धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 34

  1. [स] तद अनीकम अनाधृष्यं भारद्वाजेन रक्षितम पार्थाः समभ्यवर्तन्त भीमसेनपुरॊगमाः ॥ 1 ॥

  2. सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः कुन्तिभॊजश च विक्रान्तॊ दरुपदश च महारथः ॥ 2 ॥

  3. आर्जुनिः कषत्रधर्मा च बृहत कषत्रश च वीर्यवान चेदिपॊ धृष्टकेतुश च माद्रीपुत्रौ घटॊत्कचः ॥ 3 ॥

  4. युधामन्युश च विक्रान्तः शिखण्डी चापराजितः उत्तमौजाश च दुर्धर्षॊ विराटश च महारथः ॥ 4 ॥

  5. दरौपदेयाश च संरब्धाः शैशुपालिश च वीर्यवान केकयाश च महावीर्याः सृञ्जयाश च सहस्रशः ॥ 5 ॥

  6. एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः समभ्यधावन सहसा भारद्वाजं युयुत्सवः ॥ 6 ॥

  7. समवेतांस तु तान सर्वान भारद्वाजॊ ऽपि वीर्यवान असंभ्रान्तः शरौघेण महता समवारयत ॥ 7 ॥

  8. महौघाः सलिलस्येव गिरिम आसाद्य दुर्भिदम दरॊणं ते नाभ्यवर्तन्त वेलाम इव जलाशयाः ॥ 8 ॥

  9. पीड्यमानाः शरै राजन दरॊण चापविनिःसृतैः न शेकुः परमुहे सथातुं भारद्वाजस्य पाण्डवाः ॥ 9 ॥

  10. तद अद्भुतम अपश्याम दरॊणस्य भुजयॊर बलम यद एनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ 10 ॥

  11. तम आयान्तम अभिक्रुद्धं दरॊणं दृष्ट्वा युधिष्ठिरः बहुधा चिन्तयाम आस दरॊणस्य परतिवारणम ॥ 11 ॥

  12. अशक्यं तु तम अन्येन दरॊणं मत्वा युधिष्ठिरः अविषह्य गुरुं भारं सौभद्रे समवासृजत ॥ 12 ॥

  13. वासुदेवाद अनवरं फल्गुनाच चामितौजसम अब्रवीत परवीरघ्नम अभिमन्युम इदं वचः ॥ 13 ॥

  14. एत्य नॊ नार्जुनॊ गर्हेद यथा तात तथा कुरु चक्रव्यूहस्य न वयं विद्म भेदं कथं चन ॥ 14 ॥

  15. तवं वार्जुनॊ वा कृष्णॊ वा भिन्द्यात परद्युम्न एव वा चक्रव्यूहं महाबाहॊ पञ्चमॊ ऽनयॊ न विद्यते ॥ 15 ॥

  16. अभिमन्यॊ वरं तात याचतां दातुम अर्हसि पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥ 16 ॥

  17. धनंजयॊ हि नस तात गर्हयेद एत्य संयुगात कषिप्रम अस्त्रं समादाय दरॊणानीकं विशातय ॥ 17 ॥

  18. [अभि] दरॊणस्य दृढम अव्यग्रम अनीक परवरं युधि पितॄणां जयम आकाङ्क्षन्न अवगाहे भिनद्मि च ॥ 18 ॥

  19. उपदिष्टॊ हि मे पित्रा यॊगॊ ऽनीकस्य भेदने नॊत्सहे तु विनिर्गन्तुम अहं कस्यां चिद आपदि ॥ 19 ॥

  20. [य] भिन्ध्य अनीकं युधा शरेष्ठ दवारं संजनयस्व नः वयं तवानुगमिष्यामॊ येन तवं तात यास्यसि ॥ 20 ॥

  21. धनंजय समं युद्धे तवां वयं तात संयुगे परणिधायानुयास्यामॊ रक्षन्तः सर्वतॊ मुखाः ॥ 21 ॥

  22. [भम] अहं तवानुगमिष्यामि धृष्टद्युम्नॊ ऽथ सात्यकिः पाञ्चालाः केकया मत्स्यास तथा सर्वे परभद्रकाः ॥ 22 ॥

  23. सकृद भिन्नं तवया वयूहं तत्र तत्र पुनः पुनः वयं परध्वंसयिष्यामॊ निघ्नमाना वरान वरान ॥ 23 ॥

  24. [अभि] अहम एतत परवेक्ष्यामि दरॊणानीकं दुरासदम पतंग इव संक्रुद्धॊ जवलितं जातवेदसम ॥ 24 ॥

  25. तत कर्माद्य करिष्यामि हितं यद वंशयॊर दवयॊः मातुलस्य च या परीतिर भविष्यति पितुश च मे ॥ 25 ॥

  26. शिशुनैकेन संग्रामे काल्यमानानि संघशः अद्य दरक्ष्यन्ति भूतानि दविषत सैन्यानि वै मया ॥ 26 ॥

  27. [य] एवं ते भाषमाणस्य बलं सौभद्र वर्धताम यस तवम उत्सहसे भेत्तुं दरॊणानीकं सुदुर्भिदम ॥ 27 ॥

  28. रक्षितं पुरुषव्याघ्रैर महेष्वासैः परहारिभिः साध्य रुद्र मरुत कल्पैर वस्व अग्न्यादित्यविक्रमैः ॥ 28 ॥

  29. [स] तस्य तद वचनं शरुत्वा स यन्तारम अचॊदयत सुमित्र अश्वान रणे कषिप्रं दरॊणानीकाय चॊदय ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 35

Previous: अध्याय 33