धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 33

  1. [स] समरे ऽतयुग्र कर्माणः कर्मभिर वयञ्जित शरमाः स कृष्णाः पाण्डवाः पञ्च देवैर अपि दुरासदाः ॥ 1 ॥

  2. सत्त्वकर्मान्वयैर बुद्ध्या परकृत्या यशसा शरिया नैव भूतॊ न भविता कृष्ण तुल्यगुणः पुमान ॥ 2 ॥

  3. सत्यधर्मपरॊ दाता विप्र पूजादिभिर गुणैः सदैव तरिदिवं पराप्तॊ राजा किल युधिष्ठिरः ॥ 3 ॥

  4. युगान्ते चान्तकॊ राजञ जामदग्न्यश च वीर्यवान रणस्थॊ भीमसेनश च कथ्यन्ते सदृशास तरयः ॥ 4 ॥

  5. परतिज्ञा कर्म दक्षस्य रणे गाण्डीवधन्वनः उपमां नाधिगच्छामि पार्थस्य सदृशीं कषितौ ॥ 5 ॥

  6. गुरु वात्सल्यम अत्यन्तं नैभृत्यं विनयॊ दमः नकुले ऽपरातिरूप्यं च शौल्यं च नियतानि षट ॥ 6 ॥

  7. शरुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः सदृशॊ देवयॊर वीरः सहदेवः किलाश्विनॊः ॥ 7 ॥

  8. ये च कृष्णे गुणाः सफीताः पाण्डवेषु च ये गुणाः अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः ॥ 8 ॥

  9. युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च कर्मभिर भीमसेनस्य सदृशॊ भीमकर्मणः ॥ 9 ॥

  10. धनंजयस्य रूपेण विक्रमेण शरुतेन च विनयात सहदेवस्य सदृशॊ नकुलस्य च ॥ 10 ॥

  11. [धृ] अभिमन्युम अहं सूत सौभद्रम अपराजितम शरॊतुम इच्छामि कार्त्स्न्येन कथम आयॊधने हतः ॥ 11 ॥

  12. [स] चक्रव्यूहॊ महाराज आचार्येणाभिकल्पितः तत्र शक्रॊपमाः सर्वे राजानॊ विनिवेशिताः ॥ 12 ॥

  13. संघातॊ राजपुत्राणां सर्वेषाम अभवत तदा कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥ 13 ॥

  14. रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः सर्वे रक्तपताकाश च सर्वे वै हेममालिनः ॥ 14 ॥

  15. तेषां दशसहस्राणि बभूवुर दृढधन्विनाम पौत्रं तव पुरस्कृत्य लक्ष्मणं परियदर्शनम ॥ 15 ॥

  16. अन्यॊन्यसमदुःखास ते अन्यॊन्यसमसाहसाः अन्यॊन्यं सपर्धमानाश च अन्यॊन्यस्य हिते रताः ॥ 16 ॥

  17. कर्ण दुःशासन कृपैर वृतॊ राजा महारथैः देवराजॊपमः शरीमाञ शवेतच छत्राभिसंवृतः चामरव्यजनाक्षेपैर उदयन्न इव भास्करः ॥ 17 ॥

  18. परमुखे तस्य सैन्यस्य दरॊणॊ ऽवस्थित नायके सिन्धुराजस तथातिष्ठच छरीमान मेरुर इवाचलः ॥ 18 ॥

  19. सिन्धुराजस्य पार्श्वस्था अश्वथाम पुरॊगमाः सुतास तव महाराज तरिंशत तरिदशसंनिभाः ॥ 19 ॥

  20. गान्धारराजः कितवः शल्यॊ भूरिश्रवास तथा पार्श्वतः सिन्धुराजस्य वयराजन्त महारथाः ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32