धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 37

  1. [धृ] तथा परमथमानं तं महेष्वासम अजिह्मगैः आर्जुनिं मामकाः सर्वे के तव एनं समवाकिरन ॥ 1 ॥

  2. [स] शृणु राजन कुमारस्य रणे विक्रीडितं महत बिभित्सयॊ रथानीकं भारद्वाजेन रक्षितम ॥ 2 ॥

  3. मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे शल्याद अवरजः करुद्धः किरन बाणान समभ्ययात ॥ 3 ॥

  4. स विद्ध्वा दशभिर बाणैः साश्वयन्तारम आर्जुनिम उदक्रॊशन महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत ॥ 4 ॥

  5. तस्यार्जुनिः शिरॊग्रीवं पाणिपादं धनुर हयान छत्रं धवजं नियन्तारं तरिवेणुं शम्यु पस्करम ॥ 5 ॥

  6. चक्रे युगेषां तूणीरान अनुकर्षं च सायकैः पताकां चक्रगॊप्तारौ सर्वॊपकरणानि च वयधमल लाघवात तच च ददृशे नास्य कश चन ॥ 6 ॥

  7. स पपात कषितौ कषीणः परविद्धाभरणाम्बरः वायुनेव महाचैत्यः संभग्नॊ ऽमिततेजसा अनुगाश चास्य वित्रस्ताः पराद्रवन सर्वतॊदिशम ॥ 7 ॥

  8. आर्जुनेः कर्म तद दृष्ट्व परणेदुश च समन्ततः नादेन सर्वभूतानि साधु साध्व इति भारत ॥ 8 ॥

  9. शल्य भरातर्य अथारुग्णे बहुशस तस्य सैनिकाः कुलाधिवासनामानि शरावयन्तॊ ऽरजुनात्मजम ॥ 9 ॥

  10. अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः रथैर अश्वैर गजैश चान्ये पादातैश च बलॊत्कटाः ॥ 10 ॥

  11. बाणशब्देन महता खुरनेमिस्वनेन च हुंकारैः कष्वेडितॊत्क्रुष्टैः सिंहनादैः स गर्जितैः ॥ 11 ॥

  12. जयातलत्र सवनैर अन्ये गर्जन्तॊ ऽरजुननन्दनम बरुवन्तश च न नॊ जीवन मॊक्ष्यसे जीविताम इति ॥ 12 ॥

  13. तांस तथा बरुवतॊ दृष्ट्वा सौभद्रः परहसन्न इव यॊ यः सम पराहरत पूर्वं तं तं विव्याध पत्रिभिः ॥ 13 ॥

  14. संदर्शयिष्यन्न अस्त्राणि चित्राणि च लघूनि च आर्जुनिः समरे शूरॊ मृदुपूर्वम अयुध्यत ॥ 14 ॥

  15. वासुदेवाद उपात्तं यद यद अस्त्रं च धनंजयात अदर्शयत तत कार्ष्णिः कृष्णाभ्याम अविशेषयन ॥ 15 ॥

  16. दूरमास्यन गुरुं भारं साधयंश च पुनः पुनः संदधद विसृजंश चेषून निर्विशेषम अदृश्यत ॥ 16 ॥

  17. चापमण्डलम एवास्य विस्फुरद दिक्ष्व अदृश्यत तमॊ घनतः सुदीप्तस्य सवितुर मण्डलं यथा ॥ 17 ॥

  18. जयाशब्दः शुश्रुवे तस्य तलशब्दश च दारुणः महाशनिमुचः काले पयॊदस्येव निस्वनः ॥ 18 ॥

  19. हरीमान अमर्षी सौभद्रॊ मानकृत परियदर्शनः संमिनामयिषुर वीरान इष्वासांश चाप्य अयुध्यत ॥ 19 ॥

  20. मृदुर भूत्वा महाराज दारुणः समपद्यत वर्षाभ्यतीतॊ भगवाञ शरदीव दिवाकरः ॥ 20 ॥

  21. शरान विचित्रान महतॊ रुक्मपुङ्खाञ शिलाशितान मुमॊच शतशः करुद्धॊ गभस्तीन इव भास्करः ॥ 21 ॥

  22. कषुरप्रैर वत्सदन्तैश च विपाठैश च महायशाः नाराचैर धननाराचैर भल्लैर अज्ञलिकैर अपि ॥ 22 ॥

  23. अवाकिरद रथानीकं भारद्वाजस्य पश्यतः ततस तत सैन्यम अभवद विमुखं शरपीडितम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36