[स] यन मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम शृणु तत सर्वम आख्यास्ये यथा पाण्डून अयॊधयत ॥ 1 ॥
तम ऊहुः सारथेर वश्याः सैन्धवाः साधु वाहिनः विकुर्वाणा बृहन्तॊ ऽशवाः शवसनॊपम रंहसः ॥ 2 ॥
गन्धर्वनगराकारं विधिवत कल्पितं रथम तस्याभ्यशॊभयत केतुर वाराहॊ राजतॊ महान ॥ 3 ॥
शवेतच छत्रपताकाभिश चामरव्यजनेन च स बभौ राजलिङ्गैस तैस तारापतिर इवाम्बरे ॥ 4 ॥
मुक्ता वज्रमणिस्वर्णैर भूषितं तद अयस्मयम वरूथं विबभौ तस्य जयॊतिर्भिः खम इवावृतम ॥ 5 ॥
स विस्फार्य महच चापं किरन्न इषुगुणान बहून तत खण्डं पूरयाम आस यद वयादरयद आर्जुनिः ॥ 6 ॥
स सात्यकिं तरिभिर बाणैर अष्टभिश च वृकॊदरम धृष्टद्युमनं तथा षष्ट्या विराटं दशभिः शरैः ॥ 7 ॥
दरुपदं पञ्चभिस तीक्ष्णैर दशभिश च शिखण्डिनम केकयान पञ्चविंशत्या दरौपदेयांस तरिभिस तरिभिः ॥ 8 ॥
युधिष्ठिरं च सप्तत्या ततः शेनान अपानुदत इषुजालेन महता तद अद्भुतम इवाभवत ॥ 9 ॥
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम चिच्छेद परहसन राजा धर्मपुत्रः परतापवान ॥ 10 ॥
अक्ष्णॊर निमेष मात्रेण सॊ ऽनयद आदाय कार्मुकम विव्याध दशभिः पार्थ तांश चैवान्यांस तरिभिस तरिभिः ॥ 11 ॥
तस्य तल लाघवं जञात्वा भीमॊ भल्लैस तरिभिः पुनः धनुर धवजं च छत्रं च कषितौ कषिप्तम अपातयत ॥ 12 ॥
सॊ ऽनयद आदाय बलवान सज्यं कृत्वा च कार्मुकम भीमस्यापॊथयत केतुं धनुर अश्वांश च मारिष ॥ 13 ॥
स हताश्वाद अवप्लुत्य छिन्नधन्वा रथॊत्तमात सात्यकेर आप्लुतॊ यानं गिर्यग्रम इव केसरी ॥ 14 ॥
ततस तवदीयाः संहृष्टाः साधु साध्व इति चुक्रुशुः सिन्धुराजस्य तत कर्म परेक्ष्याश्रद्धेयम उत्तमम ॥ 15 ॥
संक्रुद्धान पाण्डवान एकॊ यद दधारास्त्र तेजसा तत तस्य कर्म भूतानि सर्वाण्य एवाभ्यपूजयन ॥ 16 ॥
सौभद्रेण हतैः पूर्वं सॊत्तरायुधिभिर दविपैः पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ 17 ॥
यतमानास तु ते वीरा मत्स्यपाञ्चाल केकयाः पाण्डवाश चान्वपद्यन्त परत्यैकश्येन सैन्धवम ॥ 18 ॥
यॊ यॊ हि यतते भेत्तुं दरॊणानीकं तवाहितः तं तं देववरप्राप्त्या सैन्धवः परत्यवारयत ॥ 19 ॥
द्रोणपर्व · Drona Parva
अध्याय 42
Reach this point to mark the section finished.
Continue to अध्याय 43