[स] स कर्णं कर्णिना कर्णे पुनर विव्याध फाल्गुनिः शरैः पञ्चाशता चैनम अविध्यत कॊपयन भृशम ॥ 1 ॥
परतिविव्याध राधेयस तावद्भिर अथ तं पुनः स तैर आचितसर्वाङ्गॊ बह्व अशॊभत भारत ॥ 2 ॥
कर्णं चाप्य अकरॊत करुद्धॊ रुधिरॊत्पीड वाहिनम कर्णॊ ऽपि विबभौ शूरः शरैश चित्रॊ ऽसृग आप्लुतः ॥ 3 ॥
ताव उभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ बभूवतुर महात्मानौ पुष्पिताव इव किंशुकौ ॥ 4 ॥
अथ कर्णस्य सचिवान षट शूरांश चित्रयॊधिनः साश्वसूत धवजरथान सौभद्रॊ निजघान ह ॥ 5 ॥
अथेतरान महेष्वासान दशभिर दशभिः शरैः परत्यविध्यद असंभ्रान्तस तद अद्भुतम इवाभवत ॥ 6 ॥
मागधस्य पुनः पुत्रं हत्वा षड्भिर अजिह्मगैः साश्वं ससूतं तरुणम अश्वकेतुम अपातयत ॥ 7 ॥
मार्तिकावतकं भॊजं ततः कुञ्जरकेतनम कषुरप्रेण समुन्मथ्य ननाद विसृजञ शरान ॥ 8 ॥
तस्य दौःशासनिर विद्ध्वा चतुर्भिश चतुरॊ हयान सूतम एकेन विव्याध दशभिश चार्जुनात्मजम ॥ 9 ॥
ततॊ दौःशासनिं कार्ष्णिर विद्ध्वा सप्तभिर आशुगैः संरम्भाद रक्तनयनॊ वाक्यम उच्चैर अथाब्रवीत ॥ 10 ॥
पिता तवाहवं तयक्त्वा गतः कापुरुषॊ यथा दिष्ट्या तवम अपि जानीषे यॊद्धुं न तव अद्य मॊक्ष्यसे ॥ 11 ॥
एतावद उक्त्वा वचनं कर्मार परिमार्जितम नाराचं विससर्जास्मै तं दरौणिस तरिभिर आच्छिनत ॥ 12 ॥
तस्यार्जुनिर धवजं छित्त्वा शल्यं तरिभिर अताडयत तं शल्यॊ नवभिर बाणैर गार्ध्रपत्रैर अताडयत ॥ 13 ॥
तस्यार्जुनिर धवजं छित्त्वा उभौ च पार्ष्णिसारथी तं विव्याधायसैः षड्भिः सॊ ऽपक्रामद रथान्तरम ॥ 14 ॥
शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम सूर्यभासं च पञ्चैतान हत्वा विव्याध सौबलम ॥ 15 ॥
तं सौबलस तरिभिर विद्ध्वा दुर्यॊधनम अथाब्रवीत सर्व एनं परमथ्नीमः पुरैकैकं हिनस्ति नः ॥ 16 ॥
अथाब्रवीत तदा दरॊणं कर्णॊ वैकर्तनॊ वृषा पुरा सर्वान परमथ्नाति बरूह्य अस्य वधम आशु नः ॥ 17 ॥
ततॊ दरॊणॊ महेष्वासः सर्वांस तान परत्यभाषत अस्तॊ वॊ ऽसयान्तरं कश चित कुमारस्य परपश्यति ॥ 18 ॥
अन्व अस्य पितरं हय अद्य चरतः सर्वतॊदिशम शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥ 19 ॥
धनुर्मण्डलम एवास्य रथमार्गेषु दृश्यते संदधानस्य विशिखाञ शीघ्रं चैव विमुञ्चतः ॥ 20 ॥
आरुजन्न इव मे पराणान मॊहयन्न अपि सायकैः परहर्षयति मा भूयः सौभद्रः परवीरहा ॥ 21 ॥
अति मा नन्दयत्य एष सौभद्रॊ विचरन रणे अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥ 22 ॥
अस्यतॊ लघुहस्तस्य दिशः सर्वा महेषुभिः न विशेषं परपश्यामि रणे गाण्डीवधन्वनः ॥ 23 ॥
अथ कर्णः पुनर दरॊणम आहार्जुनिशरार्दितः सथातव्यम इति तिष्ठामि पीड्यमानॊ ऽभिमन्युना ॥ 24 ॥
तेजस्विनः कुमारस्य शराः परमदारुणाः कषिण्वन्ति हृदयं मे ऽदय घॊराः पावकतेजसः ॥ 25 ॥
तम आचार्यॊ ऽबरवीत कर्णं शनकैः परहसन्न इव अभेद्यम अस्य कवचं युवा चाशु पराक्रमः ॥ 26 ॥
उपदिष्टा मया अस्य पितुः कवचधारणा ताम एष निखिलां वेत्ति धरुवं परपुरंजयः ॥ 27 ॥
शक्यं तव अस्य धनुश छेत्तुं जयां च बाणैः समाहितैः अभीशवॊ हयाश चैव तथॊभौ पार्ष्णिसारथी ॥ 28 ॥
एतत कुरु महेष्वास राधेय यदि शक्यते अथैनं विमुखीकृत्य पश्चात परहरणं कुरु ॥ 29 ॥
सधनुष्कॊ न शक्यॊ ऽयम अपि जेतुं सुरासुरैः विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥ 30 ॥
तद आचार्यवचः शरुत्वा कर्णॊ वैकर्तनस तवरन अस्यतॊ लघुहस्तस्य पृषत्कैर धनुर आच्छिनत ॥ 31 ॥
अश्वान अस्यावधीद भॊजॊ गौतमः पार्ष्णिसारथी शेषास तु छिन्नधन्वानं शरवर्षैर अवाकिरन ॥ 32 ॥
तवरमाणास तवरा काले विरथं षण महारथाः शरवर्षैर अकरुणा बालम एकम अवाकिरन ॥ 33 ॥
स छिन्नधन्वा विरथः सवधर्मम अनुपालयन खड्गचर्म धरः शरीमान उत्पपात विहायसम ॥ 34 ॥
मार्गैः स कैशिकाद्यैश च लाघवेन बलेन च आर्जुनिर वयचरद वयॊम्नि भृशं वै पक्षिराड इव ॥ 35 ॥
मय्य एव निपतत्य एष सासिर इत्य ऊर्ध्वदृष्टयः विव्यधुस तं महेष्वासाः समरे छिद्रदर्शिनः ॥ 36 ॥
तस्य दरॊणॊ ऽछिनन मुष्टौ खड्गं मणिमय तसरुम राधेयॊ निशितैर बाणैर वयधमच चर्म चॊत्तमम ॥ 37 ॥
वयसि चर्मेषु पूर्णाङ्गः सॊ ऽनतरिक्षात पुनः कषितिम आस्थितश चक्रम उद्यम्य दरॊणं करुद्धॊ ऽभयधावत ॥ 38 ॥
सचक्ररेणूज्ज्वल शॊभिताङ्गॊ; बभावति इवॊन्नत चक्रपाणिः रणे ऽभिमन्युः कषणदा सुभद्रः; स वासुभद्रानुकृतिं परकुर्वन ॥ 39 ॥
सरुत रुधिरकृतैक रागवक्त्रॊ; भरुकुटि पुटाकुटिलॊ ऽतिसिंह नादः परभुर अमितबलॊ रणे ऽभिमन्युर; नृप वरमध्य गतॊ भृशं वयराजत ॥ 40 ॥
द्रोणपर्व · Drona Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 48