धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 49

  1. [स] तस्मिंस तु निहते वीरे सौभद्रे रथयूथपे विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ॥ 1 ॥

  2. उपॊपविष्टा राजानं परिवार्य युधिष्ठिरम तद एव दुःखं धयायन्तः सौभद्र गतमानसाः ॥ 2 ॥

  3. ततॊ युधिष्ठिरॊ राजा विललाप सुदुःखितः अभिमन्यौ हते वीरे भरातुः पुत्रे महारथे ॥ 3 ॥

  4. दरॊणानीकम असंबाधं मम परियचिकीर्षया भित्त्वा वयूहं परविष्टॊ ऽसौ गॊमध्यम इव केसरी ॥ 4 ॥

  5. यस्य शूरा महेष्वासाः परत्यनीक गता रणे परभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ 5 ॥

  6. अत्यन्तशत्रुर अस्माकं येन दुःशासनः शरैः कषिप्रं हय अभिमुखः संक्ये विसंज्ञॊ विमुखीकृतः ॥ 6 ॥

  7. स तीर्त्वा दुस्तरं वीरॊ दरॊणानीक महार्णवम पराप्य दौःशासनिं कार्ष्णिर यातॊ वैवस्वतक्षयम ॥ 7 ॥

  8. कथं दरक्ष्यामि कौन्तेयं सौभद्रे निहते ऽरजुनम सुभद्रां वा महाभागां परियं पुत्रम अपश्यतीम ॥ 8 ॥

  9. किं सविद वयम अपेतार्थम अश्लिष्टम असमञ्जसम ताव उभौ परतिवक्ष्यामॊ हृषीकेश धनंजयौ ॥ 9 ॥

  10. अहम एव सुभद्रायाः केशवार्जुनयॊर अपि परियकामॊ जयाकाङ्क्षी कृतवान इदम अप्रियम ॥ 10 ॥

  11. न लुब्धॊ बुध्यते दॊषान मॊहाल लॊभः परवर्तते मधु पिप्सुर हि नापश्यं परपातम इदम ईदृशम ॥ 11 ॥

  12. यॊ हि भॊज्ये पुरस्कार्यॊ यानेषु शयनेषु च भूषणेषु च सॊ ऽसमाभिर बालॊ युधि पुरस्कृतः ॥ 12 ॥

  13. कथं हि बालस तरुणॊ युद्धानाम अविशारदः सदश्व इव संबाधे विषमे कषेमम अर्हति ॥ 13 ॥

  14. यॊ चेद धि वयम अप्य एनं महीम अनुशयीमहि बीभत्सॊः कॊपदीप्तस्य दग्धाः कृपण चक्षुषा ॥ 14 ॥

  15. अलुब्धॊ मतिमान हरीमान कषमावान रूपवान बली वपुष्मान मानकृद वीरः परियः सत्यपरायणः ॥ 15 ॥

  16. यस्य शलाघन्ति विबुधाः कर्माण्य ऊर्जितकर्मणः निवातकवचाञ जघ्ने कालकेयांश च वीर्यवान ॥ 16 ॥

  17. महेन्द्रशत्रवॊ येन हिरण्यपुरवासिनः अक्ष्णॊर निमेष मात्रेण पौलॊमाः सगणा हताः ॥ 17 ॥

  18. परेभ्यॊ ऽपय अभयार्थिभ्यॊ यॊ ददात्य अभयं विभुः तस्यास्माभिर न शकितस तरातुम अद्यात्मजॊ भयात ॥ 18 ॥

  19. भयं तु सुमहत पराप्तं धार्तराष्ट्रं महद बलम पार्थः पुत्रवधात करुद्धः कौरवाञ शॊषयिष्यति ॥ 19 ॥

  20. कषुद्रः कषुद्रसहायश च सवपक्ष कषयम आतुरः वयक्तं दुर्यॊधनॊ दृष्ट्वा शॊचन हास्यति जीवितम ॥ 20 ॥

  21. न मे जयः परीतिकरॊ न राज्यं; न चामरत्वं न सुरैः स लॊकता इमं समीक्ष्याप्रतिवीर्य पौरुषं; निपातितं देववरात्मजात्मजम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 50

Previous: अध्याय 48