[स] परतिघातं तु सैन्यस्य नामृष्यत वृकॊदरः सॊ ऽभिनद बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ॥ 1 ॥
तस्य दरॊणः शितैर बाणैस तीक्ष्णधारैर अयस्मयैः जीवितान्तम अभिप्रेप्सुर मर्मण्य आशु जघान ह ॥ 2 ॥
कर्णॊ दवादशभिर बाणैर अश्वत्थामा च सप्तभिः षड्भिर दुर्यॊधनॊ राजा तत एनम अवाकिरत ॥ 3 ॥
भीमसेनॊ ऽपि तान सर्वान परत्यविध्यन महाबलः दरॊणं पञ्चाशतेषूणां कर्मं च दशभिः शरैः ॥ 4 ॥
दुर्यॊधनं दवादशभिर दरौणिं चाष्टाभिर आशुगैः आरावं तुमुलं कुर्वन्न अभ्यवर्तत तान रणे ॥ 5 ॥
तस्मिन संत्यजति पराणान मृत्युसाधारणी कृते अजातशत्रुस तान यॊधान भीमं तरातेत्य अचॊदयत ॥ 6 ॥
ते ययुर भीमसेनस्य समीपम अमितौजसः युयुधानप्रभृतयॊ माद्रीपुत्रौ च पाण्डवौ ॥ 7 ॥
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः महेष्वास वरैर गुप्तं दरॊणानीकं बिभित्सवः ॥ 8 ॥
समापेतुर महावीर्या भीमप्रभृतयॊ रथाः तान पर्त्यगृह्णाद अव्यग्रॊ दरॊणॊ ऽपि रथिनां वरः ॥ 9 ॥
महाबलान अतिरथान वीरान समरशॊभिनः बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान ययुः ॥ 10 ॥
सादिनः सादिनॊ ऽभयघ्नंस तथैव रथिनॊ रथान आसीच छक्त्य असि संपातॊ युद्धम आसीत परश्वधैः ॥ 11 ॥
निकृष्टम असियुद्धं च बभूव कटुकॊदयम कुञ्जराणांच संघातैर युद्धम आसीत सुदारुणम ॥ 12 ॥
अपतत कुञ्जराद अन्यॊ हयाद अन्यस तव अवाक्शिराः नरॊ बाणेन निर्भिन्नॊ रथाद अन्यश च मारिष ॥ 13 ॥
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः शिरः परध्वंसयाम आस वक्षस्य आक्रम्य कुञ्जरः ॥ 14 ॥
अपरे ऽपय अपराञ जघ्नुर वारणाः पतितान नरान विषाणैश चावनिं गत्वा वयभिन्दन रथिनॊ बहून ॥ 15 ॥
नरान्त्रैः के चिद अपरे विषाणालग्न संस्रवैः बभ्रमुः शतशॊ नागा मृद्नन्तः शतशॊ नरान ॥ 16 ॥
कांस्यायस तनुत्राणान नराश्वरथकुञ्जरान पतितान पॊथयां चक्रुर दविपाः सथूलनडान इव ॥ 17 ॥
गृध्रपत्राधिवासांसि शयनानि नराधिपाः हरीमन्तः कालसंपक्वाः सुदुःखान्य अधिशेरते ॥ 18 ॥
हन्ति समात्र पिता पुत्रं रथेनाभ्यतिवर्तते पुत्रश च पितरं मॊहान निर्मर्यादम अवर्तत ॥ 19 ॥
अक्षॊ भग्नॊ धवजश छिन्नश छत्रम उर्व्यां निपातितम युगार्धं छिन्नम आदाय परदुद्राव तथा हयः ॥ 20 ॥
सासिर बाहुर निपतितः शिरश छिन्नं सकुण्डलम गजेनाक्षिप्य बलिना रथः संचूर्णितः कषितौ ॥ 21 ॥
रथिना ताडितॊ नागॊ नाराचेनापतद वयसुः सारॊहश चापतद वाजी गजेनाताडितॊ भृशम ॥ 22 ॥
निर्मर्यादं महद युद्धम अवर्तत सुदारुणम हा तात हा पुत्र सखे कवासि तिष्ठ कव धावसि ॥ 23 ॥
परहराहर जह्य एनं समितक्ष्वेडित गर्जितैः इत्य एवम उच्चरन्त्यः सम शरूयन्ते विविधा गिरः ॥ 24 ॥
नरस्याश्वस्य नागस्य समसज्जत शॊणितम उपाशाम्यद रजॊ भौमं भीरून कश्मलम आविशत ॥ 25 ॥
आसीत केशपरामर्शॊ मुष्टियुद्धं च दारुणम नखैर दन्तैश च शूराणमाद्वीपे दवीपम इच्छताम ॥ 26 ॥
तत्राच्छिद्यत वीरस्य स खड्गॊ बाहुर उद्यतः सधनुश चापरस्यापि स शरः साङ्कुशस तथा ॥ 27 ॥
