धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 5

  1. [स] रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णम अवस्थितम हृष्टॊ दुर्यॊधनॊ राजन्न इदं वचनम अब्रवीत ॥ 1 ॥

  2. स नाथम इदम अत्यर्थं भवता पालितं बलम मन्ये किं तु समर्थं यद धितं तत संप्रधार्यताम ॥ 2 ॥

  3. [क] बरूहि तत पुरुषव्याघ्र तवं हि पराज्ञतमॊ नृप यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ 3 ॥

  4. ते सम सर्वे तव वचः शरॊतुकामा नरेश्वर नान्याय्यं हि भवान वाक्यं बरूयाद इति मतिर मम ॥ 4 ॥

  5. [दुर] भीष्मः सेना परणेतासीद वयसा विक्रमेण च शरुतेन च सुसंपन्नः सर्वैर यॊधगुणैस तथा ॥ 5 ॥

  6. तेनातियशसा कर्ण घनता शत्रुगणान मम सुयुद्धेन दशाहानि पालिताः समॊ महात्मना ॥ 6 ॥

  7. तस्मिन्न असुकरं कर्मकृतवत्य आस्थिते दिवम कं नु सेना परणेतारं मन्यसे तदनन्तरम ॥ 7 ॥

  8. न ऋते नायकं सेना मुहूर्तम अपि तिष्ठति आहवेष्व आहवश्रेष्ठ नेतृहीनेव नौर जले ॥ 8 ॥

  9. यथा हय अकर्णधारा नौ रथश चासारथिर यथा दरवेद यथेष्टं तद्वत सयाद ऋते सेनापतिं बलम ॥ 9 ॥

  10. स भवान वीक्ष्य सर्वेषु मामकेषु महात्मसु पश्य सेनापतिं युक्तम अनु शांतनवाद इह ॥ 10 ॥

  11. यं हि सेना परणेतारं भवान वक्ष्यति संयुगे तं वयं सहिताः सर्वे परकरिष्याम मारिष ॥ 11 ॥

  12. [क] सर्व एव महात्मान इमे पुरुषसत्तमाः सेनापतित्वम अर्हन्ति नात्र कार्या विचारणा ॥ 12 ॥

  13. कुलसंहनन जञानैर बलविक्रम बुद्धिभिः युक्ताः कृतज्ञा हरीमन्त आहवेष्व अनिवर्तिनः ॥ 13 ॥

  14. युगपन न तु ते शक्याः कर्तुं सर्वे पुरःसराः एक एवात्र कर्तव्यं यस्मिन वैशेकिका गुणाः ॥ 14 ॥

  15. अन्यॊन्यस्पर्थिनां तेषां यद्य एकं सत करिष्यसि शेषा विमनसॊ वयक्तं न यॊत्स्यन्ते हि भारत ॥ 15 ॥

  16. अयं तु सर्वयॊधानाम आचार्यः सथविरॊ गुरुः युक्तः सेनापतिः कर्तुं दरॊणः शस्त्रभृतां वरः ॥ 16 ॥

  17. कॊ हि तिष्ठति दुर्धर्षे दरॊणे बरह्मविद उत्तमे सेनापतिः सयाद अन्यॊ ऽसमाच छुक्राङ्गिरस दर्शनात ॥ 17 ॥

  18. न च स हय अस्ति ते यॊधः सर्वराजसु भारत यॊ दरॊणं समरे यान्तं नानुयास्यति संयुगे ॥ 18 ॥

  19. एष सेना परणेतॄणाम एष शस्त्रभृताम अपि एष बुद्धिमतां चैव शरेष्ठॊ राजन गुरुश च ते ॥ 19 ॥

  20. एवं दुर्यॊधनाचार्यम आशु सेनापतिं कुरु जिगीषन्तॊ ऽसुरान संख्ये कार्त्तिकेयम इवामराः ॥ 20 ॥

  21. [स] कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा सेना मध्यगतं दरॊणम इदं वचनम अब्रवीत ॥ 21 ॥

