[स] सॊ ऽभिगर्जन धनुष्पाणिर जयां विकर्षन पुनः पुनः तयॊर महात्मनॊस तूर्णं रथान्तरम अवापतत ॥ 1 ॥
सॊ ऽविध्यद दशभिर बाणैर अभिमन्युं दुरासदम सच छत्त्र धवजयन्तारं साश्वम आशु समयन्न इव ॥ 2 ॥
पितृपैतामहं कर्म कुर्वाणम अतिमानुषम दृष्ट्वार्दितं शरैः कार्ष्णिं तवदीया हृषिताभवन ॥ 3 ॥
तस्याभिमन्युर आयम्य समयन्न एकेन पत्रिणा शिरः परच्यावयाम आस स रथात परपतद भुवि ॥ 4 ॥
कर्णिकारम इवॊद्धूतं वातेन मथितं नगात भरातरं निहतं दृष्ट्वा राजन कर्णॊ वयथां ययौ ॥ 5 ॥
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः अन्यान अपि महेष्वासांस तूर्णम एवाभिदुद्रुवे ॥ 6 ॥
ततस तद विततं जालं हस्त्यश्वरथपत्तिमत झषः करुद्ध इवाभिन्दद अभिमन्युर महायशाः ॥ 7 ॥
कर्णस तु बहुभिर बाणैर अर्द्यमानॊ ऽभिमन्युना अपायाज जवनैर अश्वैस ततॊ ऽनीकम अभिद्यत ॥ 8 ॥
शलभैर इव चाकाशे धाराभिर इव चावृते अभिमन्यॊः शरै राजन न पराज्ञायत किं चन ॥ 9 ॥
तावकानां तु यॊधानां वध्यतां निशितैः शरैः अन्यत्र सैन्धवाद राजन न सम कश चिद अतिष्ठत ॥ 10 ॥
सौभद्रस तु ततः शङ्खं परध्माप्य पुरुषर्षभः शीघ्रम अभ्यपतत सेनां भारतीं भरतर्षभ ॥ 11 ॥
स कक्षे ऽगनिर इवॊत्सृष्टॊ निर्दहंस तरसा रिपून मध्ये भारत सैन्यानाम आर्जुनिः पर्यवर्तत ॥ 12 ॥
रथनागाश्वमनुजान अर्दयन निशितैः शरैः स परविश्याकरॊद भूमिं कबन्ध गणसंकुलाम ॥ 13 ॥
सौभद्र चापप्रभवैर निकृत्ताः परमेषुभिः सवान एवाब्निमुखान घन्तः परद्रवज जीवितार्थिनः ॥ 14 ॥
ते घॊरा रौद्रकर्माणॊ विपाठाः पृथवः शिताः निघ्नन्तॊ रघ नागाश्वाञ जग्मुर आशु वसुंधराम ॥ 15 ॥
सायुधाः साङ्गुलि तराणाः स खड्गाः साङ्गदा रणे दृश्यन्ते बाहवश छिन्ना हेमाभरण भूषिताः ॥ 16 ॥
शराश चापानि खड्गाश च शरीराणि शिरांसि च सकुण्डलानि सरग्वीणि भूमाव आसन सहस्रशः ॥ 17 ॥
अपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा रथैः शक्तिचापायुधैश चापि पतिपैश च महाध्वजैः ॥ 18 ॥
निहतैः कषत्रियैर अश्वैर वारणैश च विशां पते अगम्यकल्पा पृथिवी कषणेनासीत सुदारुणा ॥ 19 ॥
वध्यतां राजपुत्राणां करन्दताम इतरेतरम परादुरासीन महाशब्दॊ भीरूणां भयवर्धनः स शब्दॊ भरतश्रेष्ठ दिशः सर्वा वयनादयत ॥ 20 ॥
सौभद्रश चाद्रवत सेनां निघ्नन्न अश्वरथद्विपान वयचरत स दिशः सर्वाः परदिशश चाहितान रुजन ॥ 21 ॥
तं तदा नानुपश्याम सैन्येन रजसावृतम आददानं गजाश्वानां नृणां चायूंषि भारत ॥ 22 ॥
कषणेन भूयॊ ऽपश्याम सूर्यं मध्यं दिने यथा अभिमन्युं महाराज परतपन्तं दविषद गणान ॥ 23 ॥
स वासव समः संख्ये वासवस्यात्मजात्मजः अभिमन्युर महाराज सैन्यमध्ये वयरॊचत ॥ 24 ॥
द्रोणपर्व · Drona Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41