पराक्रॊशद अन्यम अन्यॊ ऽतर तथान्यॊ विमुखॊ ऽदरवत अन्यः पराप्तस्य चान्यस्य शिरः कायाद अपाहरत ॥ 28 ॥
शब्दम अभ्यद्रवच चान्यः शब्दाद अन्यॊ ऽदरवद भृशम सवान अन्यॊ ऽथ परान अन्यॊ जघान निशितैः शरैः ॥ 29 ॥
गिरिशृङ्गॊपमश चात्र नाराचेन निपातितः मातङ्गॊ नयपतद भूमौ नदी रॊध इवॊष्णगे ॥ 30 ॥
तथैव रथिनं नागः कषरन गिरिर इवारुजत अध्यतिष्ठत पदा भूमौ सहाश्वं सह सारथिम ॥ 31 ॥
शूरान परहरतॊ दृष्ट्वा कृतास्त्रान रुधिरॊक्षितान बहून अप्य आविशन मॊहॊ भीरून हृदयदुर्बलान ॥ 32 ॥
सर्वम आविग्नम अभवन न पराज्ञायत किं चन सैन्ये च रजसा धवस्ते निर्मर्यादम अवर्तत ॥ 33 ॥
ततः सेनापतिः शीघ्रम अयं काल इति बरुवन नित्याभित्वरितान एव तवरयाम आस पाण्डवान ॥ 34 ॥
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः सरॊ हंसा इवापेतुर घनन्तॊ दरॊण रथं परति ॥ 35 ॥
गृह्णीताद्रवतान्यॊन्यं विभीता विनिकृन्तत इत्य आसीत तुमुलः शब्दॊ दुर्धर्षस्य रथं परति ॥ 36 ॥
ततॊ दरॊणः कृपः कर्णॊ दरौणी राजा जयद्रथः विन्दानुविन्दाव अवन्त्यौ शल्यश चैनान अवारयत ॥ 37 ॥
ते तव आर्य धर्मसंरब्धा दुर्निवार्या दुरासदाः शरार्ता न जुहुर दरॊणं पाञ्चालाः पाण्डवैः सह ॥ 38 ॥
ततॊ दरॊणॊ ऽभिसंक्रुद्धॊ विसृजञ शतशः शरान चेदिपाञ्चालपाण्डूनाम अकरॊत कदनं महत ॥ 39 ॥
तस्य जयातलनिर्घॊषः शुश्रुवे दिक्षु मारिष वज्रसंघात संकाशस तरासयन पाण्डवान बहून ॥ 40 ॥
एतस्मिन्न अन्तरे जिष्णुर हत्वा संशप्तकान बली अब्ययात तत्र यत्र सम दरॊणः पाण्डुन परमर्दति ॥ 41 ॥
तं शरौघमहावर्तं शॊणितॊदं महाह्रदम तीर्णः संशप्तकान हत्वा परत्यदृश्यत फल्गुनः ॥ 42 ॥
तस्य कीर्तिमतॊ लक्ष्म सूर्यप्रतिम तेजसः दीप्यमानम अपश्याम तेजसा वानरध्वजम ॥ 43 ॥
संशप्तकसमुद्रं तम उच्छॊष्यास्त्र गभस्तिभिः स पाण्डव युगान्तार्कः कुरून अप्य अभ्यतीतपत ॥ 44 ॥
परददाह कुरून सर्वान अर्जुनः शस्र तेजसा युगान्ते सर्वभूतानि धूमकेतुर इवॊत्थितः ॥ 45 ॥
तेन बाणसहस्रौघैर गजाश्वरथयॊधिनः ताड्यमानाः कषितिं जग्मुर मुक्तशस्त्राः शरार्दिताः ॥ 46 ॥
के चिद आर्तस्वरं चक्रुर विनेदुर अपरे पुनः पार्थ बाणहता एक्चिन निपेतुर विगतासवः ॥ 47 ॥
तेषाम उत्पततां कांश चित पतितांश च पराङ्मुखान न जघानार्जुनॊ यॊधान यॊधव्रतम अनुस्मरन ॥ 48 ॥
ते विशीर्णरथाश्वेभाः परायशश च पराङ्मुखाः कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः ॥ 49 ॥
तम आधिरथिर आक्रन्दं विज्ञाय शरणैषिणाम मा भैष्टेति परतिश्रुत्य ययाव अभिमुखॊ ऽरजुनम ॥ 50 ॥
स भारत रथश्रेष्ठः सर्वभारत हर्षणः परादुश्चक्रे तद आग्नेयम अस्त्रम अस्त्रविदां वरः ॥ 51 ॥
तस्य दीप्तशरौघस्य दीपचाप धरस्य च शरौघाञ शरजालेन विदुधाव धनंजयः अस्त्रम अस्त्रेण संवार्य पराणदद विसृजञ शरान ॥ 52 ॥
धृष्टद्युम्नश च भीमश च सात्यकिश च महारथः विव्यधुः कर्णम आसाद्य तरिभिस तरिभिर अजिह्मगैः ॥ 53 ॥
