[स] तां निशां दुःखशॊकार्तौ शवसन्ताव इव चॊरगौ निद्रां नैवॊपलेभाते वासुदेवधनंजयौ ॥ 1 ॥
नरनारायणौ करुद्धौ जञात्वा देवाः सवासवाः वयथिताश चिन्तयाम आसुः किं कविद एतद भविष्यति ॥ 2 ॥
ववुश च दारुणा वाता रूक्षा गॊराभिशंसिनः स कबन्धस तथादित्ये परिघः समदृश्यत ॥ 3 ॥
शुष्काशन्यश च निष्पेतुः स निर्घाताः स विद्युतः चचाल चापि पृथिवी स शैलवनकानना ॥ 4 ॥
चुक्षुभुश च महाराज सागरा मकरालयाः परतिस्रॊतः परवृत्ताश च तथा गन्तुं समुद्रगाः ॥ 5 ॥
रथाश्वनरनागानां परवृत्तम अधरॊत्तरम करव्यादानां परमॊदार्थं यम राष्ट्रविवृद्धये ॥ 6 ॥
वाहनानि शकृन मूत्रे मुमुचू रुरुदुश च ह तान दृष्ट्वा दारुणान सर्वान उत्पाताँल लॊमहर्षणान ॥ 7 ॥
सर्वे ते वयथिताः सैन्यास तवदीया भरतर्षभ शरुत्वा महाबलस्यॊग्रां परतिज्ञां सव्यसाचिनः ॥ 8 ॥
अथ कृष्णं महाबाहुर अब्रवीत पाकशासनिः आश्वासय सुभद्रां तवं भगिनीं सनुषया सह ॥ 9 ॥
सनुषा शवश्व्रानघायस्ते विशॊके कुरु माधव साम्ना सत्येन युक्तेन वचसाश्वसय परभॊ ॥ 10 ॥
ततॊ ऽरजुन गृहं गत्वा वासुदेवः सुदुर्मनाः भगिनीं पुत्रशॊकार्ताम आश्वासयत दुःखिताम ॥ 11 ॥
मां शॊकं कुरु वार्ष्णेयि कुमारं परति स सनुषा सर्वेषां पराणिनां भीरु निष्ठैषा कालनिर्मिता ॥ 12 ॥
कुले जतस्य वीरस्य कषत्रियस्य विशेषतः सदृशं मरणं हय एतत तव पुत्रस्य मा शुचः ॥ 13 ॥
दिष्ट्या महारथॊ वीरः पितुस तुल्यपराक्रमः कषात्रेण विधिना पराप्तॊ वीराभिलसितां गतिम ॥ 14 ॥
जित्वा सुबहुशः शत्रून परेषयित्वा च मृत्यवे गतः पुण्यकृतां लॊकान सर्वकामदुहॊ ऽकषयान ॥ 15 ॥
तपसा बरह्मचर्येण शरुतेन परज्ञयापि च सन्तॊ यां गतिम इच्छन्ति पराप्तस तां तव पुत्रकः ॥ 16 ॥
वीरसूर वीर पत्नी तवं वीर शवशुर बान्धवा मा शुचस तनयं भद्रे गतः स परमां गतिम ॥ 17 ॥
पराप्स्यते चाप्य असौ कषुद्रः सैन्धवॊ बाल घातकः अस्यावलेपस्य फलं ससुहृद गणबान्धवः ॥ 18 ॥
वयुष्टायां तु वरारॊहे रजन्यां पापकर्मकृत न हि मॊक्ष्यति पार्थात स परविष्टॊ ऽपय अमरावतीम ॥ 19 ॥
शवः शिरः शरॊष्यसे तस्य सैन्धवस्य रणे हृतम समन्तपञ्चकाद बाह्यं विशॊका भव मा रुदः ॥ 20 ॥
कषत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम यां वयं पराप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ 21 ॥
वयूढॊरस्कॊ महाबाहुर अनिवर्ती वरप्रणुत गतस तव वरारॊहे पुत्रः सवर्गं जवरं जहि ॥ 22 ॥
अनु जातश च पितरं मातृपक्षं च वीर्यवान सहस्रशॊ रिपून हत्वा हतः शूरॊ महारथः ॥ 23 ॥
आश्वासय सनुषां राज्ञि मा शुचः कषत्रिये भृषम शवः परियं सुमहच छरुत्वा विशॊका भव नन्दिनि ॥ 24 ॥
यत पार्थेन परतिज्ञातं तत तथा न तद अन्यथा चिकीर्षितं हि ते भर्तुर न भवेज जातु निष्फलम ॥ 25 ॥
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश च रणगतम अभियान्ति सिन्धुराजं; न स भविता सह तैर अपि परभाते ॥ 26 ॥
द्रोणपर्व · Drona Parva
अध्याय 54
Reach this point to mark the section finished.
Continue to अध्याय 55