[स] तस्य लालप्यतः शरुत्वा वृद्धः कुरुपितामहः देशकालॊचितं वाक्यम अब्रवीत परीतिमानसः ॥ 1 ॥
समुद्र इव सुन्धूनां जयॊतिषाम इव भास्करः सत्यस्य च यथा सन्तॊ बीजानाम इव चॊर्वरा ॥ 2 ॥
पर्जन्य इव भूतानां परतिष्ठा सुहृदां भव बान्धवास तवानुजीवन्तु सहस्राक्षम इवामराः ॥ 3 ॥
सवबाहुबलवीर्येण धार्तराष्ट्र परियैषिणा कर्ण राजपुरं गत्वा काम्पॊजा निहतास तवया ॥ 4 ॥
गिरिव्रज गताश चापि नग्नजित परमुखा नृपाः अम्बष्ठाश च विदेहाश च गान्धाराश च जितास तवया ॥ 5 ॥
हिमवद दुर्ग निलयाः किराता रणकर्कशाः दुर्यॊधनस्य वशगाः कृताः कर्ण तवया पुरा ॥ 6 ॥
तत्र तत्र च संग्रामे दुर्यॊधनहितैषिणा बहवश च जिता वीरास तवया कर्म महौजसा ॥ 7 ॥
यथा दुर्यॊधनस तात स जञातिकुलबान्धवः तथा तवम अपि सर्वेषां कौरवाणां गतिर भव ॥ 8 ॥
शिवेनाभिवदामि तवां गच्छ युध्यस्व शत्रुभिः अनुशाधि कुरून संख्ये धत्स्व दुर्यॊद्नने जयम ॥ 9 ॥
भवान पौत्र समॊ ऽसमाकं यथा दुर्यॊधनस तथा तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥ 10 ॥
यौनात संबन्धकाल लॊके विशिष्टं संगतं सताम सद्भिः सह नरश्रेष्ठ परवदन्ति मनीषिणः ॥ 11 ॥
स सत्यसंगरॊ भूत्वा ममेदम इति निश्चितम कुरूणां पालय बलं यथा दुर्यॊधनस तथा ॥ 12 ॥
इति शरुत्वा वचः सॊ ऽथ चरणाव अभिवाद्य च ययौ वैकर्तनः कर्णस तूर्णम आयॊधनं परति ॥ 13 ॥
सॊ ऽभिवीक्ष्य नरौघाणां सथानम अप्रतिमं महत वयूढप्रहरणॊरस्कं सैन्यं तत समबृंहयत ॥ 14 ॥
कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम कष्वेडितास्फॊटित रवैः सिंहनाद रवैर अपि धनुः शब्दैश च विविधैः कुरवः समपूजयन ॥ 15 ॥
द्रोणपर्व · Drona Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5