धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 59

  1. [य] मुखेन रजनी वयुष्टा कच चित ते मधुसूदन कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत ॥ 1 ॥

  2. [स] वासुदेवॊ ऽपि तद युक्तं पर्यपृच्छद युधिष्ठिरम ततः कषत्ता परकृतयॊ नयवेदयद उपस्थिताः ॥ 2 ॥

  3. अनुज्ञातश च राज्ञा स परावेशयत तं जनम विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम ॥ 3 ॥

  4. शिखण्डिनं यमौ चैव चेकितानं च केकयान युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चॊत्तमौजसम ॥ 4 ॥

  5. एते चान्ये च बहवः कषत्रियाः षत्रियर्षभम उपतस्थुर महात्मानं विविशुश चासनेषु ते ॥ 5 ॥

  6. एकस्मिन्न आसने वीराव उपविष्टौ महाबलौ कृष्णश च युयुधानश च महात्मानौ महाद्युती ॥ 6 ॥

  7. ततॊ युधिष्ठिरस तेषां शृण्वतां मधुसूदनम अब्रवीत पुण्डरीकाक्षम आभाष्य मधुरं वचः ॥ 7 ॥

  8. एकं तवां वयम आश्रित्य सहस्राक्षम इवामराः परार्थयामॊ जयं युद्धे शाश्वतानि सुखानि च ॥ 8 ॥

  9. तवं हि राज्यविनाशं च दविषद्भिश च निराक्रियाम कलेशांश च विविधान कृष्ण सर्वांस तान अपि वेत्थ नः ॥ 9 ॥

  10. तवयि सर्वेश सर्वेषाम अस्माकं भक्त वत्सल सुखम आयत्तम अत्यर्थं यात्रा च मधुसूदन ॥ 10 ॥

  11. स तथा कुरु वार्ष्णेय यथा तवयि मनॊ मम अर्जुनस्य यथासत्या परतिज्ञा सयाच चिकीर्षिता ॥ 11 ॥

  12. स भवांस तारयत्व अस्माद दुःखामर्ष महार्णवात पारं तितीर्षताम अद्य फल्वॊ नॊ भव माधव ॥ 12 ॥

  13. न हि तत कुरुते संख्ये कार्तवीर्य समस तव अपि रथी यत कुरुते कृष्णसारथिर यत्नम आस्थितः ॥ 13 ॥

  14. [वासु] सामरेष्व अपि लॊकेषु सर्वेषु च तथाविधः शरासनधरः कश चिद यथा पार्थॊ धनंजयः ॥ 14 ॥

  15. वीर्यवान अस्त्रसंपन्नः पराक्रानॊन महाबलः युद्धशौण्डः सदामर्षी तेजसा परमॊ नृणाम ॥ 15 ॥

  16. स युवा वृषभस्कन्धॊ दीर्घबाहुर महाबलः सिंहर्षभ गतिः शरीमान दविषतस ते हनिष्यति ॥ 16 ॥

  17. अहं च तत करिष्यामि यथा कुन्तीसुतॊ ऽरजुनः धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्य अग्निर इवॊत्थितः ॥ 17 ॥

  18. अद्य तं पापकर्माणं कषुद्रं सौभद्र घातिनम अपुनर्दर्शनं मार्गम इषुभिः कषेप्स्यते ऽरजुनः ॥ 18 ॥

  19. तस्याद्य गृध्राः शयेनाश च वड गॊमायवस तथा भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥ 19 ॥

  20. यद्य अस्य देवा गॊप्तारः सेन्द्राः सर्वे तथाप्य असौ राजधानीं यमस्याद्य हतः पराप्स्यति संकुले ॥ 20 ॥

  21. निहत्य सैन्धवं जिष्णुर अद्य तवाम उपयास्यति विशॊकॊ विज्वरॊ राजन भव भूतिपुरस्कृतः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 60

Previous: अध्याय 58