धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 48

  1. [स] विष्णॊः सवसानन्दि करः स विष्ण्वायुध भीषितः रराजातिरथः संख्ये जनार्दन इवापरः ॥ 1 ॥

  2. मारुतॊद्धूत केशान्तम उद्यतारि वरायुधम वपुः समीक्ष्य पृथ्व ईशा दुःसमीक्ष्यं सुरैर अपि ॥ 2 ॥

  3. तच चक्रं भृशम उद्विग्नाः संचिच्छिदुर अनेकधा महारथस ततः कार्ष्णिः संजग्राह महागदाम ॥ 3 ॥

  4. विधनुः सयन्दनासिस तैर विचक्रश चारिभिः कृतः अभिमन्युर गदापाणिर अश्वत्थामानम आद्रवत ॥ 4 ॥

  5. सगदाम उद्यतां दृष्ट्वा जवलन्तीम अशनीम इव अपाक्रामद रथॊपस्थाद विक्रमांस तरीन नरर्षभः ॥ 5 ॥

  6. तस्याश्वान गदया हत्वा तथॊभौ पार्ष्णिसारथी शराचिताङ्गः सौभद्रः शवाविद्वत परत्यदृश्यत ॥ 6 ॥

  7. ततः सुबल दायादं कालकेयम अपॊथयत जघान चास्यानुचरान गान्धारान सप्त सप्ततिम ॥ 7 ॥

  8. पुनर बरह्म वसातीयाञ जघान रथिनॊ दश केकयानां रथान सप्त हत्वा च दश कुञ्जरान दौःशासनि रथं साश्वं गदया समपॊथयत ॥ 8 ॥

  9. ततॊ दौःशासनिः करुद्धॊ गदाम उद्यम्य मारिष अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत ॥ 9 ॥

  10. ताव उद्यतगदौ वीराव अन्यॊन्यवधकाङ्क्षिणौ भरातृव्यौ संप्रजह्राते पुरेव तर्यम्बकान्तकौ ॥ 10 ॥

  11. ताव अन्यॊन्यं गदाग्राभ्यां संहत्य पतितौ कषितौ इन्द्रध्वजाव इवॊत्सृष्टौ रणमध्ये परंतपौ ॥ 11 ॥

  12. दौःशासनिर अथॊत्थाय कुरूणां कीर्तिवर्धनः परॊत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्य अताडयत ॥ 12 ॥

  13. गदा वेगेन महता वयायामेन च मॊहितः विचेता नयपतद भूमौ सौभद्रः परवीरहा एवं विनिहतॊ राजन्न एकॊ बहुभिर आहवे ॥ 13 ॥

  14. कषॊभयित्वा चमूं सर्वां नलिनीम इव कुञ्जरः अशॊभत हतॊ वीरॊ वयाधैर वनगजॊ यथा ॥ 14 ॥

  15. तंतथा पतितं शूरं तावकाः पर्यवारयन दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥ 15 ॥

  16. विमृद्य तरुशृङ्गाणि संनिवृत्तम इवानिलम अस्तं गतम इवादित्यं तप्त्वा भारत वाहिनीम ॥ 16 ॥

  17. उपप्लुतं यथा सॊमं संशुष्कम इव सागरम पूर्णचन्द्राभवदनं काकपक्ष वृताक्षकम ॥ 17 ॥

  18. तं भूमौ पतितं दृष्ट्वा तावकास ते महारथाः मुदा परमया युक्ताश चुक्रुशुः सिंहवन मुहुः ॥ 18 ॥

  19. आसीत परमकॊ हर्षस तावकानां विशां पते इतरेषां तु वीराणां नेत्रेभ्यः परापतज जलम ॥ 19 ॥

  20. अभिक्रॊशन्ति भूतानि अन्तरिक्षे विशां पते दृष्ट्वा निपतितं वीरं चयुतं चन्द्रम इवाम्बरात ॥ 20 ॥

  21. दरॊणकर्णमुखैः षड्भिर धार्तराष्ट्रैर महारथैः एकॊ ऽयं निहतः शेते नैष धर्मॊ मतॊ हि नः ॥ 21 ॥

  22. तस्मिंस तु निहते वीरे बह्व अशॊभत मेदिनी दयौर यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ 22 ॥

  23. रुक्मपुङ्खैश च संपूर्णा रुधिरौघपरिप्लुता उत्तमाङ्गैश च वीराणां भराजमानैः सकुण्डलैः ॥ 23 ॥

  24. विचित्रैश च परिस्तॊमैः पताकाभिश च संवृता चामरैश च कुथाभिश च परविद्धैश चाम्बरॊत्तमैः ॥ 24 ॥

  25. रथाश्वनरनागानामालंकारैश च सुप्रभैः खड्गैश च निशितैः पीतैर निर्मुक्तैर भुजगैर इव ॥ 25 ॥

  26. चापैश च विशिखैश छिन्नैः शक्त्यृष्टि परासकम्पनैः विविधैर आयुधैश चान्यैः संवृता भूर अशॊभत ॥ 26 ॥

  27. वाजिभिश चापि निर्जीवैः सवपद्भिः शॊणितॊक्षितैः सारॊहैर विषमा भूमिः सौभद्रेण निपातितैः ॥ 27 ॥

  28. साङ्कुशैः स महामात्रैः स वर्मायुधकेतुभिः पर्वतैर इव विध्वस्तैर विशिखॊन्मथितैर गजैः ॥ 28 ॥

