धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 53

  1. [स] परतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा वासुदेवॊ महाबाहुर धनंजयम अभाषत ॥ 1 ॥

  2. भरातॄणां मतम आज्ञाय तवया वाचा परतिश्रुतम सैन्धवं शवॊ ऽसमि हन्तेति तत साहसतमं कृतम ॥ 2 ॥

  3. असंमन्त्र्य मया सार्धम अतिभारॊ ऽयम उद्यतः कथं नु सर्वलॊकस्य नावहास्या भवेमहि ॥ 3 ॥

  4. धार्तराष्ट्रस्य शिबिरे मया परणिहिताश चराः त इमे शीघ्रम आगम्य परवृत्तिं वेदयन्ति नः ॥ 4 ॥

  5. तवया वै संप्रतिज्ञाते सिन्धुराजवधे तदा सिंहनादः स वादित्रः सुमहान इह तैः शरुतः ॥ 5 ॥

  6. तेन शब्देन वित्रस्ता धार्तराष्ट्राः स सैन्धवाः नाकस्मात सिंहनादॊ ऽयम इति मत्वा वयवस्थिताः ॥ 6 ॥

  7. सुमहाञ शब्दसंपातः कौरवाणां महाभुज आसीन नागाश्वपत्तीनां रथघॊषश च भैरवः ॥ 7 ॥

  8. अभिमन्युवधं शरुत्वा धरुवम आर्तॊ धनंजयः रात्रौ निर्यास्यति करॊधाद इति मत्वा वयवस्थिताः ॥ 8 ॥

  9. तैर यतद्भिर इयं सत्या शरुता सत्यवतस तव परतिज्ञा सिन्धुराजस्य वधे राजीवलॊचन ॥ 9 ॥

  10. ततॊ विमनसः सर्वे तरस्ताः कषुद्रमृगा इव आसन सुयॊधनामात्याः स च राजा जयद्रथः ॥ 10 ॥

  11. अथॊत्थाय सहामात्यैर दीनः शिबिरम आत्मनः आयात सौवीरसिन्धूनाम ईश्वरॊ भृशदुःखितः ॥ 11 ॥

  12. स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः करियाः सुयॊधनम इदं वाक्यम अब्रवीद राजसंसदि ॥ 12 ॥

  13. माम असौ पुत्र हन्तेति शवॊ ऽभियाता धनंजयः परतिज्ञातॊ हि सेनाया मध्ये तेन वधॊ मम ॥ 13 ॥

  14. तां न देवा न गन्धर्वा नासुरॊरग राक्षसाः उत्सहन्ते ऽनयथा कर्तुं परतिज्ञां सव्यसाचिनः ॥ 14 ॥

  15. ते मां रक्षत संग्रामे मा वॊ मूर्ध्नि धनंजयः पदं कृत्वाप्नुयाल लक्ष्यं तस्माद अत्र विधीयताम ॥ 15 ॥

  16. अथ रक्षा न मे संख्ये करियते कुरुनन्दन अनुजानीहि मां राजन गमिष्यामि गृहान परति ॥ 16 ॥

  17. एवम उक्तस तव अवाक्शीर्षॊ विमनाः स सुयॊधनः शरुत्वाभिशप्तवन्तं तवां धयानम एवान्वपद्यत ॥ 17 ॥

  18. तम आर्तम अभिसंप्रेक्ष्य राजा किल स सैन्धवः मृदु चात्महितं चैव सापेक्षम इदम उक्तवान ॥ 18 ॥

  19. नाहं पश्यामि भवतां तथा वीर्यं धनुर्धरम यॊ ऽरजुनस्यास्त्रम अस्त्रेण परतिहन्यान महाहवे ॥ 19 ॥

  20. वासुदेवसहायस्य गाण्डीवं धुन्वतॊ धनुः कॊ ऽरजुनस्याग्रतस तिष्ठेत साक्षाद अपि शतक्रतुः ॥ 20 ॥

  21. महेश्वरॊ ऽपि पार्थेन शरूयते यॊधितः पुरा पदातिना महातेजा गिरौ हिमवति परभुः ॥ 21 ॥

  22. दानवानां सहस्राणि हिरण्यपुरवासिनाम जघान एकरथेनैव देवराजप्रचॊदितः ॥ 22 ॥

  23. समायुक्तॊ हि कौनेयॊ वासुदेवेन धीमता सामरान अपि लॊकांस तरीन निहन्याद इति मे मतिः ॥ 23 ॥

  24. सॊ ऽहम इच्छाम्य अनुज्ञातुं रक्षितुं वा महात्मना दरॊणेन सह पुत्रेण वीरेण यदि मन्स्यसे ॥ 24 ॥

  25. स राज्ञा सवयम आचार्यॊ भृशम आक्रन्दितॊ ऽरजुन संविधानं च विहितं रथाश च किल सज्जिताः ॥ 25 ॥

  26. कर्णॊ भूरिश्रवा दरौणिर वृषसेनश च दुर्जयः कृपश च मद्रराजश च षड एते ऽसय पुरॊगमाः ॥ 26 ॥

  27. शकटः पद्मपश चार्धॊ वयूहॊ दरॊणेन कल्पितः पद्मकर्णिकमध्यस्थः सूची पाशे जयद्रथः सथास्यते रक्षितॊ वीरैः सिन्धुराड युद्धदुर्मदैः ॥ 27 ॥

