[स] तथा संभाषतां तेषां परादुरासीद धनंजयः दुदृक्षुर भरतश्रेष्ठं राजानं ससुहृद गणम ॥ 1 ॥
तं परविष्टं शुभां कक्ष्याम अभिवाद्याग्रतः सथितम समुत्थायार्जुनं परेम्णा सस्वजे पाण्डवर्षभः ॥ 2 ॥
मूर्ध्नि चैनम उपाघ्राय परिष्वज्य च बाहुना आशिषः परमाः परॊच्य समयमानॊ ऽभयभाषत ॥ 3 ॥
वयक्तम अर्जुन संग्रामे धरुवस ते विजयॊ महान यादृग रूपा हि ते छाया परसन्नश च जनार्दनः ॥ 4 ॥
तम अब्रवीत ततॊ जिष्णुर महद आश्चर्यम उत्तमम दृष्टवान अस्मि भद्रं ते केशवस्य परसादजम ॥ 5 ॥
ततस तत कथयाम आस यथादृष्टं धनंजयः आश्वासनार्थं सुहृदां तर्यम्बकेनसमागमम ॥ 6 ॥
ततः शिरॊभिर अवनिं सपृष्ट्वा सर्वे च विस्मिताः नमस्कृत्य वृषाङ्काय साधु साध्व इत्य अथाब्रुवन ॥ 7 ॥
अनुज्ञातास ततः सर्वे सुहृदॊ धर्मसूनुना तवरमाणाः सुसंनद्धा हृष्टा युद्धान निर्ययुः ॥ 8 ॥
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः हृष्टा विनिर्ययुस ते वै युधिष्ठिर निवेशनात ॥ 9 ॥
रथेनैकेन दुर्धर्षौ युयुधान जनार्दनौ जग्मतुः सहितौ वीराव अर्जुनस्य निवेशनम ॥ 10 ॥
तत्र गत्वा हृषीकेशः कल्पयाम आस सूतवत रथं रथवरस्याजौ वानरर्षभ लक्षणम ॥ 11 ॥
स मेघसमनिर्घॊषस तप्तकाञ्चनसप्रभः बभौ रथवरः कॢप्तः शिशुर दिवसकृद यथा ॥ 12 ॥
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः कृताह्निकाय पार्थाय नयवेदयत तं रथम ॥ 13 ॥
तं तु लॊके वरः पुंसां किरीटी हेमवर्मभृत बाणवाणासनी वाहं परदक्षिणम अवर्तत ॥ 14 ॥
ततॊ विद्या वयॊवृद्धैः करियावद्भिर जितेन्द्रियैः सतूयमानॊ जयाशीभिर आरुरॊह महारथम ॥ 15 ॥
जैत्रैः सांग्रामिकैर मन्त्रैः पूर्वम एव रथॊत्तमम अभिमन्त्रितम अर्चिष्मान उदयं भास्करॊ यथा ॥ 16 ॥
स रथे रथिनां शरेष्ठः काञ्चने काञ्चनावृतः विबभौ विमलॊ ऽरचिष्मान मेराव इव दिवाकरः ॥ 17 ॥
अन्वारुरॊहतुः पार्थं युयुधान जनार्दनौ शर्यातेर यज्ञम आयान्तं यथेन्द्रं देवम अश्विनौ ॥ 18 ॥
अथ जग्राह गॊविन्दॊ रश्मीन रश्मिवतां वरः मातलिर वासवस्येव वृत्रं हन्तुं परयास्यतः ॥ 19 ॥
स ताभ्यां सहितः पार्थॊ रथप्रवरम आस्थितः सहितौ बुभ शुक्राभ्यां तमॊ निघ्नन यथा शशी ॥ 20 ॥
सैन्धवस्य वधप्रेप्सुः परयातः शत्रुपूगहा सहाम्बुपतिमित्राभ्यां यथेन्द्रस तारकामये ॥ 21 ॥
ततॊ वादित्रनिर्घॊषैर मङ्गल्यैश च सतवैः शुभैः परयान्तम अर्जुनं सूता मागधाश चैव तुष्टुवुः ॥ 22 ॥
स जयाशीः स पुण्याहः सूतमागध निस्वनः युक्तॊ वादित्रघॊषेण तेषां रतिकरॊ ऽभवत ॥ 23 ॥
तम अनुप्रयतॊ वायुः पुण्यगन्धवहः शुचिः ववौ संहर्षयन पार्थं दविषतश चापि शॊषयन ॥ 24 ॥
परादुरासन निमित्तानि विजयाय बहूनि च पाण्डवानां तवदीयानां विपरीतानि मारिष ॥ 25 ॥
दृष्ट्वार्जुनॊ निमित्तानि विजयाय परदक्षिणम युयुधानं महेष्वासम इदं वचनम अब्रवीत ॥ 26 ॥
युयुधानाद्य युद्धे मे दृश्यते विजयॊ धरुवः यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव ॥ 27 ॥
सॊ ऽहं तत्र गमिष्यामि यत्र सैन्धवकॊ नृपः यियासुर यम लॊकाय मम वीर्यं परतीक्षते ॥ 28 ॥
यथा परमकं कृत्यं सैन्धवस्य वधे मम तथैव सुमहत कृत्यं धर्मराजस्य रक्षणे ॥ 29 ॥
स तवम अद्य महाबाहॊ राजानं परिपालय यथैव हि मया गुप्तस तवया गुप्तॊ भवेत तथा ॥ 30 ॥
तवयि चाहं पराश्वस्य परद्युम्ने वा महारथे शक्नुयां सैन्धवं हन्तुम अनपेक्षॊ नरर्षभ ॥ 31 ॥
मय्य अपेक्षा न कर्तव्या कथं चिद अपि सात्वत राजन्य एव परा गुप्तिः कार्या सर्वात्मना तवया ॥ 32 ॥
न हि यत्र महाबाहुर वासुदेवॊ वयवस्थितः किं चिद वयापद्यते तत्र यत्राहम अपि च धरुवम ॥ 33 ॥
एवम उक्तस तु पार्थेन सात्यकिः परवीरहा तथेत्य उक्त्वागमत तत्र यत्र राजा युधिष्ठिरः ॥ 34 ॥
द्रोणपर्व · Drona Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61