धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 52

  1. [स] शरुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम चारैः परवेदिते तत्र समुत्थाय जयद्रथः ॥ 1 ॥

  2. शॊकसंमूढहृदयॊ दुःखेनाभिहतॊ भृशम मज्जमान इवागाधे विपुले शॊकसागले ॥ 2 ॥

  3. जगाम समितिं राज्ञां सैन्धवॊ विमृशन बहु स तेषां नरदेवानां सकाशे परिदेवयन ॥ 3 ॥

  4. अभिमन्यॊः पितुर भीतः सव्रीडॊ वाक्यम अब्रवीत यॊ ऽसौ पाण्डॊः किल कषेत्रे जातः शक्रेण कामिना ॥ 4 ॥

  5. स निनीषति दुर्बुद्धिर मां किलैकं यमक्षयम तस तवस्ति वॊ ऽसतु यास्यामि सवगृहं जीवितेप्सया ॥ 5 ॥

  6. अथ वा सथ परतिबलास तरातुं मां कषत्रियर्षभाः पार्थेन परार्थितं वीरास ते ददन्तु ममाभयम ॥ 6 ॥

  7. दरॊणदुर्यॊधनकृपाः कर्णमद्रेशबाह्लिकाः दुःशासनादयः शक्तास तरातुम अप्य अन्तकाद्रितम ॥ 7 ॥

  8. किम अङ्गपुनर एकेन फल्गुनेन जिघांसता न तरायेयुर भवन्तॊ मां समस्ताः पतयॊ कषितेः ॥ 8 ॥

  9. परहर्षं पाण्डवेयानां शरुत्वा मम महद भयम सीदन्तीव च मे ऽङगानि मुमूर्षॊर इव पार्थिवाः ॥ 9 ॥

  10. वधॊ नूनं परतिज्ञातॊ मम गाण्डीवधन्वना तथा हि हृष्टाः करॊशन्ति शॊककाले ऽपि पाण्डवाः ॥ 10 ॥

  11. न देवा न च गन्धर्वा नाशुरॊरग राक्षसाः उत्सहन्ते ऽनयथा कर्तुं कुत एव नराधिपाः ॥ 11 ॥

  12. तस्मान माम अनुजामीत भद्रं वॊ ऽसतु नरर्षभाः अदर्शनं गमिष्यामि न मां दरक्ष्यन्ति पाण्डवाः ॥ 12 ॥

  13. एवं विलपमानं तं भयाद वयाकुलचेतसम आत्मकार्यगरीयस्त्वाद राजा दुर्यॊधनॊ ऽबरवीत ॥ 13 ॥

  14. न भेतव्यं नरव्याघ्र कॊ हि तवा पुरुषर्षभ मध्ये कषत्रिय वीराणां तिष्ठन्तं परार्थयेद युधि ॥ 14 ॥

  15. अहं वैकर्तनः कर्णश चित्रसेनॊ विविंशतिः भूरिश्रवाः शलः शल्यॊ वृषसेनॊ दुरासदः ॥ 15 ॥

  16. पुरुमित्रॊ जयॊ भॊजः काम्बॊजश च सुदक्षिणः सत्यव्रतॊ महाबाहुर विकर्णॊ दुर्मुखः सहः ॥ 16 ॥

  17. दुःशासनः सुबाहुश च कलिङ्गश चाप्य उदायुधः विन्दानुविन्दाव आवन्त्यौ दरॊणॊ दरौणिः स सौबलः ॥ 17 ॥

  18. तवं चापि रथिनां शरेष्ठः सवयं शूरॊ ऽमितद्युतिः स कथं पाण्डवेयेभ्यॊ भयं पश्यसि सैन्धव ॥ 18 ॥

  19. अक्षौहिण्यॊ दशैका च मदीयास तव रक्षणे यत्ता यॊत्स्यन्ति मां भैस तवं सैन्धव वयेतु ते भयम ॥ 19 ॥

  20. एवम आश्वासितॊ राजन पुत्रेण तव सैन्धवः दुर्यॊधनेन सहितॊ दरॊणं रात्राव उपागमत ॥ 20 ॥

  21. उपसंग्रहणं कृत्वा दरॊणाय स विशां पते उपॊपविश्य परणतः पर्यपृच्छद इदं तदा ॥ 21 ॥

  22. निमित्ते दूरपातित्वे लघुत्वे दृढवेधने मम बरवीतु भगवान विशेषं फल्गुनस्य च ॥ 22 ॥

  23. विद्या विशेषम इच्छामि जञातुम आचार्य तत्त्वतः ममार्जुनस्य च विभॊ यथातत्त्वं परचक्ष्व मे ॥ 23 ॥

  24. [दर्न] समम आचार्यकं तात तव चैवार्जुनस्य च यॊगाद दुःखॊचितत्वाच च तस्मात तवत्तॊ ऽधिकॊ ऽरजुनः ॥ 24 ॥

  25. न तु ते युधि संत्रासः कार्यः पार्थात कथं चन अहं हि रक्षिता तात भयात तवां नात्र संशयः ॥ 25 ॥

  26. न हि मद्बाहुगुप्तस्य परभवन्त्य अमरा अपि वयूहिष्यामि च तं वयूहं यं पार्थॊ न तरिष्यति ॥ 26 ॥

  27. तस्माद युध्यस्व मा भैस तवं सवधर्मम अनुपालय पितृपैतामहं मार्गम अनुयाहि नराधिप ॥ 27 ॥

  28. अधीत्य विधिवद वेदान अग्नयः सुहुतास तवया इष्टं च बहुभिर यज्ञैर न ते मृत्युभयाद भयम ॥ 28 ॥

  29. दुर्लभं मानुषैर मन्दैर महाभाग्यम अवाप्य तु भुजवीर्यार्जिताँल लॊकान दिव्यान पराप्स्यस्य अनुत्तमान ॥ 29 ॥

  30. कुरवः पाण्डवाश चैव वृष्णयॊ ऽनये च मानवाः अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम ॥ 30 ॥

  31. पर्यायेण वयं सर्वे कालेन बलिना हताः परलॊकं गमिष्यामः सवैः सवैः कर्मभिर अन्विताः ॥ 31 ॥

  32. तपस तप्त्वा तु याँल लॊकान पराप्नुवन्ति तपस्विनः कषत्रधर्माश्रिताः शूराः कषत्रियाः पराप्नुवन्ति तान ॥ 32 ॥

  33. [स] एवम आश्वासितॊ राजन भारद्वाजेन सैन्धवः अपानुदद भयं पार्थाद युद्धाय च मनॊ दधे ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51