धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 3

  1. [स] शरतल्पे महात्मानं शयानम अमितौजसम महावातसमूहेन समुद्रम इव शॊषितम ॥ 1 ॥

  2. दिव्यैर अस्त्रैर महेष्वासं पातितं सव्यसाचिना जयाशां तव पुत्राणां संभग्नां शर्म वर्म च ॥ 2 ॥

  3. अपाराणाम इव दवीपम अगाधे गाधम इच्छताम सरॊतसा यामुनेनेव शरौघेण परिप्लुतम ॥ 3 ॥

  4. महान्तम इव मैनाकम असह्यं भुवि पातितम नभश चयुतम इवादित्यं पतितं धरणीतले ॥ 4 ॥

  5. शतक्रतॊर इवाचिन्त्यं पुरा वृत्रेण निर्जयम मॊहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम ॥ 5 ॥

  6. ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम धनंजय शरव्याप्तं पितरं ते महाव्रतम ॥ 6 ॥

  7. तं वीरशयने वीरं शयानं पुरुषर्षभम भीष्मम आधिरथिर दृष्ट्वा भरतानाम अमध्यमम ॥ 7 ॥

  8. अवतीर्य रथाद अर्तॊ बाष्पव्याकुलिताक्षरम अभिवाद्याञ्जलिं बद्ध्वा वन्दमानॊ ऽभयभाषत ॥ 8 ॥

  9. कर्णॊ ऽहम अस्मि भद्रं ते अद्य मा वद भारत पुण्यया कषेमया वाचा चक्षुषा चावलॊकय ॥ 9 ॥

  10. न नूनं सुकृतस्येह फलं कश चित समश्नुते यत्र धर्मपरॊ वृद्धः शेते भुवि भवान इह ॥ 10 ॥

  11. कॊशसंजनने मन्त्रे वयूह परहरणेषु च नाथम अन्यं न पश्यामि कुरूणां कुरुसत्तम ॥ 11 ॥

  12. बुद्ध्या विशुद्धया युक्तॊ यः कुरूंस तारयेद भयात यॊधांस तवम अप्लवे हित्वा पितृलॊकं गमिष्यसि ॥ 12 ॥

  13. अद्य परभृति संक्रुद्धा वयाघ्रा इव मृगक्षयम पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरु कषयम ॥ 13 ॥

  14. अद्य गाण्डीवघॊषस्य वीर्यज्ञाः सव्यसाचिनः कुरवः संत्रसिष्यन्ति वज्रपाणेर इवासुराः ॥ 14 ॥

  15. अद्य गाण्डीवमुक्तानाम अशनीनाम इव सवनः तरासयिष्यति संग्रामे कुरून अन्यांश च पार्थिवान ॥ 15 ॥

  16. समिद्धॊ ऽगनिर यथा वीर महाज्वालॊ दरुमान दहेत धार्तराष्ट्रान परधक्ष्यन्ति तथा बाणाः किरीटिनः ॥ 16 ॥

  17. येन येन परसरतॊ वाय्वग्नी सहितौ वने तेन तेन परदहतॊ भगवन्तौ यद इच्छतः ॥ 17 ॥

  18. यादृशॊ ऽगनिः समिद्धॊ हि तादृक पार्थॊ न संशयः यथा वायुर नरव्याघ्र तथा कृष्णॊ न संशयः ॥ 18 ॥

  19. नदतः पाञ्चजन्यस्य रसतॊ गाण्डिवस्य च शरुत्वा सर्वाणि सैन्यानि तरासं यास्यन्ति भारत ॥ 19 ॥

  20. कपिध्वजस्य चॊत्पाते रथस्यामित्र कर्शिनः शब्दं सॊढुं न शक्ष्यन्ति तवाम ऋते वीरपार्थिवाः ॥ 20 ॥

  21. कॊ हय अर्जुनं रणे यॊद्धुं तवदन्यः पार्थिवॊ ऽरहति यस्य दिव्यानि कर्माणि परवदन्ति मनीषिणः ॥ 21 ॥

  22. अमानुषश च संग्रामस तर्यम्बकेन च धीमतः तस्माच चैव वरः पराप्तॊ दुष्प्रापश चाकृतात्मभिः ॥ 22 ॥

  23. तम अद्याहं पाण्डवं युद्धशौण्डम; अमृष्यमाणॊ भवतानुशिष्टः आशीविषं दृष्टिहरं सुघॊरम; इयां पुरस्कृत्य वधं जयं वा ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2