[स] तस्मिन्न अहनि निर्वृत्ते घॊरे पराणभृतां कषये आदित्ये ऽसतं गते शरीमान संध्याकाल उपस्थिते ॥ 1 ॥
वयपयातेषु सैन्येषु वासाय भरतर्षभ हत्वा संशप्तकव्रातान दिव्यैर अस्त्रैः कपिध्वजः ॥ 2 ॥
परायात सवशिबिरं जिष्णुर जैत्रम आस्थाय तं रथम गच्छन्न एव च गॊविन्दं सन्नकण्ठॊ ऽभयभाषत ॥ 3 ॥
किं नु मे हृदयं तरस्तं वाक्यं सज्जति केशव सपन्दन्ति चाप्य अनिष्टानि गात्रं सीदति चाप्य उत ॥ 4 ॥
अनिष्टं चैव मे शलिष्टं हृदयान नापसर्पति भुवि यद दिक्षु चाप्य उग्रा उत्पातास तरासयन्ति माम ॥ 5 ॥
बहुप्रकारा दृश्यन्ते सर्व एवाघ शंसिनः अपि सवस्ति भवेद राज्ञः सामात्यस्य गुरॊर मम ॥ 6 ॥
[वासु] वयक्तं शिवं तव भरातुः सामात्यस्य भविष्यति मा शुचः किं चिद एवान्यत तत्रानिष्टं भविष्यति ॥ 7 ॥
[स] ततः संध्याम उपास्यैव वीरौ वीरावसादने कथयन्तौ रणे वृत्तं परयातौ रथम आस्थितौ ॥ 8 ॥
ततः सवशिबिरं पराप्तौ हतानन्दं हतत्विषम वासुदेवॊ ऽरजुनश चैव कृत्वा कर्म सुदुष्करम ॥ 9 ॥
धवस्ताकारं समालक्ष्य शिबिरं परवीरहा बीभत्सुर अब्रवीत कृष्णम अस्वस्थहृदयस ततः ॥ 10 ॥
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन मिश्रा दुन्दुभिनिर्घॊषः शङ्खाश चाडम्बरैः सह वीणा वा नाद्य वाद्यन्ते शम्या तालस्वनैः सह ॥ 11 ॥
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च सतुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥ 12 ॥
यॊधाश चापि हि मां दृष्ट्वा निवर्तन्ते हय अधॊमुखाः कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम ॥ 13 ॥
अपि सवस्ति भवेद अद्य भरातृभ्यॊ मम माधव न हि शुध्यति मे भावॊ दृष्ट्वा सवजनम आकुलम ॥ 14 ॥
अपि पाञ्चालराजस्य विराटस्य च मानद सर्वेषां चैव यॊधानां सामग्र्यं सयान ममाच्युत ॥ 15 ॥
न च माम अद्य सौभद्रः परहृष्टॊ भरातृभिः सह रणाद आयान्तम उचितं परत्युद्याति हसन्न इव ॥ 16 ॥
एवं संकथयन्तौ तौ परविष्टौ शिबिरं सवकम ददृशाते भृशास्वस्थान पाण्डवान नष्टचेतसः ॥ 17 ॥
दृष्ट्वा भरातॄंश च पुत्रांश च विमना वानरध्वजः अपश्यंश चैव सौभद्रम इदं वचनम अब्रवीत ॥ 18 ॥
मुखवर्णॊ ऽपरसन्नॊ वः सर्वेषाम एव लक्ष्यते न चाभिमन्युं पश्यामि न च मां परतिनन्दथ ॥ 19 ॥
मया शरुतश च दरॊणेन चक्रव्यूहॊ विनिर्मितः न च वस तस्य भेत्तास्ति ऋते सौभद्रम आहवे ॥ 20 ॥
