धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 51

  1. [य] तवयि याते महाबाहॊ संशप्तकबलं परति परयत्नम अकरॊत तीव्रम आचार्यॊ गरहणे मम ॥ 1 ॥

  2. वयाढानीकं वयं दरॊणं वरयामः सम सर्वशः परतिव्यूह्य रथानीकं यतमानं तथा रणे ॥ 2 ॥

  3. स वार्यमाणॊ रथिभी रक्षितेन मया तथा अस्मान अपि जघानाशु पीडयन निशितैः शरैः ॥ 3 ॥

  4. ते पीड्यमाना दरॊणेन दरॊणानीकं न शक्नुमः परतिवीक्षितुम अप्य आजौ भेत्तुं तत कुत एव तु ॥ 4 ॥

  5. वयं तव अप्रतिमं वीर्ये सर्वे सौभद्रम आत्मजम उक्तवन्तः सम ते तात भिन्ध्य अनीकम इति परभॊ ॥ 5 ॥

  6. स तथा चॊदितॊ ऽसमाभिः सदश्व इव वीर्यवान असह्यम अपि तं भारं वॊढुम एवॊपचक्रमे ॥ 6 ॥

  7. स तवास्त्रॊपदेशेन वीर्येण च समन्वितः पराविशत तद बलं बालः सुपर्ण इव सागरम ॥ 7 ॥

  8. ते ऽनुयाता वयं वीरं सात्वती पुत्रम आहवे परवेष्टु कामास तेनैव येन स पराविशच चमूम ॥ 8 ॥

  9. ततः सैन्धवकॊ राजा कषुद्रस तात जयद्रथः वरदानेन रुद्रस्य सर्वान नः समवारयत ॥ 9 ॥

  10. ततॊ दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः कृतवर्मा च सौभद्रं षड रथाः पर्यवारयन ॥ 10 ॥

  11. परिवार्य तु तैः सर्वैर युधि बालॊ महारथैः यतमानः परं शक्त्या बहुभिर विरथी कृतः ॥ 11 ॥

  12. ततॊ दौःशासनिः कषिप्रं तथा तैर विरथी कृतम संशयं परमं पराप्य दिष्टान्तेनाभ्ययॊजयत ॥ 12 ॥

  13. स तु हत्वा सहस्राणि दविपाश्वरथसादिनाम राजपुत्र शतं चाग्र्यं वीरांश चालक्षितान बहून ॥ 13 ॥

  14. बृहद्बलं च राजानं सवर्गेणाजौ परयॊज्य ह ततः परमधर्मात्मा दिष्टान्तम उपजग्मिवान ॥ 14 ॥

  15. एतावद एव निर्वृत्तम अस्माकं शॊकवर्धनम स चैवं पुरुषव्याघ्रः सवर्गलॊकम अवाप्तवान ॥ 15 ॥

  16. [स] ततॊ ऽरजुनॊ वचः शरुत्वा धर्मराजेन भाषितम हा पुत्र इति निःश्वस्य वयथितॊ नयपतद भुवि ॥ 16 ॥

  17. विषण्णवदनाः सर्वे परिगृह्य धनंजयम नेत्रैर अनिमिषैर दीनाः परत्यवेक्षन परस्परम ॥ 17 ॥

  18. परतिलभ्य ततः संज्ञां वासविः करॊधमूर्छितः कम्पमानॊ जवरेणेव निःश्वसंश च मुहुर मुहुः ॥ 18 ॥

  19. पाणिं पाणौ विनिष्पिष्य शवसमानॊ ऽशरुनेत्रवान उन्मत्त इव विप्रेक्षन्न इदं वचनम अब्रवीत ॥ 19 ॥

  20. सत्यं वः परतिजानामि शवास्ति हन्ता जयद्रथम न चेद वधभयाद भीतॊ धर्तराष्ट्रान परहास्यति ॥ 20 ॥

  21. न चास्माञ शरणं गच्छेत कृष्णं वा पुरुषॊत्तमम भवन्तं वा महाराज शवॊ ऽसमि हन्ता जयद्रथम ॥ 21 ॥

  22. धार्तराष्ट्र परियकरं मयि विस्मृत सौहृदम पापं बालवधे हेतुं शवॊ ऽसमि हन्ता जयद्रथम ॥ 22 ॥

  23. रक्षमाणाश च तं संख्ये ये मां यॊत्स्यन्ति के चन अपि दरॊण कृपौ वीरौ छादयिष्यामि ताञ शरैः ॥ 23 ॥

