धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 62

  1. [स] हन्त ते संप्रवक्ष्यामि सर्वं परत्यक्षदर्शिवान शुश्रूषस्व सथिरॊ भूत्वा तव हय अपनयॊ महान ॥ 1 ॥

  2. गतॊदके सेतुबन्धॊ यादृक तादृग अयं तव विलापॊ निष्फलॊ राजन मा शुचॊ भरतर्षभ ॥ 2 ॥

  3. अनतिक्रमणीयॊ ऽयं कृतान्तस्याद्भुतॊ विधिः मा शुचॊ भरतश्रेष्ठ दिष्टम एतत पुरातनम ॥ 3 ॥

  4. यदि हि तवं पुरा दयूतात कुन्ति पुत्रं युधिष्ठिरम निवर्तयेथाः पुत्रांश च न तवां वयसनम आव्रजेत ॥ 4 ॥

  5. युद्धकाले पुनः पराप्ते तदैव भवता यदि निवर्तिताः सयुः संरब्धा न तवां वयसनम आव्रजेत ॥ 5 ॥

  6. दुर्यॊधनं चाविधेय्यं बध्नीतेति पुरा यदि कुरून अचॊदयिष्यस तवं न तवां वयसनम आव्रजेत ॥ 6 ॥

  7. तत ते बुद्धिव्यभीचारम उपलप्स्यन्ति पाण्डवाः पाञ्चाला वृष्णयः सर्वे ये चान्ये ऽपि महाजनाः ॥ 7 ॥

  8. स कृत्वा पितृकर्म तवं पुत्रं संस्थाप्य सत्पथे वर्तेथा यदि धर्मेण न तवां वयसनम आव्रजेत ॥ 8 ॥

  9. तवं तु पराज्ञतमॊ लॊके हित्वा धर्मं सनातनम दुर्यॊधनस्य कर्णस्य शकुनेश चान्वगा मतम ॥ 9 ॥

  10. तत ते विलपितं सर्वं मया राजन निशामितम अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ 10 ॥

  11. न तथा मन्यते कृष्णॊ राजानं पाण्डवं पुरा न भीष्मं नैव च दरॊणं यथा तवाम मन्यते नृप ॥ 11 ॥

  12. वयाजानत यदा तु तवां राजधर्माद अधश चयुतम तदा परभृति कृष्णस तवां न तथा बहु मन्यते ॥ 12 ॥

  13. परुषाण्य उच्यमानांश च यथा पार्थान उपेक्षसे तस्यानुबन्धः पराप्तस तवां पुत्राणां राज्यकामुकम ॥ 13 ॥

  14. पितृपैतामहं राज्यम अपवृत्तं तदानघ अथ पार्थैर जितां कृत्स्नां पृथिवीं परत्यपद्यथाः ॥ 14 ॥

  15. पाण्डुनावर्जितं राज्यं कौरवाणां यशस तथा ततश चाभ्यधिकं भूयः पाण्डवैर धर्मचारिभिः ॥ 15 ॥

  16. तेषां तत तादृशं कर्म तवाम आसाद्य सुनिष्फलम यत पित्र्याद भरंशिता राज्यात तवयेहामिष गृद्धिना ॥ 16 ॥

  17. यत पुनर युद्धकाले तवं पुत्रान गर्हयसे नृप बहुधा वयाहरन दॊषान न तद अद्यॊपपद्यते ॥ 17 ॥

  18. न हि रक्षन्ति राजानॊ युध्यन्तॊ जीवितं रणे चमूं विगाह्य पार्थानां युध्यन्ते कषत्रियर्षभाः ॥ 18 ॥

  19. यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकॊदरौ रक्षेरन कॊ नु तां युध्येच चमूम अन्यत्र कौरवैः ॥ 19 ॥

  20. येषां यॊधा गुडाकेशॊ येषां मन्त्री जनार्दनः येषां च सात्यकिर गॊप्ता येषां गॊप्ता वृकॊदरः ॥ 20 ॥

  21. कॊ हि तान विषहेद यॊद्धुं मर्त्यधर्मा धनुर्धरः अन्यत्र कौरवेयेभ्यॊ ये वा तेषां पदानुगाः ॥ 21 ॥

  22. यावत तु शक्यते कर्तुम अनुरक्तैर जनाधिपैः कषत्रधर्मरतैः शूरैस तावत कुर्वन्ति कौरवाः ॥ 22 ॥

  23. यथा तु पुरुषव्याघ्रैर युद्धं परमसङ्कटम कुरूणां पाण्डवैः सार्धं तत सर्वं शृणु तत्त्वतः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 63

Previous: अध्याय 61