न चॊपदिष्टस तस्यासीन मयानीक विनिर्गमः कच चिन न बालॊ युष्माभिः परानीकं परवेशितः ॥ 21 ॥
भित्त्वानीकं महेष्वासः परेषां बहुशॊ युधि कच चिन न निहतः शेते सौभद्रः परवीरहा ॥ 22 ॥
लॊहिताक्षं महाबाहुं जातं सिंहम इवाद्रिषु उपेन्द्र सदृशं बरूत कथम आयॊधने हतः ॥ 23 ॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम सदा मम परियं बरूत कथम आयॊधने हतः ॥ 24 ॥
वार्ष्णेयी दयितं शूरं मया सततलालितम अम्बायाश च परियं नित्यं कॊ ऽवधीत कालचॊदितः ॥ 25 ॥
सदृशॊ वृष्णिसिंहस्य केशवस्य महात्मनः विक्रमश्रुतमाहात्म्यैः कथम आयॊधने हतः ॥ 26 ॥
सुभद्रायाः परियं नित्यं दरौपद्याः केशवस्य च यदि पुत्रं न पश्यामि यास्यामि यमसादनम ॥ 27 ॥
मृदु कुञ्चितकेशान्तं बालं बाल मृगेक्षणम मत्तद्विरदविक्रान्तं शालपॊतम इवॊद्गतम ॥ 28 ॥
समिताभिभाषणं दान्तं गुरुवाक्यकरं सदा बाल्ये ऽपय अबाल कर्माणं परियवाक्यम अमत्सरम ॥ 29 ॥
महॊत्साहं महाबाहुं दीर्घराजीव लॊचनम भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम ॥ 30 ॥
कृतज्ञं जञानसंपन्नं कृतास्त्रम अनिवर्तिनम युद्धाभिनन्दिनं नित्यं दविषताम अघवर्धनम ॥ 31 ॥
सवेषां परियहिते युक्तं पितॄणां जय गृद्धिनम न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम यदि पुत्रं न पश्यामि यास्यामि यमसादनम ॥ 32 ॥
सुललाटं सुकेशान्तं सुभ्र्व अक्षिदशनच छदम अपश्यतस तद वदनं का शान्तिर हृदयस्य मे ॥ 33 ॥
तन्त्री सवनसुखं रम्यं पुंस्कॊकॊल समध्वनिम अशृण्वतः सवनं तस्य का शान्तिर हृदयस्य मे ॥ 34 ॥
रूपं चाप्रतिरूपं तन्त्रिदशेष्व अपि दुर्लभम अपश्यतॊ ऽदय वीरस्य का शान्तिर हृदयस्य मे ॥ 35 ॥
अभिवादनदक्षं तं पितॄणां वचने रतम नाद्याहं यदि पश्यामि का शान्तिर हृदयस्य मे ॥ 36 ॥
सुकुमारः सदा वीरॊ महार्हशयनॊचितः भूमाव अनाथवच छेते नूनं नाथवतां वरः ॥ 37 ॥
शयानं समुपासन्ति यं पुरा परमस्त्रियः तम अद्य विप्रविद्धाङ्गम उपासन्त्य अशिवाः शिवाः ॥ 38 ॥
यः पुरा बॊध्यते सुप्तैः सूतमागधबन्दिभिः बॊधयन्त्य अद्य तं नूनं शवापदा विकृतैः सवरैः ॥ 39 ॥
छत्रच छाया समुचितं तस्य तद वदनं शुभम नूनम अद्य रजॊध्वस्तं रणे रेणुः करिष्यति ॥ 40 ॥
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने भाग्यहीनस्य कालेन यथा मे नीयसे बलात ॥ 41 ॥
साद्य संयमनी नूनं सदा सुकृतिनां गतिः सवभाभिर भासिता रम्या तवयात्यर्थं विराजते ॥ 42 ॥
