[धृ] शवॊभूते किम अकार्षुस ते दुःखशॊकसमन्विताः अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥ 1 ॥
जानन्तस तस्य कर्माणि कुरवः सव्यसाचिनः कथं तत किल्बिषं कृत्वा निर्भया बरूहि मामकाः ॥ 2 ॥
पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम आयान्तं पुरुषव्याघ्रं कथं ददृशुर आहवे ॥ 3 ॥
कपिराजध्वजं संख्ये विधुन्वानं महद धनुः दृष्ट्वा पुत्र परिद्यूनं किम अकुर्वन्त मामकाः ॥ 4 ॥
किं नु संजय संग्रामे वृत्तं दुर्यॊधनं परति परिदेवॊ महान अत्र शरुतॊ मे नाभिनन्दनम ॥ 5 ॥
बभूवुर ये मनॊग्राह्याः शब्दाः शरुतिसुखावहाः न शरूयन्ते ऽदय ते सर्वे सैन्धवस्य निवेशने ॥ 6 ॥
सतुवतां नाद्य शरूयन्ते पुत्राणां शिबिरे मम सूतमागध संघानां नर्तकानां च सर्वशः ॥ 7 ॥
शब्देन नादिताभीक्ष्णम अभवद यत्र मे शरुतिः दीनानाम अद्य तं शब्दं न शृणॊमि समीरितम ॥ 8 ॥
निवेशने सत्यधृतेः सॊमदत्तस्य संजय आसीनॊ ऽहं पुरा तात शब्दम अश्रौषम उत्तमम ॥ 9 ॥
तद अद्य हीनपुण्यॊ ऽहम आर्तस्वरनिनादितम निवेशनं हतॊत्साहं पुत्राणां मम लक्षये ॥ 10 ॥
विविंशतेर दुर्मुखस्य चित्रसेनविकर्णयॊः अन्येषां च सुतानां मे न तथा शरूयते धवनिः ॥ 11 ॥
बराह्मणाः कषत्रिया वैश्या यं शिष्याः पर्युपासते दरॊणपुत्रं महेष्वासं पुत्राणां मे परायणम ॥ 12 ॥
वितण्डालाप संलापैर हुतयाचित वन्दितैः गीतैश्च विविधैर इष्टै रमये यॊ दिवानिशम ॥ 13 ॥
उपास्यमानॊ बहुभिः कुरुपाण्डवसात्वतैः सूत तस्य गृहे शब्धॊ नाद्य दरौणेर यथा पुरा ॥ 14 ॥
दरॊणपुत्रं महेष्वासं गायना नर्तकाश च ये अत्यर्थम उपतिष्ठन्ति तेषां न शरूयते धवनिः ॥ 15 ॥
विन्दानुविन्दयॊः सायं शिबिरे यॊ महाध्वनिः शरूयते सॊ ऽदय न तथा केकयानां च वेश्मसु ॥ 16 ॥
नित्यप्रमुदितानां च तालगीत सवनॊ महान नृत्यतां शरूयते तात गणानां सॊ ऽदय न धवनिः ॥ 17 ॥
सप्त तन्तून वितन्वाना यम उपासन्ति याजकाः सौमदत्तिं शरुतनिधिं तेषां न शरूयते धवनिः ॥ 18 ॥
जयाघॊषॊ बरह्मघॊषश च तॊरमासि रथध्वनिः दरॊणस्यासीद अविरतॊ गृहे तन न शृणॊम्य अहम ॥ 19 ॥
नानादेशसमुत्थानां गीतानां यॊ ऽभवत सवनः वादित्रनादितानां च सॊ ऽदय न शरूयते महान ॥ 20 ॥
यदा परभृत्य उपप्लव्याच छान्तिम इच्छञ जनार्दनः आगतः सर्वभूतानाम अनुकम्पार्थम अच्युतः ॥ 21 ॥
ततॊ ऽहम अब्रुवं सूत मन्दं दुर्यॊधनं तदा वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ 22 ॥
कालप्राप्र्तम अहं मन्ये मा तवं दुर्यॊधनातिगाः शमे चेद याचमानं तवं परत्याख्यास्यसि केशवम हितार्थम अभिजल्पन्तं न तथास्त्य अपराजयः ॥ 23 ॥
परत्याचष्ट स दाशार्हम ऋषभं सर्वधन्विनाम अनुनेयानि जल्पन्तम अनयान नान्वपद्यत ॥ 24 ॥
ततॊ दुःशासनस्यैव कर्णस्य च मतं दवयॊः अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥ 25 ॥
न हय अहं दयूतम इच्छामि विदुरॊ न परशंसति सैन्धवॊ नेच्छते दयूतं भीष्मॊ न दयूतम इच्छति ॥ 26 ॥
शल्यॊ भूरिश्रवाश चैव पुरुमित्रॊ जयस तथा अश्वत्थामा कृपॊ दरॊणॊ दयूतं नेच्छन्ति संजय ॥ 27 ॥
