराज वयथितं वै सनायकम ॥ 31 ॥
ततॊ दुःशासनस तरस्तः सहानीकः शरार्दितः दरॊणं तरातारम आकाङ्क्षञ शकटव्यूहम अभ्यगात ॥ 32 ॥
द्रोणपर्व · Drona Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66