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः तेषां तरयाणां चापानि चिच्छेद विशिखैस तरिभिः ॥ 54 ॥
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन ॥ 55 ॥
ता भुजाग्रैर महावेगा विसृष्टा भुजगॊपमाः दीप्यमाना महाशक्त्यॊ जग्मुर आधिरथिं परति ॥ 56 ॥
ता निकृत्य शितैर बाणैस तरिभिस तरिभिर अजिह्मगैः ननाद बलवान कर्णः पार्थाय विसृजञ शरान ॥ 57 ॥
अर्जुनश चापि राधेयं विद्ध्वा सप्तभिर आशुगैः कर्णाद अवरजं बाणैर जघान निशितैस तरिभिः ॥ 58 ॥
ततः शत्रुंजयं हत्वा पार्थः षड्भिर अजिह्मगैः जहार सद्यॊ भल्लेन विपाटस्य शिरॊ रथात ॥ 59 ॥
पश्यतां धार्तराष्ट्राणाम एकेनैव किरीटिना परमुखे सूतपुत्रस्य सॊदर्या निहतास तरयः ॥ 60 ॥
ततॊ भीमः समुत्पत्य सवरथाद वैनतेयवत वरासिना कर्ण पक्षाञ जघान दश पञ्च च ॥ 61 ॥
पुनः सवरथम आस्थाय धनुर आदाय चापरम विव्याध दशभिः कर्णं सूतम अश्वांश च पञ्चभिः ॥ 62 ॥
धृष्टद्युम्नॊ ऽय असि वरं कर्म चादाय भास्वरम जघान चन्द्र वर्माणं बृहत कषत्रं च पौरवम ॥ 63 ॥
ततः सवरथम आस्थाय पाञ्चाल्यॊ ऽनयच च कार्मुकम आदाय कर्णं विव्याध तरिसप्तत्या नदन रणे ॥ 64 ॥
शैनेयॊ ऽपय अन्यद आदाय धनुर इन्द्रायुधद्युति सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत ॥ 65 ॥
भल्लभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम पुनः कर्णं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत ॥ 66 ॥
ततॊ दुर्यॊघनॊ दरॊणॊ राजा चैव जयद्रथः निमज्जमानं राधेयम उज्जह्रुः सात्यकार्णवात ॥ 67 ॥
धृष्टद्युम्नश च भीमश च सौभद्रॊ ऽरजुन एव च नकुलः सहदेवश च सात्यकिं जुगुपू रणे ॥ 68 ॥
एवम एष महारौद्रः कषयार्थं सर्वधन्विनाम तावकानां परेषां च तयक्त्वा पराणान अभूद रणः ॥ 69 ॥
पदातिरथनागाश्वैर गजाश्वरथपत्तयः रथिनॊ नागपत्त्यश्वै रथपत्ती रथद्विपैः ॥ 70 ॥
अश्वैर अश्वा गजैर नागा रथिनॊ रथिभिः सह संसक्ताः समदृश्यन्त पत्तयश चापि पत्तिभिः ॥ 71 ॥
एवं सुकलिलं युद्धम आसीत करव्यादहर्षणम महद्भिस तैर अभीतानां यम राष्ट्रविवर्धनम ॥ 72 ॥
ततॊ हता नररथवाजि कुञ्जरैर; अनेकशॊ दविपरथवाजि पत्तयः गजैर गजा रथिभिर उदायुधा रथा; हयैर हयाः पत्तिगणैश च पत्तयः ॥ 73 ॥
रथैर दविपा दविरदवरैर महाहया; हयैर नरा वररथिभिश च वाजिनः निरस्तजिह्वा दशनेक्षणाः कषितौ; कषयं गताः परमथित वर्म भूषणाः ॥ 74 ॥
तथा परैर बहु करणैर वरायुधैर; हता गताः परतिभय दर्शनाः कषितिम विपॊथिता हयगजपादताडिता; भृशाकुला रथखुर नेमिभिर हताः ॥ 75 ॥
परमॊदने शवापद पक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे महाबलास ते कुपिताः परस्परं; निषूदयन्तः परविचेरुर ओजसा ॥ 76 ॥
ततॊ बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते दिवाकरे ऽसतं गिरिम आस्थिते शनैर; उभे परयाते शिबिराय भारत ॥ 77 ॥
द्रोणपर्व · Drona Parva
अध्याय 31
Reach this point to mark the section finished.
Continue to अध्याय 32