धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 43

  1. [स] सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु सुघॊरम अभवद युद्धं तवदीयानां परिः सह ॥ 1 ॥

  2. परविश्य तव आर्जुनिः सेनां सत्यसंधॊ दुरासदाम वयक्षॊभयत तेजस्वी मकरः सागरं यथा ॥ 2 ॥

  3. तं तथा शरवर्षेण कषॊभयन्तम अरिंदमम यथा परधानाः सौभद्रम अभ्ययुः कुरुसत्तमाः ॥ 3 ॥

  4. तेषां तस्य च सं मर्दॊ दारुणः समपद्यत सृजतां शरवर्णानि परसक्तम अमितौजसाम ॥ 4 ॥

  5. रथव्रजेन संरुद्धस तैर अमित्रैर अथार्जुनिः वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम ॥ 5 ॥

  6. तस्य विव्याध बलवाञ शरैर अश्वान अजिह्मगैः वातायमानैर अथ तैर अश्वैर अपहृतॊ रणात ॥ 6 ॥

  7. तेनान्तरेणाभिमन्यॊर यनापासारयद रथम रथव्रजास ततॊ हृष्टाः साधु साध्व इति चुक्रुशुः ॥ 7 ॥

  8. तं सिंहम इव संक्रुद्धं परमथ्नन्तं शरैर अरीन आराद आयान्तम अभ्येत्य वसातीयॊ ऽभययाद दरुतम ॥ 8 ॥

  9. सॊ ऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैर अवाकिरत अब्रवीच च न मे जीवञ जीवतॊ युधि मॊक्ष्यसे ॥ 9 ॥

  10. तम अयस्मय वर्माणम इषुणा आशु पातिना विव्याध हृदि सौभद्रः स पपात वयसुः कषितौ ॥ 10 ॥

  11. वसात्यं निहतं दृष्ट्वा करुद्धाः कषत्रियपुंगवाः परिवव्रुस तदा राजंस तव पौत्रं जिघांसवः ॥ 11 ॥

  12. विस्फारयन्तश चापानि नानारूपाण्य अनेकशः तद युद्धम अभवद रौद्रं सौभद्रस्यारिभिः सह ॥ 12 ॥

  13. तेषां शरान सेष्व असनाञ शरीराणि शिरांसि च सकुण्डलानि सरग्वीणि करुद्धश चिच्छेद फाल्गुनिः ॥ 13 ॥

  14. स खड्गाः साङ्गुलि तराणाः स पट्टिशपरश्वधाः अदृश्यन्त भुजाश छिन्ना हेमाभरणभूषिताः ॥ 14 ॥

  15. सरग्भिर आभरणैर वस्त्रैः पतितैश च महाध्वजैः वर्मभिश चर्मभिर हारैर मुकुटैश छत्रचामरैः ॥ 15 ॥

  16. अपस्करैर अधिष्ठानैर ईषादण्ड कबन्धुरैः अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा युगैः ॥ 16 ॥

  17. अनुकर्षैः पताकाभिस तथा सारथिवाजिभिः रथैश च भग्नैर नागैश च हतैः कीर्णाभवन मही ॥ 17 ॥

  18. निहतैः कषत्रियैः शूरैर नानाजनपदेश्वरैः जय गृद्धैर वृता भूमिर दारुणा समपद्यत ॥ 18 ॥

  19. दिशॊ विचरतस तस्य सर्वाश च परदिशस तथा रणे ऽभिमन्यॊः करुद्धस्य रूपम अन्तरधीयत ॥ 19 ॥

  20. काञ्चनं यद यद अस्यासीद वर्म चाभरणानि च धनुषश च शराणां च तद अपश्याम केवलम ॥ 20 ॥

  21. तं तदा नाशकत कश चिच चक्षुर्भ्याम अभिवीक्षितुम आददानं शरैर यॊधान मध्ये सूर्यम इव सथितम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42