धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 32

  1. [स] पूर्वम अस्मासु भग्नेषु फल्गुनेनामितौजसा दरॊणे च मॊघसंकल्पे रक्षिते च युधिष्ठिरे ॥ 1 ॥

  2. सर्वे विध्वस्तकवचास तावका युधि निर्जिताः रजस्वला भृशॊद्विग्ना वीक्षमाणा दिशॊ दश ॥ 2 ॥

  3. अवहारं ततः कृत्वा भारद्वाजस्य संमते लब्धलक्ष्यैः परैर दीना भृशावहसिता रणे ॥ 3 ॥

  4. शलाघमानेषु भूतेषु फल्गुनस्यामितान गुणान केशवस्य च सौहार्दे कीर्त्यमाने ऽरजुनं परति अभिशस्ता इवाभूवन धयानमूकत्वम आस्थिताः ॥ 4 ॥

  5. ततः परभातसमये दरॊणं दुर्यॊधनॊ ऽबरवीत परणयाद अभिमानाच च दविषद वृद्ध्या च दुर्मनाः शृण्वतां सर्वभूतानां संरब्धॊ वाक्यकॊविदः ॥ 5 ॥

  6. नूनं वयं वध्य पक्षे भवतॊ बरह्मवित्तम तथा हि नाग्रहीः पराप्तं समीपे ऽदय युधिष्ठिरम ॥ 6 ॥

  7. इच्छतस ते न मुच्येत चक्षुः पराप्तॊ रणे रिपुः जिघृक्षतॊ रक्ष्यमाणः सामरैर अपि पाण्डवैः ॥ 7 ॥

  8. वरं दत्त्वा मम परीतः पश्चाद विकृतवान असि आशा भङ्गं न कुर्वन्ति भक्तस्यार्याः कथं चन ॥ 8 ॥

  9. ततॊ ऽपरीतिस तथॊक्तः स भारद्वाजॊ ऽबरवीन नृपम नार्हसे मान्यथा जञातुं घटमानं तव परिये ॥ 9 ॥

  10. स सुरासुरगन्धर्वाः स यक्षॊरग राक्षसाः नालं लॊका रणे जेतुं पाल्यमानं किरीटिना ॥ 10 ॥

  11. विश्वसृग यत्र गॊविन्दः पृतनारिस तहार्जुनः तत्र कस्य बलं करामेद अन्यत्र तर्यम्बकात परभॊः ॥ 11 ॥

  12. सत्यं तु ते बरवीम्य अद्य नैतज जात्व अन्यथा भवेत अद्यैषां परवरं वीरं पातयिष्ये महारथम ॥ 12 ॥

  13. तं च वयूहं विधास्यामि यॊ ऽभेद्यस तरिदशैर अपि यॊगेन केन चिद राजन्न अर्जुनस तव अपनीयताम ॥ 13 ॥

  14. न हय अज्ञातम असाध्यं वा तस्य संख्ये ऽसति किं चन तेन हय उपात्तं बलवत सर्वज्ञानम इतस ततः ॥ 14 ॥

  15. दरॊणेन वयाहृते तव एवं संशप्तकगणाः पुनः आह्वयन्न अर्जुनं संख्ये दक्षिणाम अभितॊ दिशम ॥ 15 ॥

  16. तत्रार्जुनस्याथ परैः सार्धं समभवद रणः तादृशॊ यादृशॊ नान्यः शरुतॊ दृष्टॊ ऽपि वा कव चित ॥ 16 ॥

  17. ततॊ दरॊणेन विहितॊ राजन वयूहॊ वयरॊचत चरन मध्यं दिने सूर्यः परतपन्न इव दुर्दृशः ॥ 17 ॥

  18. तं चाभिमन्युर वचनात पितुर जयेष्ठस्य भारत बिभेद दुर्भिदं संख्ये चक्रव्यूहम अनेकधा ॥ 18 ॥

  19. स कृत्वा दुष्करं कर्महत्वा वीरान सहस्रशः षट्सु वीरेषु संसक्तॊ दौःशासनि वशंगतः ॥ 19 ॥

  20. वयं परमसंहृष्टाः पाण्टवाः शॊककर्शिताः सौभद्रे निहते राजन्न अवहारम अकुर्वत ॥ 20 ॥

  21. [धृ] पुत्रं पुरुषसिंहस्य संजयाप्राप्त यौवनम रणे विनिहतं शरुत्वा भृशं मे दीर्यते मनः ॥ 21 ॥

  22. दारुणः कषत्रधर्मॊ ऽयं विहितॊ धर्मकर्तृभिः यत्र राज्येप्सवः शूरा बाले शस्त्रम अपातयन ॥ 22 ॥

  23. बालम अत्यन्तसुखिनं विचरन्तम अभीतवत कृतास्त्रा बहवॊ जघ्नुर बरूहि गावल्गणे कथम ॥ 23 ॥

  24. बिभित्सता रथानीकं सौभद्रेणामितौजसा विक्रीडितं यथा संख्ये तन ममाचक्ष्व संजय ॥ 24 ॥

  25. [स] यन मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम तत ते कार्त्स्न्येन वक्ष्यामि शृणु राजन समाहितः विक्रीडितं कुमारेण यथानीकं बिभित्सता ॥ 25 ॥

  26. दावाग्न्यभिपरीतानां भूरि गुल्मतृणद्रुमे वनौकसाम इवारण्ये तवदीयानाम अभूद भयम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 33

Previous: अध्याय 31