  28. धनुष्य अस्त्रे च वीर्ये च पराणे चैव तथॊरसि अविषह्यतमा हय एते निश्चिताः पार्थ षड रथाः एतान अजित्वा सगणान नैव पराप्यॊ जयद्रथः ॥ 28 ॥

  29. तेषाम एकैकशॊ वीर्यं षण्णां तवम अनुचिन्तय सहिता हि नरव्याघ्रा न शक्या जेतुम अञ्जसा ॥ 29 ॥

  30. भूयश च चिन्तयिष्यामि नीतिम आत्महिताय वै मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥ 30 ॥

  31. [अर्ज] षड रथान धार्तराष्ट्रस्य मन्यसे यान बलाधिकान तेषां वीर्यं ममार्धेन न तुल्यम इति लक्षये ॥ 31 ॥

  32. अस्त्रम अस्त्रेण सर्वेषाम एतेषां मधुसूदन मया दरक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥ 32 ॥

  33. दरॊणस्य मिषतः सॊ ऽहं सगणस्य विलप्स्यतः मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ 33 ॥

  34. यदि साध्याश च रुद्राश च वसवश च सहाश्विनः मरुतश च सहेन्द्रेण विश्वे देवास तथासुराः ॥ 34 ॥

  35. पितरः सह गन्धर्वाः सुपर्णाः सागराद्रयः दयौर वियत पृथिवी चेयं दिशश च स दिग ईश्वराः ॥ 35 ॥

  36. गराम्यारण्यानि भूतानि सथावराणि चराणि च तरातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥ 36 ॥

  37. तथापि बाणैर निहतं शवॊ दरष्टासि रणे मया सत्येन ते शपे कृष्ण तथैवायुधम आलभे ॥ 37 ॥

  38. यश च गॊप्ता महेष्वासस तस्य पापस्य दुर्मतेः तम एव परथमं दरॊणम अभियास्यामि केशव ॥ 38 ॥

  39. तस्मिन दयूतम इदं बद्धं मन्यते सम सुयॊधनः तस्मात तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम ॥ 39 ॥

  40. दरष्टासि शवॊ महेष्वासान नाराचैस तिग्मतेजनैः शृङ्गाणीव गिरेर वर्जैर दार्यमाणान मया युधि ॥ 40 ॥

  41. नरनागाश्वदेहेभ्यॊ विस्रविष्यति शॊणितम पतद्भ्यः पतितेभ्यश च विभिन्नेभ्यः शितैः शरैः ॥ 41 ॥

  42. गाण्डीवप्रेषिता बाणा मनॊऽनिलसमा जवे नृनागाश्वान विदेहासून कर्तारश च सहस्रशः ॥ 42 ॥

  43. यमात कुबेराद वरुणाद रुद्राद इन्द्राच च यन मया उपात्तम अस्त्रं घॊरं वै तद दरष्टारॊ नरा युधि ॥ 43 ॥

  44. बराह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे मया दरष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम ॥ 44 ॥

  45. शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः आस्तीर्यमाणां पृथिवीं दरष्टासि शवॊ मया युधि ॥ 45 ॥

  46. करव्यादांस तर्पयिष्यामि दरावयिष्यामि शात्रवान सुहृदॊ नन्दयिष्यामि पातयिष्यामि सैन्धवम ॥ 46 ॥

  47. बह्व आगस्कृत कुसंबन्धी पापदेशसमुद्भवः मया सैन्धवकॊ राजा हतः सवाञ शॊचयिष्यति ॥ 47 ॥

  48. सर्वक्षीरान्न भॊक्तारः पापाचारा रणाजिरे मया सराजका बाणैर नुन्ना नंक्ष्यन्ति सैन्धवाः ॥ 48 ॥

  49. तथा परभाते कर्तास्मि यथा कृष्ण सुयॊधनः नान्यं धनुर्धरं लॊके मंस्यते मत्समं युधि ॥ 49 ॥

  50. गाण्डीवं च धनुर दिव्यं यॊद्धा चाहं नरर्षभ तवं च यन्ता हृषीकेश किं नु सयाद अजितं मया ॥ 50 ॥

  51. यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम एवम एतां परतिज्ञां मे सत्यां विद्धि जनार्दन ॥ 51 ॥

  52. मावमंस्था ममास्त्राणि मावमंस्था धनुर दृढम मावमंस्था बलं बाह्वॊर मावमंस्था धनंजयम ॥ 52 ॥

  53. यथा हि यात्वा संग्रामे न जीये विजयामि च तेन सत्येन संग्रामे हतं विद्धि जयद्रथम ॥ 53 ॥

  54. धरुवं वै बराह्मणे सत्यं धरुवा साधुषु संनतिः शरीर धरुवा चापि दक्षेषु धरुवॊ नारायणे जयः ॥ 54 ॥

  55. [स] एवम उक्त्वा हृषीकेशं सवयम आत्मानम आत्मना संदिदेशार्जुनॊ नर्दन वासविः केशवं परभुम ॥ 55 ॥

  56. यथा परभातां रजनीं कल्पितः सयाद रथॊ मम तथा कार्यं तवया कृष्ण कार्यं हि महद उद्यतम ॥ 56 ॥

Reach this point to mark the section finished.

Continue to अध्याय 54

Previous: अध्याय 52