धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 46

  1. [धृ] तथा परविष्टं तरुणं सौभद्रम अपराजितम कुलानुरूपं कुर्वाणं संग्रामेष्व अपलायिनम ॥ 1 ॥

  2. आजनेयैः सुबलिभिर युक्तम अश्वैस तरिहायनैः पलवमानम इवाकाशे के शूराः समवारयन ॥ 2 ॥

  3. [स] अभिमन्युः परविश्यैव तावकान निशितैः शरैः अकरॊद विमुखान सर्वान पार्थिवान पाण्डुनन्दनः ॥ 3 ॥

  4. तं तु दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः कृतवर्मा च हार्दिक्यः षड रथाः पर्यवारयन ॥ 4 ॥

  5. दृष्ट्वा तु सैन्धवे भारम अतिमात्रं समाहितम सैन्यं तव महाराज युधिष्ठिरम उपाद्रवत ॥ 5 ॥

  6. सौभद्रम इतरे वीरम अभ्यवर्षञ शराम्बुभिः तालमात्राणि चापानि विकर्षन्तॊ महारथाः ॥ 6 ॥

  7. तांस तु सर्वान महेष्वासान सर्वविद्यासु निष्ठितान वयष्टम्भयद रणे बाणैः सौभद्रः परवीरहा ॥ 7 ॥

  8. दरॊणं परञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ 8 ॥

  9. रुक्मपुङ्खैर महावेगैर आकर्णसमचॊदितैः अविध्यद दशभिर बाणैर अश्वत्थामानम आर्जुनिः ॥ 9 ॥

  10. स कर्णं कर्णिना कर्णे पीतेन निशितेन च फाल्गुनिर दविषतां मध्ये विव्याध परमेषुणा ॥ 10 ॥

  11. पातयित्वा कृपस्याश्वांस तथॊभौ पार्ष्णिसारथी अथैनं दशभिर बाणैः परत्यविध्यत सतनान्तरे ॥ 11 ॥

  12. ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम पुत्राणां तव वीराणां पश्यताम अवधीद बली ॥ 12 ॥

  13. तं दरौणिः पञ्चविंशत्या कषुद्रकाणां समर्पयत वरं वरम अमित्राणाम आरुजन्तम अभीतवत ॥ 13 ॥

  14. स तु बाणैः शितैस तूर्णं परत्यविध्यत मारिष पश्यतां धार्तराष्ट्राणाम अश्वत्थामानम आर्जुनिः ॥ 14 ॥

  15. षष्ट्या शराणां तं दरौणिस तिग्मधारैः सुतेजनैः उग्रैर नाकम्पयद विद्ध्वा मैनाकम इव पर्वतम ॥ 15 ॥

  16. स तु दरौणिं तरिसप्तत्या हेमपुङ्खैर अजिह्मगैः परत्यविध्यन महातेजा बलवान अपकारिणम ॥ 16 ॥

  17. तस्मिन दरॊणॊ बाणशतं पुत्रगृद्धी नयपातयत अश्वत्थामा तथाष्टौ च परीप्सन पितरं रणे ॥ 17 ॥

  18. कर्णॊ दवाविंशतिं भल्लान कृतवर्मा चतुर्दश बृहद्बलस तु पञ्चाशत कृपः शारद्वतॊ दश ॥ 18 ॥

  19. तांस तु परत्यवधीत सर्वान दशभिर दशभिः शरैः तैर अर्द्यमानः सौभद्रः सर्वतॊ निशितैः शरैः ॥ 19 ॥

  20. तं कॊसलानाम अधिपः कर्णिनाताडयद धृदि स तस्याश्वान धवजं चापं सूतं चापातयत कषितौ ॥ 20 ॥

  21. अथ कॊसल राजस तु विरथः खड्गचर्मधृत इयेष फाल्गुनेः कायाच छिरॊ हर्तुं सकुण्डलम ॥ 21 ॥

  22. स कॊसलानां भर्तारं राजपुत्रं बृहद्बलम हृदि विव्याध बाणेन स भिन्नहृदयॊ ऽपतत ॥ 22 ॥

  23. बभञ्ज च सहस्राणि दश राजन महात्मनाम सृजताम अशिवा वाचः खड्गकार्मुकधारिणाम ॥ 23 ॥

  24. तथा बृहद्बलं हत्वा सौभद्रॊ वयचरद रणे विष्टम्भयन महेष्वासान यॊधांस तव शराम्बुभिः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 47

Previous: अध्याय 45