धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 38

  1. [धृ] दवैधीभवति मे चित्तं हरिया तुष्ट्या च संजय मम पुत्रस्य यत सैन्यं सौभद्रः समवारयत ॥ 1 ॥

  2. विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः विक्रीडितं कुमारस्य सकन्दस्येवासुरैः सह ॥ 2 ॥

  3. [स] हन्त ते संप्रवक्ष्यामि विमर्दम अतिदारुणम एकस्य च बहूनां च यथासीत तुमुलॊ रणः ॥ 3 ॥

  4. अभिमन्युः कृतॊत्साहः कृतॊत्साहान अरिंदमान रथस्थॊ रथिनः सर्वांस तावकान अप्य अहर्षयत ॥ 4 ॥

  5. दरॊणं कर्णं कृपं शल्यं दरौणिं भॊजं बृहद्बलम दुर्यॊधनं सौमदत्तिं शकुनिं च महाबलम ॥ 5 ॥

  6. नाना नृपान नृपसुतान सैन्यानि विविधानि च अलातचक्रवत सर्वांश चरन बाणैः समभ्ययात ॥ 6 ॥

  7. निघ्नन्न अमित्रान सौभद्रः परमास्त्रः परतापवान अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ 7 ॥

  8. तद दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः समकम्पन्त सैन्यानि तवदीयानि पुनः पुनः ॥ 8 ॥

  9. अथाब्रवीन महाप्राज्ञॊ भारद्वाजः परतापवान हर्षेणॊत्फुल्ल नयनः कृपम आभाष्य स तवरम ॥ 9 ॥

  10. घट्टयन्न इव मर्माणि तव पुत्रस्य मारिष अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम ॥ 10 ॥

  11. एष गच्छति सौभद्रः पार्थानाम अग्रतॊ युवा नन्दयन सुहृदः सर्वान राजानं च युधिष्ठिरम ॥ 11 ॥

  12. नकुलं सहदेवं च भीमसेनं च पाण्डवम बन्धून संबन्धिनश चान्यान मध्यस्थान सुहृदस तथा ॥ 12 ॥

  13. नास्य युद्धे समं मन्ये कं चिद अन्यं धनुर्धरम इच्छन हन्याद इमां सेनां किमर्थम अपि नेच्छति ॥ 13 ॥

  14. दरॊणस्य परीतिसंयुक्तं शरुत्वा वाक्यं तवात्मजः आर्जुनिं परति संक्रुद्धॊ दरॊणं दृष्ट्वा समयन्न इव ॥ 14 ॥

  15. अथ दुर्यॊधनः कर्णम अब्रवीद बाह्लिकं कृपम दुःसासनं मद्रराजं तांस तांश चान्यान महारथान ॥ 15 ॥

  16. सर्वमूर्धावसिक्तानाम आचार्यॊ बरह्मचित्तमः अर्जुनस्य सुतं मूढं नाभिहन्तुम इहेच्छति ॥ 16 ॥

  17. न हय अस्य समरे मुच्येद अन्तकॊ ऽपय आततायिनः किम अङ्गपुनर एवान्यॊ मर्त्यः सत्यं बरवीमि वः ॥ 17 ॥

  18. अर्जुनस्य सुतं तव एष शिष्यत्वाद अभिरक्षति पुत्राः शिष्याश च दयितास तद अपत्यं च धर्मिणाम ॥ 18 ॥

  19. संरक्ष्यमाणॊ दरॊणेन मन्यते वीर्यम आत्मनः आत्मसंभावितॊ मूढस तं परमथ्नीत माचिरम ॥ 19 ॥

  20. एवम उक्तास तु ते राज्ञा सात्वती पुत्रम अभ्ययुः संरब्धास तं जिघांसन्तॊ भारद्वाजस्य पश्यतः ॥ 20 ॥

  21. दुःशासनस तु तच छरुत्वा दुर्यॊधन वचस तदा अब्रवीत कुरुशार्दूलॊ दुर्यॊधनम इदं वचः ॥ 21 ॥

  22. अहम एनं हनिष्यामि महाराज बरवीमि ते मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम परसिष्याम्य अथ सौभद्रं यथा राहुर दिवाकरम ॥ 22 ॥

  23. उत्क्रुश्य चाब्रवीद वाक्यं कुरुराजम इदं पुनः शरुत्वा कृष्णौ मया गरस्तं सौभद्रम अतिमानिनौ गमिष्यतः परेतलॊकं जीवलॊकान न संशयः ॥ 23 ॥

  24. तौ च शरुत्वा मृतौ वयक्तं पाण्डॊः कषेत्रॊद्भवाः सुताः एकाह्ना ससुहृद वर्गाः कलैब्याद धास्यन्ति जीवितम ॥ 24 ॥

  25. तस्माद अस्मिन हते शत्रौ हताः सर्वे ऽहितास तव शिवेन धयाहि मा राजन्न एष हन्मि रिपुं तव ॥ 25 ॥

  26. एवम उक्त्वा नदन राजन पुत्रॊ दुःशासनस तव सौभद्रम अभ्ययात करुद्धः शरवर्षैर अवाकिरन ॥ 26 ॥

  27. तम अभिक्रुद्धम आयान्तं तव पुत्रम अरिंदमः अभिमन्युः शरैस तिक्ष्णैः षट्विंशत्या समर्पयत ॥ 27 ॥

  28. दुःशासनस तु संक्रुद्धः परभिन्न इव कुञ्जरः अयॊधयत सौभद्रम अभिमन्युश च तं रणे ॥ 28 ॥

  29. तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम चरमाणाव अयुध्येतां रथशिक्षा विशारदौ ॥ 29 ॥

  30. अथ पणवमृदङ्गदुन्दुभीनां; कृकर महानक भेरि झर्झराणाम निनदम अतिभृशं नराः परचक्रुर; लवणजलॊद्भव सिंहनाद मिश्रम ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 39

Previous: अध्याय 37