नूनं वैवस्वतश च तवा वरुणश च परियातिथिः शतक्रतुर धनेशश च पराप्तम अर्चन्त्य अभीरुकम ॥ 43 ॥
एवं विलप्य बहुधा भीन पॊतॊ वणिग यथा दुःखेन महताविष्टॊ युधिष्ठिरम अपृच्छत ॥ 44 ॥
कच चित स कदनं कृत्वा परेषां पाण्डुनन्दन सवर्गतॊ ऽभिमुखः संख्ये युध्यमानॊ नरर्षभः ॥ 45 ॥
स नूनं बहुभिर यत्तैर युध्यमानॊ नरर्षभैः असहायः सहायार्थी माम अनुध्यातवान धरुवम ॥ 46 ॥
पीड्यमानः शरैर बालस तात साध्व अभिधाव माम इति विप्रलपन मन्ये नृशैंसैर बहुभिर हतः ॥ 47 ॥
अथ वा मत्प्रसूतश च सवस्रीयॊ माधवस्य च सुभद्रायां च संभूतॊ नैवं वक्तुम इहार्हति ॥ 48 ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम अपश्यतॊ दीर्घबाहुं रक्ताक्षं यन न दीर्यते ॥ 49 ॥
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः सवस्रीये वासुदेवस्य मम पुत्राक्षिपञ शरान ॥ 50 ॥
यॊ मां नित्यम अदीनात्मा परत्युद्गम्याभिनन्दति उपयान्तं रिपून हत्वा सॊ ऽदय मां किं न पश्यति ॥ 51 ॥
नूनं स पतितः शेते धरण्यां रुधिरॊक्षितः शॊभयन मेदिनीं गात्रैर आदित्य इव पातितः ॥ 52 ॥
रणे विनिहतं शरुत्वा शॊकार्ता वै विनंक्ष्यति सुभद्रा वक्ष्यते किं माम अभिमन्युम अपश्यती दरौपदी चैव दुःखार्ते ते च वक्ष्यामि किं नव अहम ॥ 53 ॥
वज्रसारमयं नूनं हृदयं यन न यास्यति सहस्रधा वधूं दृष्ट्वा रुदतीं शॊककर्शिताम ॥ 54 ॥
हृष्टानां धार्तराष्ट्राणां सिंहनादॊ मया शरुतः युयुत्सुश चापि कृष्णेन शरुतॊ वीरान उपालभन ॥ 55 ॥
अशक्नुवन्तॊ बीभत्सुं बालं हत्वा महारथाः किं नदध्वम अधर्मज्ञाः पार्थे वै दृश्यतां बलम ॥ 56 ॥
किं तयॊर विप्रियं कृत्वा केशवार्जुनयॊर मृधे सिंहवन नदत परीताः शॊककाल उपस्थिते ॥ 57 ॥
आगमिष्यति वः कषिप्रं फलं पापस्य कर्मणः अधर्मॊ हि कृतस तीव्रः कथं सयाद अफलश चिरम ॥ 58 ॥
इति तान रप्ति भाषन वै वैश्यापुत्रॊ महामतिः अपायाच छस्त्रम उत्सृज्य कॊपदुःखसमन्वितः ॥ 59 ॥
किमर्थम एतन्न आख्यातं तवया कृष्ण रणे मम अधक्ष्यं तान अहं सर्वांस तदा करूरान महारथान ॥ 60 ॥
निगृह्य वासुदेवस तं पुत्राधिभिर अभिप्लुतम मैवम इत्य अब्रवीत कृष्णस तीव्रशॊकसमन्वितम ॥ 61 ॥
सर्वेषाम एष वै पन्थाः शूराणाम अनिवर्तिनाम कषत्रियाणां विशेषेण येषां युद्धेन जीविका ॥ 62 ॥
एषा वै युध्यमानानां शूराणाम अनिवर्तिनाम विहिता धर्मशास्त्रज्ञैर गतिर गतिमतां वर ॥ 63 ॥
