धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 64

  1. [स] ततॊ वयूढेष्व अनीकेषु समुत्क्रुष्टेषु मारिष ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥ 1 ॥

  2. अनीकानां च संह्रादे वादित्राणां च निस्वने परध्मापितेषु शङ्खेषु संनादे लॊमहर्षणे ॥ 2 ॥

  3. अभिहारयत्सु शनकैर भरतेषु युयुत्सुषु रौद्रे मुहूर्ते संप्राप्ते सव्यसाची वयदृश्यत ॥ 3 ॥

  4. वडानां वायसानां च पुरस्तात सव्यसाचिनः बहुलानि सहस्राणि पराक्रीडंस तत्र भारत ॥ 4 ॥

  5. बृगाश च घॊरसंनादाः शिवाश चाशिव दर्शनाः दक्षिणेन परयातानाम अस्माकं पराणदंस तथा ॥ 5 ॥

  6. स निर्घाता जवलन्त्यश च पेतुर उल्काः समन्ततः चचाल च महीकृत्स्ना भये घॊरे समुत्थिते ॥ 6 ॥

  7. विष्वग वाताः स निर्घाता रूक्षाः शर्कर वर्षिणः वव्युर आयाति कौनेये संग्रामे समुपस्थिते ॥ 7 ॥

  8. नाकुलिस तु शतानीकॊ धृष्टद्युम्नश च पार्षतः पाण्डवानाम अनीकानि पराज्ञौ तौ वयूहतुस तदा ॥ 8 ॥

  9. ततॊ रथसहस्रेण दविरदानां शतेन च तरिभिर अश्वसहस्रैश च पदातीनां शतैः शरैः ॥ 9 ॥

  10. अध्यर्धमात्रे धनुषां सहस्रे तनयस तव अग्रतः सर्वसैन्यानां सथित्वा दुर्मर्षणॊ ऽबरवीत ॥ 10 ॥

  11. अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम अहम आवारयिष्यामि वेलेव मकरालयम ॥ 11 ॥

  12. अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम विषक्तं मयि दुर्धर्षम अश्मकूटम इवाश्मनि ॥ 12 ॥

  13. एवं बरुवन महाराज महात्मा स महामतिः महेष्वासैर वृतॊ राजन महेष्वासॊ वयवस्थितः ॥ 13 ॥

  14. ततॊ ऽनतक इव करुद्धः स वर्ज इव वासवः दण्डपाणिर इवासह्यॊ मृत्युः कालेन चॊदितः ॥ 14 ॥

  15. शूलपाणिर इवाक्षॊभ्यॊ वरुणः पाशवान इव युगान्ताग्निर इवार्चिष्मान परधक्ष्यन वै पुनः परजाः ॥ 15 ॥

  16. करॊधामर्षबलॊद्धूतॊ निवातकवचान्तकः जयॊ जेता सथितः सत्ये पारयिष्यन महाव्रतम ॥ 16 ॥

  17. आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत शुभ्र वर्माम्बर धरः सवङ्गदी चारुकुण्डली ॥ 17 ॥

  18. रथप्रवरम आस्थाय नरॊ नारायणानुगः विधुन्वन गाण्डिवं संख्ये बभौ सूर्य इवॊदितः ॥ 18 ॥

  19. सॊ ऽगरानीकस्य महत इषुपाते धनंजयः वयवस्थाप्य रथं सज्जं शङ्खं दध्मौ परतापवान ॥ 19 ॥

  20. अथ कृष्णॊ ऽपय असंभ्रान्तः पार्थेन सह मारिष पराध्मापयत पाञ्चजन्यं शङ्खप्रवरम ओजसा ॥ 20 ॥

  21. तयॊः शङ्खप्रणादेन तव सैन्ये विशां पते आसन संहृष्टरॊमाणः कम्पिता गतचेतसः ॥ 21 ॥

  22. यथा तरसन्ति भूतानि सर्वाण्य अशनिनिस्वनात तथा शङ्खप्रणादेन वित्रेसुस तव सैनिकाः ॥ 22 ॥

  23. परसुस्रुवुः शकृन मूत्रं वाहनानि च सर्वशः एवं स वाहनं सर्वम आविग्नम अभवद बलम ॥ 23 ॥

  24. वयषीदन्त नरा राजञ शङ्खशब्देन मारिष विसंज्ञाश चाभवन के चित के चिद राजन वितत्रसुः ॥ 24 ॥

  25. ततः कपिर्महा नादं सह भूतैर धवजालयैः अकरॊद वयादितास्यश च भीषयंस तव सैनिकान ॥ 25 ॥

  26. तथ शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह पुनर एवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ 26 ॥

  27. नाना वादित्रसंह्रादैः कष्वेडितास्फॊटिताकुलैः सिंहनादैः स वादित्रैः समाहूतैर महारथैः ॥ 27 ॥

  28. तस्मिन सुतुमुले शब्दे भीरूणां भयवर्धने अतीव हृष्टॊ दाशार्हम अब्रवीत पाकशासनिः ॥ 28 ॥

  29. चॊदयाश्वान हृषीकेश यत्र दुर्मर्षणः सथितः एतद भित्त्वा गजानीकं परवेक्ष्याम्य अरिवाहिनीम ॥ 29 ॥

  30. एवम उक्तॊ महाबाहुः केशवः सव्यसाचिना अचॊदयद धयांस तत्र यत्र दुर्मर्षणः सथितः ॥ 30 ॥

