[स] तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत ॥ 1 ॥
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः वैलातिकाश च सूताश च तुष्टुवुः पुरुषर्षभम ॥ 2 ॥
नर्तकाश चाप्य अनृत्यन्त जगुर गीतानि गायकाः कुरुवंशस्वतार्थानि मधुरं रक्तकण्ठिनः ॥ 3 ॥
मृदङ्गा झर्झरा भेर्यः पणवानकगॊमुखाः आडम्बराश च शङ्खाश च दुन्दुभ्यश च महास्वनाः ॥ 4 ॥
एवम एतानि सर्वाणि तथान्यान्य अपि भारत वादयन्ति सम संहृष्टाः कुशलाः साधु शिक्षिताः ॥ 5 ॥
स मेघसमनिर्घॊषॊ महाञ शब्दॊ ऽसपृशद दिवम पार्थिव परवरं सुप्तं युधिष्ठिरम अबॊधयत ॥ 6 ॥
परतिबुद्धः सुखं सुप्तॊ महार्हे शयनॊत्तमे उत्थायावश्यकायार्थं ययौ सनानगृहं ततः ॥ 7 ॥
ततः शुक्लाम्बराः सनातास तरुणाष्टॊत्तरं शतम सनापकाः काञ्चनैर कुम्भैः पूर्णैः समुपतस्थिरे ॥ 8 ॥
भद्रासने सूपविष्टः परिधायाम्बरं लघु सस्नौ चन्दनसंयुक्तैः पानीयैर अभिमन्त्रितैः ॥ 9 ॥
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः आप्लुतः साधिवासेन बलेन च सुगन्धिना ॥ 10 ॥
हरिणा चन्दनेनाङ्गम अनुलिप्य महाभुजः सरग्वी चाक्लिष्टवसनः पराङ्मुखः पराञ्जलिः सथितः ॥ 11 ॥
जजाप जप्यं कौन्तेयः सतां मार्गम अनुष्ठितः ततॊ ऽगनिशरणं दीप्तं परविवेश विनीतवत ॥ 12 ॥
समिद्धं स पवित्राभिर अग्निम आहुतिभिस तथा मन्त्रपूताभिर अर्चित्वा निश्चक्राम गृहात ततः ॥ 13 ॥
दवितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः तत्र वेदविदॊ विप्रान अपश्यद बराह्मणर्षभान ॥ 14 ॥
दान्तान वेद वरतस्नातान सनातान अवभृथेषु च सहस्रानुचरान सौरान अष्टौ दशशतानि च ॥ 15 ॥
अक्षतैः सुमनॊभिश च वाचयित्वा महाभुजः तान दविजान मधु सर्पिर्भ्यां फलैः शरेष्ठैः सुमङ्गलैः ॥ 16 ॥
परादात काञ्चनम एकैकं निष्कं विप्राय पाण्डवः अलंकृतं चाश्वशतं वासांसीष्टाश च दक्षिणाः ॥ 17 ॥
तथा गाः कपिला दॊग्ध्रीः सर्षभाः पाण्डुनन्दनः हेमशृङ्गी रूप्यखरा दत्त्वा चक्रे परदक्षिणम ॥ 18 ॥
सवस्तिकान वर्धमानांश च नन्द्यावर्तांश च काञ्चना माल्यं च जलकुम्भांश च जवलितं च हुताशनम ॥ 19 ॥
पूर्णान्य अक्षत पात्राणि रुचकान रॊचनांस तथा सवलंकृताः शुभाः कन्या दधि सर्पिर्मधूदकम ॥ 20 ॥
पङ्गल्यान पक्षिणश चैव यच चान्यद अपि पूजितम दृष्ट्वा सपृष्ट्वा च कौन्तेयॊ बाह्यं कक्ष्याम अगात ततः ॥ 21 ॥
ततस तस्य महाबाहॊस तिष्ठतः परिचारकाः सौवर्णं सर्वतॊभद्रं मुक्ता वैडूर्य मण्डितम ॥ 22 ॥
परार्ध्यास्तरणास्तीर्णं सॊत्तरच छदम ऋद्धिमत विश्वकर्म कृतं दिव्यम उपजह्रुर वरासनम ॥ 23 ॥
तत्र तस्यॊपविष्टस्य भूषणानि महात्मनः उपजह्रुर महार्हाणि परेष्याः शुभ्राणि सर्वशः ॥ 24 ॥
युक्ताभरण वेषस्य कौन्तेयस्य महात्मनः रूपम आसीन महाराज दविषतां शॊकवर्धनम ॥ 25 ॥
पाण्डरैश चन्द्ररश्म्याभैर हेमदण्डैश च चामरैः दॊधूयमानः शुशुभे विद्युद्भिर इव तॊयदः ॥ 26 ॥
संस्तूयमानः सूतैश च वन्द्यमानश च बन्दिभिः उपगीयमानॊ गन्धर्वैर आस्ते सम कुरुनन्दनः ॥ 27 ॥
ततॊ मुहूर्ताद आसीत तु बन्धिनां निस्वनॊ महान नेमिघॊषश च रथिनां खुरघॊषश च वाजिनाम ॥ 28 ॥
हरादेन गजघण्टानां शङ्खानां निनदेन च नराणां पदशब्दैश च कम्पतीव सम मेदिनी ॥ 29 ॥
ततः शुद्धान्तम आसाद्य जानुभ्यां भूतले सथितः शिरसा वन्दनीयं तम अभिवन्द्य जगत्पतिम ॥ 30 ॥
कुण्डली बद्धनिस्त्रिंशः संनद्ध कवचॊ युवा अभिप्रणम्य शिरसा दवाःस्थॊ धर्मात्मजाय वै नयवेदयद धृषीकेशम उपयातं महात्मने ॥ 31 ॥
सॊ ऽबरवीत पुरुषव्याघ्रः सवागतेनैव माधवम अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम ॥ 32 ॥
ततः परवेश्य वार्ष्णेयम उपवेश्य वरासने सत्कृत्य सत्कृतस तेन पर्यपृच्छद युधिष्ठिरः ॥ 33 ॥
द्रोणपर्व · Drona Parva
अध्याय 58
Reach this point to mark the section finished.
Continue to अध्याय 59