धरुवं युद्धे हि मरणं शूराणाम अनिवर्तिनाम गतः पुण्यकृतां लॊकान अभिमन्युर न संशयः ॥ 64 ॥
एतच च सर्ववीराणां काङ्क्षितं भरतर्षभ संग्रामे ऽभिमुखा मृत्युं परप्नुयामेति मानद ॥ 65 ॥
स च वीरान रणे हत्वा राजपुत्रान महाबलान वीरैर आकाङ्क्षितं मृत्युं संप्राप्तॊ ऽभिमुखॊ रणे ॥ 66 ॥
मा शुचः पुरुषव्याघ्र पूर्वैर एष सनातनः धर्मकृद्भिः कृतॊ धर्मः कषत्रियाणां रणे कषयः ॥ 67 ॥
इमे ते भरातरः सर्वे दीना भरतसत्तम तवयि शॊकसमाविष्टे नृपाश च सुहृदस तव ॥ 68 ॥
एतांस तवं वचसा साम्ना समाश्वासय मानद विदितं वेदितव्यं ते न शॊकं कर्तुम अर्हसि ॥ 69 ॥
एवम आश्वासितः पार्थः कृष्णेनाद्भुत कर्मणा ततॊ ऽबरवीत तदा भरातॄन सर्वान पार्थः सगद्गदान ॥ 70 ॥
स दीर्घबाहुः पृथ्व अंसॊ दीर्घराजीव लॊचनः अभिमन्युर यथावृत्तः शरॊतुम इच्छाम्य अहं तथा ॥ 71 ॥
स नागस्यन्दनहयान दरक्ष्यध्वं निहतान मया संग्रामे सानुबन्धांस तान मम पुत्रस्य वैरिणः ॥ 72 ॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम सौभद्रॊ निधनं गच्छेद वज्रिणापि समागतः ॥ 73 ॥
यद्य एवम अहम अज्ञास्यम अशक्तान रक्षणे मम पुत्रस्य पाण्डुपाञ्चालान मया गुप्तॊ भवेत ततः ॥ 74 ॥
कथं च वॊ रथस्थानां शरवर्षाणि मुञ्चताम नीतॊ ऽभिमन्युर निधनं कदर्थी कृत्यवः परैः ॥ 75 ॥
अहॊ वः पौरुषं नास्ति न च वॊ ऽसति पराक्रमः यत्राभिमन्युः समरे पश्यतां वॊ निपातितः ॥ 76 ॥
आत्मानम एव गर्हेयं यद अहं वः सुदुर्बलान युष्मान आज्ञाय निर्यातॊ भीरून अकृतनिश्रमान ॥ 77 ॥
आहॊ सविद भूषणार्थाय वर्म शस्त्रायुधानि वः वाचश च वक्तुं संसत्सु मम पुत्रम अरक्षताम ॥ 78 ॥
एवम उक्त्वा ततॊ वाक्यं तिष्ठंश चापवरासिमान न समाशक्यत बीभत्सुः केन चित परसमीक्षितुम ॥ 79 ॥
तम अन्तकम इव करुद्धं निःश्वसन्तं मुहुर मुहुः पुत्रशॊकाभिसंतप्तम अश्रुपूर्णमुखं तदा ॥ 80 ॥
नाभिभाष्टुं शक्नुवन्ति दरष्टुं वा सुहृदॊ ऽरजुनम अन्यत्र वासुदेवाद वा जयेष्टाद वा पाण्डुनन्दनात ॥ 81 ॥
सर्वास्व अवस्थासु हिताव अर्जुनस्य मनॊऽनुगौ बहुमानात परियत्वाच च ताव एनं वक्तुम अर्हतः ॥ 82 ॥
ततस तं पुत्रशॊकेन भृशं पीडित मानसम राजीवलॊचनं करुद्धं राजा वचनम अब्रवीत ॥ 83 ॥
द्रोणपर्व · Drona Parva
अध्याय 50
Reach this point to mark the section finished.
Continue to अध्याय 51