धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 39

  1. [स] शरविक्षतगात्रस तु परत्यमित्रम अवस्थितम अभिमन्युः समयन धीमान दुःशासनम अथाब्रवीत ॥ 1 ॥

  2. दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुम आगतम निष्ठुरं तयक्तधर्माणम आक्रॊशनपरायणम ॥ 2 ॥

  3. यत सभायां तवया राज्ञॊ धृतराष्ट्रस्य शृण्वतः कॊपितः परुषैर वाक्यैर धर्मराजॊ युधिष्ठिरः जयॊन्मत्तेन भीमश च बह्वबद्धं परभाषता ॥ 3 ॥

  4. परवित्तापहारस्य करॊधस्याप्रशमस्य च लॊभस्य जञाननाशस्य दरॊहस्यात्याहितस्य च ॥ 4 ॥

  5. पितॄणां मम राज्यस्य हरणस्यॊग्र धन्विनाम तत तवाम इदम अनुप्राप्तं तत कॊपाद वै महात्मनाम ॥ 5 ॥

  6. सद्यश चॊग्रम अधर्मस्य फलं पराफ्नुहि दुर्मते शासितास्म्य अद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥ 6 ॥

  7. अद्याहम अनृणस तस्य कॊपस्य भविता रणे अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥ 7 ॥

  8. अद्य कौरव्य भीमस्य भवितास्म्य अनृणॊ युधि न हि मे मॊक्ष्यसे जीवन यदि नॊत्सृजसे रणम ॥ 8 ॥

  9. एवम उक्त्वा महाबाहुर बाणं दुःशासनान्तकम संदधे परवीरघ्नः कालाग्न्यनिल वर्चसम ॥ 9 ॥

  10. तस्यॊरस तूर्णम आसाद्य जत्रु देशे विभिद्य तम अथैनं पञ्चविंशत्या पुनश चैव समर्पयत ॥ 10 ॥

  11. स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत दुःशासनॊ महाराज कश्मलं चाविशन महत ॥ 11 ॥

  12. सारथिस तवरमाणस तु दुःशासनम अचेतसम रणमध्याद अपॊवाह सौभद्रशरपीडितम ॥ 12 ॥

  13. पाण्डवा दरौपदेयाश च विराटश च समीक्ष्य तम पाञ्चालाः केकयाश चैव सिंहनादम अथानदन ॥ 13 ॥

  14. वादित्राणि च सर्वाणि नाना लिङ्गनि सर्वशः परावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ 14 ॥

  15. पश्यन्तः समयमानाश च सौभद्रस्य विचेष्टितम अत्यन्तविरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम ॥ 15 ॥

  16. धर्ममारुत शक्राणाम आश्विनॊः परतिमास तथा धारयन्तॊ धवजाग्रेषु दरौपदेया महारथाः ॥ 16 ॥

  17. सात्यकिश चेकितानश च धृष्टद्युम्नशिखण्डिनौ केकया धृष्टकेतुश च मत्स्यपाञ्चाल सृंजयाः ॥ 17 ॥

  18. पाण्डवाश च मुदा युक्ता युधिष्ठिर पुरॊगमाः अभ्यवर्तन्त सहिता दरॊणानीकं बिभित्सवः ॥ 18 ॥

  19. ततॊ ऽभवन महद युद्धं तवदीयानां परैः सह जयम आकाङ्क्षमाणानां शूराणाम अनिवर्तिनाम ॥ 19 ॥

  20. दुर्यॊधनॊ महाराज राधेयम इदम अब्रवीत पश्य दुःशासनं वीरम अभिमन्युवशंगतम ॥ 20 ॥

  21. परतपन्तम इवादित्यं निघ्नन्तं शात्रवान रणे सौभद्रम उद्यतास तरातुम अभिधावन्ति पाण्डवाः ॥ 21 ॥

  22. ततः कर्णः शरैस तीक्ष्णैर अभिमन्युं दुरासदम अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत तवम ॥ 22 ॥

  23. तस्य चानुचरांस तीक्ष्णैर विव्याध परमेषुभिः अवज्ञा पूर्वकं वीरः सौभद्रस्य रणाजिरे ॥ 23 ॥

  24. अभिमन्युस तु राधेयं तरिसप्तत्या शिलीमुखैः अविध्यत तवरितॊ राजन दरॊणं परेप्सुर महामनाः ॥ 24 ॥

  25. तं तदा नाशकत कश चिद दरॊणाद वारयितुं रणे आरुजन्तं रथश्रेष्ठान वज्रहस्तम इवासुरान ॥ 25 ॥

  26. ततः कर्णॊ जय परेप्सुर मानी सर्वधनुर्भृताम सौभद्रं शतशॊ ऽविध्यद उत्तमास्त्राणि दर्शयन ॥ 26 ॥

  27. सॊ ऽसत्रैर अस्त्रविदां शरेष्ठॊ राम शिष्यः परतापवान समरे शत्रुदुर्धर्षम अभिमन्युम अपीडयत ॥ 27 ॥

  28. स तथा पीड्यमानास तु राधेयेनास्त्र वृष्टिभिः समरे ऽमरसंकाशः सौभद्रॊ न वयषीदत ॥ 28 ॥

  29. ततः शिलाशितैस तीक्ष्णैर भल्लैः संनतपर्वभिः छित्त्वा धनूंषि शूराणाम आर्जुनिः कर्णम आर्दयत ॥ 29 ॥

  30. ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णाद अनन्तरः सौभद्रम अभ्ययात तूर्णं दृढम उद्यम्य कार्मुकम ॥ 30 ॥

  31. तत उच्चुक्रुशुः पार्थास तेषां चानुचरा जनाः वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 40

Previous: अध्याय 38