  22. वर्णश्रैष्ठ्यात कुलॊत्पत्त्या शरुतेन वयसा धिया वीर्याद दाक्ष्याद अधृष्यत्वाद अर्थज्ञानान नयाज जयात ॥ 22 ॥

  23. तपसा च कृतज्ञत्वाद वृद्धः सर्वगुणैर अपि युक्तॊ भवत समॊ गॊप्ता राज्ञाम अन्यॊ न विद्यते ॥ 23 ॥

  24. स भवान पातु नः सर्वान विबुधान इव वासवः भवन नेत्राः पराञ जेतुम इच्छामॊ दविजसत्तम ॥ 24 ॥

  25. रुद्राणाम इव कापाली वसूनाम इव पावकः कुबेर इव यक्षाणां मरुताम इव वासवः ॥ 25 ॥

  26. वषिष्ठ इव विप्राणां तेजसाम इव भास्करः पितॄणाम इव धर्मॊ ऽथ आदित्यानाम इवाम्बुराट ॥ 26 ॥

  27. नक्षत्राणाम इव शशी दिजितानाम इवॊशनः शरेष्ठः सेना परणेतॄणां स नः सेनापतिर भव ॥ 27 ॥

  28. अक्षौहिण्यॊ दशैका च वशगाः सन्तु ते ऽनघ ताभिः शत्रून परतिव्यूह्य जहीन्द्रॊ दानवान इव ॥ 28 ॥

  29. परयातु नॊ भवान अग्रे देवानाम इव पावकिः अनुयास्यामहे तव आजौ सौरभेया इवर्षभम ॥ 29 ॥

  30. उग्रधन्वा महेष्वासॊ दिव्यं विस्फारयन धनुः अग्रे भवन्तं दृष्ट्वा नॊ नार्जुहः परसहिष्यते ॥ 30 ॥

  31. धरुवं युधिष्ठिरं संख्ये सानुबन्धं स बान्धवम जेष्यामि पुरुषव्याघ्र भवान सेनापतिर यदि ॥ 31 ॥

  32. एवम उक्ते ततॊ दरॊणे जयेत्य ऊचुर नराधिपाः सिंहनादेन महता हर्षयन्तस तवात्मजम ॥ 32 ॥

  33. सैनिकाश च मुदा युक्ता वर्धयन्ति दविजॊत्तमम दुर्यॊधनं पुरस्कृत्य परार्थयन्तॊ महद यशः ॥ 33 ॥

  34. [दर्न] वेदं षडङ्गं वेदाहम अर्थविद्यां च मानवीम तरैय्य अम्बकम अथेष्व अस्त्रम अस्त्राणि विविधानि च ॥ 34 ॥

  35. ये चाप्य उक्ता मयि गुणा भवद्भिर जयकाङ्क्षिभिः चिकीर्षुर तान अहं सत्यान यॊधयिष्यामि पाण्डवान ॥ 35 ॥

  36. [स] स एवम अभ्यनुज्ञातश चक्रे सेनापतिं ततः दरॊणं तव सुतॊ राजन विधिदृष्ट्तेन कर्मणा ॥ 36 ॥

  37. अथाभिषिषिचुर दरॊणं दुर्यॊधनमुखा नृपाः सेनापत्ये यथा सकन्दं पुरा शक्र मुखाः सुराः ॥ 37 ॥

  38. ततॊ वादित्रघॊषेण सह पुंसां महास्वनैः परादुरासीत कृते दरॊणे हर्षः सेनापतौ तदा ॥ 38 ॥

  39. ततः पुण्याहघॊषेण सवस्ति वादस्वनेन च संस्तवैर गीतशब्दैश च सूतमागधबन्दिनाम ॥ 39 ॥

  40. जयशब्दैर दविजाग्र्याणां सुभगानर्तितैर तथा सत्कृत्य विधिवद दरॊणं जितान मन्यन्त पाण्डवान ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4