  29. पृथिव्याम अनुकीर्णैश च वयश्व सारथियॊधिभिः हरदैर इव परक्षुभितैर हतनागै रथॊत्तमैः ॥ 29 ॥

  30. पदातिसंघैश च हतैर विविधायुधभूषणैः भीरूणां तरासजननी घॊररूपाभवन मही ॥ 30 ॥

  31. तं दृष्ट्वा पतितं भूमै चन्द्रार्कसदृशद्युतिम तावकानां परा परीतिः पाण्डूनां चाभवद वयथा ॥ 31 ॥

  32. अभिमन्यौ हते राजञ शिशुके ऽपराप्तयौवने संप्राद्रवच चमूः सर्वा धर्मराजस्य पश्यतः ॥ 32 ॥

  33. दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते अजातशत्रुः सवान वीरान इदं वचनम अब्रवीत ॥ 33 ॥

  34. सवर्गम एष गतः शूरॊ यॊ हतॊ न पराङ्मुखः संस्तम्भयत मा भैष्ट विजेष्यामॊ रणे रिपून ॥ 34 ॥

  35. इत्य एवं स महातेजा दुःखितेभ्यॊ महाद्युतिः धर्मराजॊ युधां शरेष्ठॊ बरुवन दुःखम अपानुदत ॥ 35 ॥

  36. युद्धे हय आशीविषाकारान राजपुत्रान रणे बहून पूर्वं निहत्य संग्रामे पश्चाद आर्जुनिर अन्वगात ॥ 36 ॥

  37. हत्वा दशसहस्राणि कौसल्यं च महारथम कृष्णार्जुन समः कार्ष्णिः शक्र सद्म गतॊ धरुवम ॥ 37 ॥

  38. रथाश्वनरमातङ्गान विनिहत्य सहस्रशः अवतृप्तः स संग्रामाद अशॊच्यः पुण्यकर्मकृत ॥ 38 ॥

  39. वयं तु परवरं हत्वा तेषां तैः शरपीडिताः निवेशायाभ्युपायाम सायाह्ने रुधिरॊक्षिताः ॥ 39 ॥

  40. निरीक्षमाणास तु वयं परे चायॊधनं शनैः अपयाता महाराज गलानिं पराप्ता विचेतसः ॥ 40 ॥

  41. ततॊ निशाया दिवसस्य चाशिवः; शिवा रुतः संधिर अवर्तताद्भुतः कुशेशयापीड निभे दिवाकरे; विलम्बमाने ऽसतम उपेत्य पर्वतम ॥ 41 ॥

  42. वरासि शक्त्यृष्टि वरूथ चर्मणां; विभूषणानां च समाक्षिपन परभाम दिवं च भूमिं च समानयन्न इव; परियां तनुं भानुर उपैति पावकम ॥ 42 ॥

  43. महाभ्रकूटाचलशृङ्गसंनिभैर; गजैर अनेकैर इव वज्रपातितैः स वैजयन्त्य अङ्कुश वर्म यन्तृभिर; निपातितैर निष्टनतीव गौश चिता ॥ 43 ॥

  44. हतेश्वरैश चूर्णित पत्त्युपस्करैर; हताश्वसूतैर विपताक केतुभिः महारथैर भूः शुशुभे विचूर्णितैः; पुरैर इवामित्र हतैर नराधिप ॥ 44 ॥

  45. रथाश्ववृन्दैः सह सादिभिर हतैः; परविद्ध भाण्डाभरणैः पृथग्विधैः निरस्तजिह्वा दशनान्त्र लॊचनैर; धरा बभौ घॊरविरूप दर्शना ॥ 45 ॥

  46. परविद्ध वर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः महार्हशय्यास्तरणॊचिताः सदा; कषिताव अनाथा इव शेरते हताः ॥ 46 ॥

  47. अतीव हृष्टाः शवसृगाल वायसा; बडाः सुपर्णाश च वृकास तरक्षवः वयांस्य असृक्पान्य अथ रक्षसां गणाः; पिशाचसंघाश च सुदारुणा रणे ॥ 47 ॥

  48. तवचॊ विनिर्भिद्य पिबन वसाम असृक; तथैव मज्जां पिशितानि चाश्नुवन वपां विलुम्पन्ति हसन्ति गान्ति च; परकर्षमाणाः कुणपान्य अनेकशः ॥ 48 ॥

  49. शरीरसंघाट वहा असृग जला; रथॊडुपा कुञ्जरशैलसंकटा मनुष्यशीर्षॊपल मांसकर्दमा; परविद्ध नानाविध शस्त्रमालिनी ॥ 49 ॥

  50. महाभया वैतरणीव दुस्तरा; परवर्तिता यॊधवरैस तदा नदी उवाह मध्येन रणाजिरं भृशं; भयावहा जीव मृतप्रवाहिनी ॥ 50 ॥

  51. पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः सुनन्दिताः पराणभृतां भयंकराः; समानभक्षाः शवसृगाल पक्षिणः ॥ 51 ॥

  52. तथा तद आयॊधनम उग्रदर्शनं; निशामुखे पितृपतिराष्ट्र संनिभम निरीक्षमाणाः शनकैर जहुर नराः; समुत्थितारुण्ड कुलॊपसंकुलम ॥ 52 ॥

  53. अपेतविध्वस्तमहार्ह भूषणं; निपातितं शक्रसमं महारथम रणे ऽभिमन्युं ददृशुस तदा जना; वयपॊढ हव्यं सदसीव पावकम ॥ 53 ॥

Reach this point to mark the section finished.

Continue to अध्याय 49

Previous: अध्याय 47