  24. यद्य एतद एवं संग्रामे न कुर्यां पुरुषर्षभाः मा सम पुण्यकृतां लॊकान पराप्नुयां शूर संमतान ॥ 24 ॥

  25. ये लॊका मातृहन्तॄणां ये चापि पितृघातिनाम गुरु दारगामिनां ये च पिशुनानां च ये तथा ॥ 25 ॥

  26. साधून असूयतां ये च ये चापि परिवादिनाम ये च निक्षेप हर्तॄणां ये च विश्वासघातिनाम ॥ 26 ॥

  27. भुक्तपूर्वां सत्रियं ये च निन्दताम अघ शंसिनाम बरह्मघ्नानां च ये लॊका ये च गॊघातिनाम अपि ॥ 27 ॥

  28. पायसं वा यवान्नं वा शाकं कृसरम एव वा संयावापूप मांसानि ये च लॊका वृथाश्नताम तान अह्नैवाधिगच्छेयं न चेद धन्यां जयद्रथम ॥ 28 ॥

  29. वेदाध्यायिनम अत्यर्थं संशितं वा दविजॊत्तमम अवमन्यमानॊ यान याति वृद्धान साधूंस तथा गुरून ॥ 29 ॥

  30. सपृशतां बराह्मणं गां च पादेनाग्निं च यां लभेत याप्सु शरेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम ॥ 30 ॥

  31. नग्नस्य सनायमानस्य या च वन्ध्यातिथेर गतिः उत्कॊचिनां मृषॊक्तीनां वञ्चकानां च या गतिः आत्मापहारिणां या च या च मिथ्याभिशंसिनाम ॥ 31 ॥

  32. भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस तथा असंविभज्य कषुद्राणां या गतिर मृष्टम अश्नताम तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम ॥ 32 ॥

  33. संश्रितं वापि यस तयक्त्वा साधुं तद वचने रतम न बिभर्ति नृशंसात्मा निन्दते चॊपकारिणम ॥ 33 ॥

  34. अर्हते परातिवेश्याय शराद्धं यॊ न ददाति च अनर्हते च यॊ दद्याद वृषली पत्युर एव च ॥ 34 ॥

  35. मद्यपॊ भिन्नमर्यादः कृतघ्नॊ भरातृनिन्दकः तेषां गतिम इयां कषिप्रं न चेद धन्यां जरद्रथम ॥ 35 ॥

  36. धर्माद अपेता ये चान्ये मया नात्रानुकीर्तिताः ये चानुकीर्तिताः कषिप्रं तेषां गतिम अवाप्नुयाम यदि वयुष्टाम इमां रात्रिं शवॊ न हन्यां जयद्रथम ॥ 36 ॥

  37. इमां चाप्य अपरां भूयः परतिज्ञां मे निबॊधत यद्य अस्मिन्न अहते पापे सूर्यॊ ऽसतम उपयास्यति इहैव संप्रवेष्टाहं जवलितं जातवेदसम ॥ 37 ॥

  38. असुरसुरमनुष्याः पक्षिणॊ वॊरगा वा; पितृरज निचरा वा बरह्म देवर्षयॊ वा चरम अचरम अपीदं यत परं चापि तस्मात; तद अपि मम रिपुं रक्षितुं नैव शक्ताः ॥ 38 ॥

  39. यदि विशति रसातलं तदग्र्यं; वियद अपि देवपुरं दितेः पुरं वा तद अपि शरशतैर अहं परभाते; भृशम अभिपत्य रिपॊः शिरॊ ऽभिहर्ता ॥ 39 ॥

  40. एवम उक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम तस्य शब्दम अतिक्रम्य धनुः शब्दॊ ऽसपृशद दिवम ॥ 40 ॥

  41. अर्जुनेन परतिज्ञाते पराञ्चजन्यं जनार्जनः परदध्मौ तत्र संक्रुद्धॊ देवदत्तं धनंजयः ॥ 41 ॥

  42. स पाञ्चजन्यॊ ऽचयुतवक्त्रवायुना; भृशं सुपर्णॊदर निःसृत धवनिः जगत स पातालवियद दिग ईश्वरं; परकम्पयाम आस युगात्यये यथा ॥ 42 ॥

  43. ततॊ वादित्रघॊषाश च परादुरासन समन्ततः सिंहनादाश च पाण्डूनां परतिज्ञाते महात्मना ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 52

Previous: अध्याय 50