एतेषां मतम आज्ञाय यदि वर्तेत पुत्रकः स जञातिमित्रः स सुहृच चिरं जीवेद अनामयः ॥ 28 ॥
शलक्ष्णा मधुरसंभाषा जञातिमध्ये परियंवदाः कुलीनाः समताः पराज्ञाः सुखं पराप्स्यन्ति पाण्डवाः ॥ 29 ॥
धर्मापेक्षॊ नरॊ नित्यं सर्वत्र लभते सुखम परेत्य भावे च कल्याणं परसादं परतिपद्यते ॥ 30 ॥
अर्हन्त्य अर्धं पृथिव्यास ते भॊक्तुं सामर्थ्य साधनाः तेषाम अपि समुद्रान्ता पितृपैतामही मही ॥ 31 ॥
नियुज्यमानाः सथास्यन्ति पाण्डवा धर्मवर्त्मनि सन्ति नॊ जञातयस तात येषां शरॊष्यन्ति पाण्डवाः ॥ 32 ॥
शल्यस्य सॊमदत्तस्य भीष्मस्य च महात्मनः दरॊणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥ 33 ॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम तवदर्थं बरुवतां तातः करिष्यन्ति वचॊ हितम ॥ 34 ॥
कं वा तवं मन्यसे तेषां यस तवा बरूयाद अतॊ ऽनयथा कृष्णॊ न धर्मं संजह्यात सर्वे ते च तवद अन्वयाः ॥ 35 ॥
मयापि चॊक्तास ते वीरा वचनं धर्मसंहितम नान्यथा परकरिष्यन्ति धर्मात्मानॊ हि पाण्डवाः ॥ 36 ॥
इत्य अहं विलपन सूत बहुशः पुत्रम उक्तवान न च मे शरुतवान मूढॊ मन्ये कालस्य पर्ययम ॥ 37 ॥
वृकॊदरार्जुनौ यत्र वृष्णिवीरश च सात्यकिः उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः ॥ 38 ॥
धृष्टद्युम्नश च दुर्धर्षः शिखण्डी चापराजितः अश्मकाः केकयाश चैव कषत्रधर्मा च सौमकिः ॥ 39 ॥
चैद्यश च चेकितानश च पुत्रः पाश्यस्य चाभिभुः दरौपदेया विराटश च दरुपदश च महारथः यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥ 40 ॥
क एताञ जातु युध्येत लॊके ऽसमिन वै जिजीविषुः दिव्यम अस्त्रं विकुर्वाणान संहरेयुर अरिंदमाः ॥ 41 ॥
अन्यॊ दुर्यॊधनात कर्णाच छकुनेश चापि सौबलात दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम ॥ 42 ॥
येषाम अभीशु हस्तः सयाद विष्वक्सेनॊ रथे सथितः संनद्धश चार्जुनॊ यॊधा तेषां नास्ति पराजयः ॥ 43 ॥
तेषां मम विलापानां न हि दुर्यॊधनः समरेत हतौ हि पुरुषव्याघ्रौ भीष्मद्रॊणौ तवम आत्थ मे ॥ 44 ॥
तेषां विदुर वाक्यानाम उक्तानां दीर्घदर्शिनाम दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शॊचन्ति पुत्रकाः ॥ 45 ॥
हिमात्यये यथा कक्षं शुष्कं वातेरितॊ महान अग्निर दहेत तथा सेनां मामिकां सधनंजयः ॥ 46 ॥
आचक्ष्व तद धि नः सर्वं कुशलॊ हय असि संजय यद उपायात तु सायाह्ने कृत्वा पार्थस्य किल्बिषम अभिमन्यौ हते तात कथम आसीन मनॊ हि वः ॥ 47 ॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः अपकृत्वा महत तात सॊढुं शक्ष्यन्ति मामकाः ॥ 48 ॥
किं नु दुर्यॊधनः कृत्यं कर्णः कृत्यं किम अब्रवीत दुःशासनः सौबलश च तेषाम एवंगते अपि सर्वेषां समवेतानां पुत्राणां मम संजय ॥ 49 ॥
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर भृशम लॊभानुगत दुर्बुद्धेः करॊधेन विकृतात्मनः ॥ 50 ॥
राज्यकामस्य मूढस्य रागॊपहत चेतसः दुर्नीतं वा सुनीतं वा तन ममाचक्ष्व संजय ॥ 51 ॥
द्रोणपर्व · Drona Parva
अध्याय 61
Reach this point to mark the section finished.
Continue to अध्याय 62