  31. स संप्रहारस तुमुलः संप्रवृत्तः सुदारुणः एकस्य च बहूनां च रथनागनरक्षयः ॥ 31 ॥

  32. ततः सायकवर्षेण पर्जन्य इव वृष्टिमान परान अवाकिरत पार्थः पर्वतान इव नीरदः ॥ 32 ॥

  33. ते चापि रथिनः सर्वे तवरिताः कृतहस्तवत अवाकिरन बाणजालैस ततः कृष्ण धनंजयौ ॥ 33 ॥

  34. ततः करुद्धॊ महाबाहुर वार्यमाणः परैर युधि शिरांसि रथिनां पार्थः कायेभ्यॊ ऽपाहरच छरैः ॥ 34 ॥

  35. उद्भ्रान्तनयनैर वक्त्रैः संदष्टौष्ठ पुटैः शुभैः सकुण्डलशिरस तराणैर वसुधासमकीर्यत ॥ 35 ॥

  36. पुण्डरीकवनानीव विध्वस्तानि समन्ततः विनिकीर्णानि यॊधानां वदनानि चकाशिरे ॥ 36 ॥

  37. तपनीयविचित्राणि सिक्तानि रुधिरेण च अदृश्यन्त यथा राजन मेघसंघाः स विद्युतः ॥ 37 ॥

  38. शिरसां पततां राजञ शब्दॊ ऽभूत पृथिवीतले कालेन परिपक्वानां तालानां पतताम इव ॥ 38 ॥

  39. ततः कबन्धः कश चित तु धनुर आलम्ब्य तिष्ठति कश चित खड्गं विनिष्कृष्य भुजेनॊद्यम्य तिष्ठति ॥ 39 ॥

  40. नानानन्त शिरांस्य उर्व्यां पतितानि नरर्षभाः अमृष्यमाणाः कौन्तेयं संग्रामे जय गृद्धिनः ॥ 40 ॥

  41. हयानाम उत्तमाङ्गैश च हस्तिहस्तैश च मेदिनी बाहुभिश च शिरॊभिश च वीराणां समकीर्यत ॥ 41 ॥

  42. अयं पार्थः कुतः पार्थ एष पार्थ इति परभॊ तव सैन्येषु यॊधानां पार्थ भूतम इवाभवत ॥ 42 ॥

  43. अन्यॊन्यम अपि चाजघ्नुर आत्मानम अपि चापरे पार्थ भूतम अमन्यन्त जगत कालेन मॊहिताः ॥ 43 ॥

  44. निष्टनन्तः स रुधिरा विसंज्ञा गाढवेदनाः शयाना बहवॊ वीराः कीर्तयन्तः सुहृज्जनम ॥ 44 ॥

  45. स भिण्डिपालाः स परासाः स शक्त्यृष्टि परश्वधाः स निर्यूहाः सनिस्त्रिंशाः स शरासनतॊमराः ॥ 45 ॥

  46. स बाणवर्माभरणाः सगदाः साङ्गदा रणे महाभुजग संकाशा बाहवः परिघॊपमाः ॥ 46 ॥

  47. उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥ 47 ॥

  48. यॊ यः सम समरे पार्थं परतिसंरभते नरः तस्य तस्याङ्कतॊ बाणः शरीरम उपसर्पति ॥ 48 ॥

  49. नृत्यतॊ रथमार्गेषु धनुर वयायच्छतस तथा न कश चित तत्र पार्थस्य ददर्शान्तरम अण्व अपि ॥ 49 ॥

  50. यत तस्य घटमानस्य कषिप्रं विक्षिपतः शरान लाघवात पाण्डुपुत्रस्य वयस्मयन्त परे जनाः ॥ 50 ॥

  51. हस्तिनं हस्तियन्तारम अश्वम आश्विकम एव च अभिनत फल्गुनॊ बाणै रथिनं च स सारथिम ॥ 51 ॥

  52. आवर्तमानम आवृत्तं युध्यमानं च पाण्डवः परमुखे तिष्ठमानं च न कं चिन न निहन्ति सः ॥ 52 ॥

  53. यथॊदयन वै गगने सूर्यॊ हन्ति महत तमः तथार्जुनॊ गजानीकम अवधीत कङ्कपत्रिभिः ॥ 53 ॥

  54. हस्तिभिः पतितैर भिन्नैस तव सैन्यम अदृश्यत अन्तकाले यथा भूमिर विनिकीर्णैर महीधरैः ॥ 54 ॥

  55. यथा मध्यं दिने सूर्यॊ दुष्प्रेक्ष्यः पराणिभिः सदा तथा धनंजयः करुद्धॊ दुष्प्रेक्ष्यॊ युधि शत्रुभिः ॥ 55 ॥

  56. तत तथा तव पुत्रस्य सैन्यं युधि परंतप परभग्नं दरुतम आविग्नम अतीव शरपीडितम ॥ 56 ॥

  57. मारुतेनेव महता मेघानीकं विधूयता परकाल्यमानं तत सैन्यं नाशकत परतिवीक्षितुम ॥ 57 ॥

  58. परतॊदैश चापकॊटीभिर हुंकारैः साधुव आहितैः कशा पार्ष्ण्यभिघातैश च वाग्भिर उग्राभिर एव च ॥ 58 ॥

  59. चॊदयन्तॊ हयांस तूर्णं पलायन्ते सम तावकाः सादिनॊ रथिनश चैव पत्तयश चार्जुनार्दिताः ॥ 59 ॥

  60. पार्ष्ण्यङ्गुण्ठाङ्कुशैर नागांश चॊदयन्तस तथापरे शरैः संमॊहिताश चान्ये तम एवाभिमुखा ययौ तव यॊधा हतॊत्साहा विभ्रान्त मनसस तदा ॥ 60 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63