[स] तां परभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा दुर्यॊधनॊ भृशं करुद्धः सवयं सौभद्रम अभ्ययात ॥ 1 ॥
ततॊ राजानम आवृत्तं सौभद्रं परति संयुगे दृष्ट्वा दरॊणॊ ऽबरवीद यॊधान पर्याप्नुत नराधिपम ॥ 2 ॥
पुराभिमन्युर लक्ष्यं नः पश्यतां हन्ति वीर्यवान तम आद्रवत मा भैष्ट कषिप्रं रक्षत कौरवम ॥ 3 ॥
ततः कृतज्ञा बलिनः सुहृदॊ जितकाशिनः तरास्यमाना भयाद वीरं परिवव्रुस तवात्मजम ॥ 4 ॥
दरॊमॊ दरौणिः कृपः कर्णः कृतवर्मा च सौबलः बृहद्बलॊ मद्रराजॊ भूरिर भूरिश्रवाः शलः ॥ 5 ॥
पौरवॊ वृषसेनश च विसृजन्तः शिताञ शरान सौभ्रद्रं शरवर्षेण महता समवाकिरन ॥ 6 ॥
संमॊहयित्वा तम अथ दुर्यॊधनम अमॊचयन आस्याद गरासम इवाक्षिप्तम अमृषे नार्जुनात्मजः ॥ 7 ॥
ताञ शरौघेण महता साश्वसूतान महारथान विमुखीकृत्य सौभद्रः सिंहनादम अथानदत ॥ 8 ॥
तस्य नादं ततः शरुत्वा सिंहस्येवामिषैषिणः नामृष्यन्त सुसंरब्धाः पुनर दरॊण मुखा रथाः ॥ 9 ॥
त एनं कॊष्ठकी कृत्यरथवंशेन मारिष वयसृजन्न इषुजालानि नाना लिङ्गानि संघशः ॥ 10 ॥
तान्य अन्तरिक्षे चिच्छेद पौत्रस तव शितैः शरैः तांश चैव परतिविव्याध तद अद्भुतम इवाभवत ॥ 11 ॥
ततस ते कॊपितास तेन शरैर आशीविषॊपमैः परिवव्रुर जिघांसन्तः सौभद्रम अपलायिनम ॥ 12 ॥
समुद्रम इव पर्यस्तं तवदीयं तद बलार्णवम अभिमन्युर दधारैकॊ वेलेव मकरालयम ॥ 13 ॥
शूराणां युध्यमानानां निघ्नताम इतरेतरम अभिमन्यॊः परेषां च नासीत कश चित पराङ्मुखः ॥ 14 ॥
तस्मिंस तु घॊरे संग्रामे वर्तमाने भयंकरे दुःसहॊ नवभिर बाणैर अभिमन्युम अविध्यत ॥ 15 ॥
दुःशासनॊ दवादशभिः कृपः शारद्वतस तरिभिः दरॊणस तु सप्त दशभिः शरैर आशीविषॊपमैः ॥ 16 ॥
विविंशतिस तु विंशत्या कृतवर्मा च सप्तभिः बृहद्बलस तथाष्टाभिर अश्वत्थामा च सप्तभिः ॥ 17 ॥
भूरिश्रवास तरिभिर बाणैर मद्रेशः षड्भिर आशुगैः दवाभ्यां शराभ्यां शकुनिस तरिभिर दुर्यॊधनॊ नृपः ॥ 18 ॥
स तु तान परतिविव्याध तरिभिस तरिभिर अजिह्मगैः नृत्यन्न इव महाराज चापहस्तः परतापवान ॥ 19 ॥
ततॊ ऽभिमन्युः संक्रुद्धस ताप्यमानस तवात्मजैः विदर्शयन वै सुमहच छिक्षौरस कृतं बलम ॥ 20 ॥
गरुडानिलरंहॊभिर यन्तुर वाक्यकरैर हयैः दान्तैर अश्मक दायादं तवरमाणॊ ऽभयहारयत विव्याध चैनं दशभिर बाणैस तिष्ठेति चाब्रवीत ॥ 21 ॥
तस्याभिमन्युर दशभिर बाणैः सूतं हयान धवजम बाहू धनुः शिरश चॊर्व्यां समयमानॊ ऽभयपातयत ॥ 22 ॥
ततस तस्मिन हते वीरे सौभद्रेणाश्मकेश्वरे संचचाल बलं सर्वं पलायनपरायणम ॥ 23 ॥
ततः कर्णः कृपॊ दरॊणॊ दरौणिर गान्धारराट शलः शल्यॊ भूरिश्रवाः कराथः सॊमदत्तॊ विविंशतिः ॥ 24 ॥
वृषसेनः सुषेणश च कुण्ड भेदी परतर्दनः वृन्दारकॊ ललित्थश च परबाहुर दीर्घलॊचनः दुर्यॊधनश च संक्रुद्धः शरवर्षैर अवाकिरन ॥ 25 ॥
सॊ ऽतिक्रुद्धॊ महेष्वासैर अभिमन्युर अजिह्मगैः शरम आदत्त कर्णाय परकायावभेदनम ॥ 26 ॥
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः पराविशद धरणीं राजन वल्मीकम इव पन्नगः ॥ 27 ॥
स तेनातिप्रहारेण वयथितॊ विह्वलन्न इव संचचाल रणे कर्णः कषितिकम्पे यथाचलः ॥ 28 ॥
अथान्यैर निशितैर बाणैः सुषेणं दीर्घलॊचनम कुण्ड भेदिं च संक्रुद्धस तरिभिस तरीन अवधीद बली ॥ 29 ॥
कर्णस तं पञ्चविंशत्या नाराचानां समर्पयत अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ 30 ॥
स शरार्दित सर्वाङ्गः करुद्धः शक्रात्मजात्मजः विचरन दृश्यते सैन्ये पाशहस्त इवान्तकः ॥ 31 ॥
शल्यं च बाणवर्षेण समीपस्थम अवाकिरत उदक्रॊशन महाबाहुस तव सैन्यानि भीषयन ॥ 32 ॥
ततः स विद्धॊ ऽसत्रविदा मर्मभिद्भिर अजिह्मगैः शल्यॊ राजन रथॊपस्थे निषसाद मुमॊह च ॥ 33 ॥
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना संप्राद्रवच चमूः सर्वा भारद्वाजस्य पश्यतः ॥ 34 ॥
परेक्षन्तस तं महाबाहुं रुक्मपुङ्खैः समावृतम तवदीयाश च पलायन्ते मृगाः सिंहार्दिता इव ॥ 35 ॥
स तु रणयशसाभिपूज्यमानः; पितृसुरचारण सिद्धयक्षसंघैः अवनि तलगतैश च भूतसंघैर; अतिविबभौ हुतभुग यथाज्य सिक्तः ॥ 36 ॥
द्रोणपर्व · Drona Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37