[स] आददानस तु शूराणाम आयूंष्य अभवद आर्जुनिः अन्तकः सर्वभूतानां पराणान काल इवागते ॥ 1 ॥
स शक्र इव विक्रान्तः शक्रसूनॊः सुतॊ बली अभिमन्युस तदानीकं लॊडयन बह्व अशॊभत ॥ 2 ॥
परविश्यैव तु राजेन्द्र कषत्रियेन्द्रान्तकॊपमः सत्यश्रवसम आदत्त वयाघ्रॊ मृगम इवॊल्बणम ॥ 3 ॥
सत्यश्रवसि चाक्षिप्ते तवरमाणा महारथाः परगृह्य विपुलं शस्त्रम अभिमन्युम उपाद्रवन ॥ 4 ॥
अहं पूर्वम अहं पूर्वम इति कषत्रिय पुंगवाः सपर्धमानाः समाजग्मुर जिघांसन्तॊ ऽरजुनात्मजम ॥ 5 ॥
कषत्रियाणाम अनीकानि परद्रुतान्य अभिधावताम जग्रास तिमिर आसाद्य कषुद्रमत्स्यान इवार्णवे ॥ 6 ॥
ये के चन गतास तस्य समीपम अपलायिनः न ते परतिन्यवर्तन्त समुद्राद इव सन्धवः ॥ 7 ॥
महाग्राहगृहीतेव वातवेगभयार्दिता समकम्पत सा सेना विभ्रष्टा नौर इवार्णवे ॥ 8 ॥
अथ रुक्मरथॊ नाम मद्रेश्वर सुतॊ बली तरस्ताम आश्वासयन सेनाम अत्रस्तॊ वाक्यम अब्रवीत ॥ 9 ॥
अलं तरासेन वः शूरा नैष कश चिन मयि सथिते अहम एनं गरहीष्यामि जीवग्राहं न संशयः ॥ 10 ॥
एवम उक्त्वा तु सौभद्रम अभिदुद्राव वीर्यवान सुकल्पितेनॊह्यमानः सयन्दनेन विराजता ॥ 11 ॥
सॊ ऽभिमन्युं तरिभिर बाणैर विद्ध्वा वक्षस्य अथानदत तरिभिश च दक्षिणे बाहौ सव्ये च निशितैस तरिभिः ॥ 12 ॥
स तस्येष्व असनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ भुजौ शिरश च सवक्षिभ्रुक्षितौ कषिप्रम अपातयत ॥ 13 ॥
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ 14 ॥
संग्रामदुर्मदा राजन राजपुत्राः परहारिणः वयस्याः शल्य पुत्रस्य सुवर्णविकृतध्वजाः ॥ 15 ॥
तालमात्राणि चापानि विकर्षन्तॊ महारथाः आर्जुनिं शरवर्षेण समन्तात पर्यवारयन ॥ 16 ॥
शरैः शिक्षा बलॊपेतैस तरुणैर अत्यमर्षणैः दृष्ट्वैकं समरे शूरं सौभद्रम अपराजितम ॥ 17 ॥
छाद्यमानं शरव्रातैर हृष्टॊ दुर्यॊधनॊ ऽभवत वैवस्वतस्य भवनं गतम एनम अमन्यत ॥ 18 ॥
सुवर्णपुङ्खैर इषुभिर नाना लिङ्गैस तरिभिस तरिभिः अदृश्यम आर्जुनिं चक्रुर निमेषात ते नृपात्मजाः ॥ 19 ॥
ससूताश्वध्वजं तस्य सयन्दनं तं च मारिष आचितं समपश्याम शवाविधं शललैर इव ॥ 20 ॥
स गाढविद्धः करुद्धश च तॊत्त्रैर गज इवार्दितः गान्धर्वम अस्त्रम आयच्छद रथमायां च यॊजयत ॥ 21 ॥
अर्जुनेन तपस तप्त्वा गन्धर्वेभ्यॊ यद आहृतम तुम्बुरु परमुखेभ्यॊ वै तेनामॊहयताहितान ॥ 22 ॥
एकः स शतधा राजन दृश्यते सम सहस्रधा अलातचक्रवत संख्ये कषिप्रम अस्त्राणि दर्शयन ॥ 23 ॥
रथचर्यास्त्र मायाभिर मॊहयित्वा परंतपः बिभेद शतधा राजञ शरीराणि महीक्षिताम ॥ 24 ॥
पराणाः पराणभृतां संख्ये परेषिता निशितैः शरैः राजन परापुर अमुं लॊकं शरीराण्य अवनिं ययुः ॥ 25 ॥
धनूंष्य अश्वान नियन्तॄंश च धवजान बाहूंश च साङ्गदान शिरांसि च शितैर भल्लैस तेषां चिच्छेद फाल्गुनिः ॥ 26 ॥
चूतारामॊ यथा भग्नः पञ्चवर्षफलॊपगः राजपुत्र शतं तद्वत सौभद्रेणापतद धतम ॥ 27 ॥
करुद्धाशीविष संकाशान सुकुमारान सुखॊचितान एकेन निहतान दृष्ट्वा भीमॊ दुर्यॊधनॊ ऽभवत ॥ 28 ॥
रथिनः कुञ्जरान अश्वान पदातींश चावमर्दितान दृष्ट्वा दुर्यॊधनः कषिप्रम उपायात तम अमर्षितः ॥ 29 ॥
तयॊः कषणम इवापूर्णः संग्रामः समपद्यत अथाभवत ते विमुखः पुत्रः शरशतार्दितः ॥ 30 ॥
द्रोणपर्व · Drona Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45