धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 63

  1. [स] तस्यां निशायां वयुष्टायां दरॊणः शस्त्रभृतां वरः सवान्य अनीकानि सर्वाणि पराक्रामद वयूहितुं तथ ॥ 1 ॥

  2. शूराणां गर्जतां राजन संक्रुद्धानाम अमर्षिणाम शरूयन्ते सम गिरिश चित्राः परस्परवधैषिणाम ॥ 2 ॥

  3. विस्फार्य च धनूंष्य आजौ जयाः करैः परिमृज्य च विनिःश्वसन्तः पराक्रॊशन कवेदानीं सधनंजयः ॥ 3 ॥

  4. विकॊशान सुत्सरून अन्ये कृतधारान समाहितान पीतान आकाशसंकाशान असीन के चिच च चिक्षिपुः ॥ 4 ॥

  5. चरन्तस तव असि मार्गांश च धनुर मार्गांश च शिक्षया संग्राममनसः शूरा दृश्यन्ते सम सहस्रशः ॥ 5 ॥

  6. स घण्टाश चन्दनादिग्धाः सवर्णवर्ज विभूषिताः समुत्क्षिप्य गदाश चान्ये पर्यपृच्छन्त पाण्डवम ॥ 6 ॥

  7. अन्ये बलमदॊन्मत्ताः परिघैर बाहुशालिनः चक्रुः सबाधम आकाशम उच्छ्रितेन्द्र धवजॊपमैः ॥ 7 ॥

  8. नानाप्रहरणैश चान्ये विचित्रस्रग अलंकृताः संग्राममनसः शूरास तत्र तत्र वयवस्थिताः ॥ 8 ॥

  9. कवार्जुनः कव च गॊविन्दः कव च मानी वृकॊदरय कव च ते सुहृदस तेषाम आह्वयन्तॊ रणे तदा ॥ 9 ॥

  10. ततः शङ्खम उपाध्माय तवरयन वाजिनः सवयम इतस ततस तान रचयन दरॊणश च रतिवेगितः ॥ 10 ॥

  11. तेष्व अनीकेषु सर्वेषु सथितेष्व आहवनन्दिषु भारद्वाजॊ महाराज जयद्रथम अथाब्रवीत ॥ 11 ॥

  12. तवं चैव सौमदत्तिश च कर्णश चैव महारथः अश्वत्थामा च शल्यश च वृषसेनः कृपस तथा ॥ 12 ॥

  13. शतं चाश्वसहस्राणां रथानाम अयुतानि षट दविरदानां परभिन्नानां सहस्राणि चतुर्दश ॥ 13 ॥

  14. पदातीनां सहस्राणि दंशितान्य एकविंशतिः गव्यूतिषु तरिमात्रेषु माम अनासाद्य तिष्ठत ॥ 14 ॥

  15. तत्रस्थं तवां न संसॊढुं शक्ता देवाः स वासवाः किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ 15 ॥

  16. एवम उक्तः समाश्वस्तः सिन्धुराजॊ जयद्रथः संप्रायात सह गान्धारैर वृतस तैश च महारथैः वर्मिभिः सादिभिर यत्तैः परासपाणिभिर आस्थितैः ॥ 16 ॥

  17. चामरापीडिनः सर्वे जाम्बूनदविभूषिताः जयद्रथस्य राजेन्द्र हयाः साधु परवाहिनः ते चैव सप्त साहस्रा दविसाहस्राश च सैन्धवाः ॥ 17 ॥

  18. मत्तानाम अधिरूढानां हस्त्यारॊहैर विशारदैः नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम ॥ 18 ॥

  19. अध्यर्धेन सहस्रेण पुत्रॊ दुर्मर्षणस तव अग्रतः सर्वसैन्यानां यॊत्स्यमानॊ वयवस्थितः ॥ 19 ॥

  20. ततॊ दुःशासनश चैव विकर्णश च तवात्मजौ सिन्धुराजार्थ सिद्ध्यर्थम अग्रानीके वयवस्थितौ ॥ 20 ॥

  21. दीर्घॊ दवादश गव्यूतिः पञ्चार्धे पञ्च विस्तृतः वयूहः सचक्रशकटॊ भारद्वाजेन निर्मितः ॥ 21 ॥

  22. नाना नृपतिभिर वीरैस तत्र तत्र वयवस्थितैः रथाश्वगजपत्त्यॊघैर दरॊणेन विहितः सवयम ॥ 22 ॥

  23. पश्चार्दे तस्य पद्मस तु गर्भव्यूहः सुदुर्भिदः सूची पद्मस्य मध्यस्थॊ गूढॊ वयूहः पुनः कृतः ॥ 23 ॥

  24. एवम एतं महाव्यूहं वयूह्य दरॊणॊ वयवस्थितः सूचीमुखे महेष्वासः कृतवर्मा वयवस्थितः ॥ 24 ॥

  25. अनन्तरं च काम्बॊजॊ जलसंधश च मारिष दुर्यॊधनः सहामात्यस तदनन्तरम एव च ॥ 25 ॥

  26. ततः शतसहस्राणि यॊधानाम अनिवर्तिनाम वयवस्थितानि सर्वाणि शकटे सूचि रक्षिणः ॥ 26 ॥

  27. तेषां च पृष्ठतॊ राजबलेन महता वृतः जयद्रथस ततॊ राजन सूचि पाशे वयवस्थितः ॥ 27 ॥

  28. शकटस्य तु राजेन्द्र अभारद्वाजॊ मुखे सथितः अनु तस्याभवद भॊजॊ जुगॊपैनं ततः सवयम ॥ 28 ॥

  29. शवेतवर्माम्बरॊष्णीषॊ वयूढॊरस्कॊ महाभुजः धनुर विस्फारयन दरॊणस तस्थौ करुद्ध इवान्तकः ॥ 29 ॥

  30. पताकिनं शॊण हयं वेदी कृष्णाजिनध्वजम दरॊणस्य रथम आलॊक्य परहृष्टाः कुरवॊ ऽभवन ॥ 30 ॥

  31. सिद्धचारणसंघानां विस्मयः सुमहान अभूत दरॊणेन विहितं दृष्ट्वा वयूहं कषुब्धार्णवॊपम ॥ 31 ॥

  32. स शैलसागर वनां नानाजनपदाकुलाम गरसेद वयूहः कषितिं सर्वाम इति भूतानि मेनिरे ॥ 32 ॥

  33. बहु रथमनुजाश्वपत्तिनागं; परतिभय निस्वनम अद्भुताभ रूपम अहितहृदयभेदनं महद वै; शकटम अवेक्ष्य कृतं ननन्द राजा ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 64

Previous: अध्याय 62