[स] एतच छरुत्वा वचस तस्य केशवस्य महात्मनः सुभद्रा पुत्रशॊकार्ता विललाप सुदुःखिता ॥ 1 ॥
हा पुत्र मम मन्दायाः कथं संयुगम एत्य ह निधनं पराप्तवांस तात पितृतुल्यपराक्रमः ॥ 2 ॥
कथम इन्दीवरश्यामं सुदंष्ट्रं चारुलॊचनम मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ 3 ॥
नूनं शूरं निपतितं तवां पश्यन्त्य अनिवर्तिनम सुशिरॊ गरीव बाह्वंसं वयूढॊरस्कं निरूदरम ॥ 4 ॥
चारूपचित सर्वाङ्गं सवक्षं शस्त्रक्षताचितम भूतानि तवा निरीक्षन्ते नूनं चन्द्रम इवॊदितम ॥ 5 ॥
शयनीयं पुरा यस्य सपर्ध्यास्तरण संवृतम भूमाव अद्य कथं शेषे विप्र विद्धः सुखॊचितः ॥ 6 ॥
यॊ ऽनवास्यत पुरा वीरॊ वरस्त्रीभिर महाभुजः कथम अन्वास्यते सॊ ऽदय शिवाभिः पतितॊ मृधे ॥ 7 ॥
यॊ ऽसतूयत पुरा हृष्टैः सूतमागधबन्दिभिः सॊ ऽदय करव्याद गणैर घॊरैर विनदद्भिर उपास्यते ॥ 8 ॥
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभॊ पाञ्चालेषु च वीरेषु हतः केनास्य अनाथवत ॥ 9 ॥
अतृप्त दर्शना पुत्रदर्शनस्य तवानघ मन्दभाग्या गमिष्यामि वयक्तम अद्य यमक्षयम ॥ 10 ॥
विशालाक्षं सुकेशान्तं चारु वाक्यं सुगन्धि च तव पुत्र कदा भूयॊ मुखं दरक्ष्यामि निर्व्रणम ॥ 11 ॥
धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम धिग वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग बलम ॥ 12 ॥
धिक केकयांस तथा चेदीन मत्स्यांश चैवाथ सृञ्जयान ये तवा रणे गतं वीरं न जानन्ति निपातितम ॥ 13 ॥
अद्य पश्यामि पृथिवीं शून्याम इव हतत्विषम अभिमन्युम अपश्यन्ती शॊकव्याकुल लॊचना ॥ 14 ॥
सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः कथं तवा विरथं वीरं दरक्ष्याम्य अन्यैर निपातितम ॥ 15 ॥
हा वीर दृष्टॊ नष्टश च धनं सवप्न इवासि मे अहॊ हय अनित्यं मानुष्यं जलबुद्बुद चञ्चलम ॥ 16 ॥
इमां ते तरुणीं भार्यां तवद आधिभिर अभिप्लुताम कथं संधारयिष्यामि विवत्साम इव धेनुकाम ॥ 17 ॥
अहॊ हय अकाले परस्थानं कृतवान असि पुत्रक विहाय फलकाले मां सुगृद्धां तव दर्शने ॥ 18 ॥
नूनं गतिः कृतान्तस्य पराज्ञैर अपि सुदुर्विदा यत्र तवं केशवे नाथे संग्रामे ऽनाथवद धतः ॥ 19 ॥
यज्वनां दानशीलानां बराह्मणानां कृतात्मनाम चरितब्रह्म चर्याणां पुण्यतीर्थावगाहिनाम ॥ 20 ॥
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणाम अपि सहस्रदक्षिणानां च या गतिस ताम अवाप्नुहि ॥ 21 ॥
या गतिर युध्यमानानां शूराणाम अनिवर्तिनाम हत्वारीन निहतानां च संग्रामे तां गतिं वरज ॥ 22 ॥
गॊसहस्रप्रदातॄणां करतुदानां च या गतिः नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ 23 ॥
बरह्मचर्येण यां यान्ति मुनयः संशितव्रता एकपत्न्यश च यां यान्ति तां गतिं वरज पुत्रक ॥ 24 ॥
राज्ञां सुचरितैर या च गतिर भवति शाश्वती चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥ 25 ॥
दीनानुकम्पिनां या च सततं संविभागिनाम पैशुन्याच च निवृत्तानां तां गतिं वरज पुत्रक ॥ 26 ॥
वरतिनां धर्मशीलानां गुरुशुश्रूषिणाम अपि अमॊघातिथिनां या च तां गतिं वरज पुत्रक ॥ 27 ॥
ऋतुकाले सवकां पत्नीं गच्छतां या मनस्विनाम न चान्यदारसेवीनां तां गतिं वरज पुत्रक ॥ 28 ॥
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः नारुंतुदानां कषमिणां या गतिस ताम अवाप्नुहि ॥ 29 ॥
मधु मांसनिवृत्तानां मदाद दम्भात तथानृतात परॊपताप तयक्तानां तां गतिं वरज पुत्रक ॥ 30 ॥
हरीमन्तः सर्वशास्त्रज्ञा जञानतृप्ता जितेन्द्रियाः यां गतिं साधवॊ यान्ति तां गतिं वरज पुत्रक ॥ 31 ॥
एवं विलपतीं दीनां सुभद्रां शॊककर्शिताम अभ्यपद्यत पाञ्चाली वैराती सहिता तदा ॥ 32 ॥
ताः परकामं रुदित्वा च विपल्य च सुदुःखिताः उन्मत्तवत तदा राजन विसंज्ञा नयपतन कषितौ ॥ 33 ॥
सॊपचारस तु कृष्णस तां दुःखितां भृशदुःखितः सिक्त्वाम्भसा समाश्वास्य तत तद उक्त्वा हितं वचः ॥ 34 ॥
विसंज्ञकल्पां रुदतीम अपविद्धां परवेपतीम भगिनीं पुण्डरीकाक्ष इदं वचनम अब्रवीत ॥ 35 ॥
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयॊत्तराम गतॊ ऽभिमन्युः परथितां गतिं कषत्रिय पुंगवः ॥ 36 ॥
ये चान्ये ऽपि कुले सन्ति पुरुषा नॊ वरानने सर्वे ते वै गतिं यान्तु अभिमन्यॊर यशस्विनः ॥ 37 ॥
कुर्याम तद वयं कर्म करियासुः सुहृदश च नः कृतवान यादृग अद्यैकस तव पुत्रॊ महारथः ॥ 38 ॥
एवम आश्वास्य भगिनीं दरौपदीम अपि चॊत्तराम पार्थस्यैव महाबाहुः पार्श्वम आगाद अरिंदमः ॥ 39 ॥
ततॊ ऽभयनुज्ञाय नृपान कृष्णॊ बन्धूंस तथाभिभूः विवेशान्तःपुरं राजंस ते ऽनये जग्मुर यथालयम ॥ 40 ॥
द्रोणपर्व · Drona Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56