धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 30

  1. [धृ] तेष्व अनीकेषु भग्नेषु पाण्डुपुत्रेण संजय चलितानां दरुतानां च कथम आसीन मनॊ हि वः ॥ 1 ॥

  2. अनीकानां परभग्नानां वयवस्थानम अपश्यताम दुष्करं पतिसंधानं तन ममाचक्ष्व संजय ॥ 2 ॥

  3. [स] तथापि तव पुत्रस्य परियकामा विशां पते यशः परवीरा लॊकेषु रक्षन्तॊ दरॊणम अन्वयुः ॥ 3 ॥

  4. समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे अकुर्वन्न आर्य कर्माणि भैरवे सत्यभीतवत ॥ 4 ॥

  5. अन्तरं भीमसेनस्य परापतन्न अमितौजसः सात्यकेश चैव शूरस्य धृष्टद्युम्नस्य चाभिभॊ ॥ 5 ॥

  6. दरॊणं दरॊणम इति करूराः पाञ्चालाः समचॊदयन मा दरॊणम इति पुत्रास ते कुरून सर्वान अचॊदयन ॥ 6 ॥

  7. दरॊणं दरॊणम इति हय एके मा दरॊणम इति चापरे कुरूणां पाण्डवानां च दरॊण दयूतम अवर्तत ॥ 7 ॥

  8. यं यं सम भजते दरॊणः पाञ्चालानां रथव्रजम तत्र तत्र सम पाञ्चाल्यॊ धृष्टद्युम्नॊ ऽथ धीयते ॥ 8 ॥

  9. यथाभागविपर्यासे संग्रामे भैरवे सति वीराः समासदन वीरान अगच्छन भीरवः परान ॥ 9 ॥

  10. अकम्पनीयाः शत्रूणां बभूवुस तत्र पाण्डवाः अकम्पयंस तव अनीकानि समरन्तः कलेशम आत्मनः ॥ 10 ॥

  11. ते तव अमर्षवशं पराप्ता हरीमन्तः सवत्त्व चॊदिताः तयक्त्वा पराणान नयवर्तन्त घनन्तॊ दरॊणं महाहवे ॥ 11 ॥

  12. अयसाम इव संपातः शिलानाम इव चाभवत दीव्यतां तुमुले युद्धे पराणैर अमिततेजसाम ॥ 12 ॥

  13. न तु समरन्ति संग्रामम अपि वृद्धास तथाविधम दृष्टपूर्वं महाराज शरुतपूर्वम अथापि वा ॥ 13 ॥

  14. पराकम्पतेव पृथिवी तस्मिन वीरावसादने परवर्तता बलौघेन महता भारपीडिता ॥ 14 ॥

  15. घूर्णतॊ हि बलौघस्य दिवं सतब्ध्वेव निस्वनः अजातशत्रॊः करुद्धस्य पुत्रस्य तव चाभवत ॥ 15 ॥

  16. समासाद्य तु पाण्डूनाम अनीकानि सहस्रशः दरॊणेन चरता संख्ये परभग्नानि शितैः शरैः ॥ 16 ॥

  17. तेषु परमथ्यमानेषु दरॊणेनाद्भुत कर्मणा पर्यवारयद आसाद्य दरॊणं सेनापतिः सवयम ॥ 17 ॥

  18. तद अद्भुतम अभूद युद्धं दरॊण पाञ्चाल्ययॊस तदा नैव तस्यॊपमा का चित संभवेद इति मे मतिः ॥ 18 ॥

  19. ततॊ नीलॊ ऽनलप्रख्यॊ ददाह कुरु वाहिनीम शरस्फुलिङ्गश चापार्चिर दहन कक्षम इवानलः ॥ 19 ॥

  20. तं दहन्तम अनीकानि दरॊणपुत्रः परतापवान पूर्वाभिभाषी सुश्लक्ष्णं समयमानॊ ऽभयभाषत ॥ 20 ॥

  21. नीलकिं बहुभिर दग्धैस तव यॊधैः शरार्चिषा मयैकेन हि युध्यस्व करुद्धः परहरचाशुगैः ॥ 21 ॥

  22. तं पद्मनिकराकारं पद्मपत्र निभेक्षणम वयाकॊशपद्माभ मुखं नीलॊ विव्याध सायकैः ॥ 22 ॥

  23. तेनातिविद्धः सहसा दरौणिर भल्लैः शितैस तरिभिः धनुर धवजं च छत्रं च दविषतः स नयकृन्तत ॥ 23 ॥

  24. सॊत्प्लुत्य सयन्दनात तस्मान नीलश चर्म वरासिधृक दरॊणायनेः शिरः कायाद धर्तुम ऐच्छत पतत्रिवत ॥ 24 ॥

  25. तस्यॊद्यतासेः सुनसं शिरः कायात सकुण्डलम भल्लेनापाहरद दरौणिः समयमान इवानघ ॥ 25 ॥

  26. संपूर्णचन्द्राभमुखः पद्मपत्र निभेक्षणः परांशुर उत्पलगर्भाभॊ निहतॊ नयपतत कषितौ ॥ 26 ॥

  27. ततः परविव्यथे सेना पाण्डवी भृशम आकुला आचार्य पुत्रेण हते नीले जवलिततेजसि ॥ 27 ॥

  28. अचिन्तयंश च ते सर्वे पाण्डवानां महारथाः कथं नॊ वासविस तरायाच छत्रुभ्य इति मारिष ॥ 28 ॥

  29. दक्षिणेन तु सेनायाः कुरुते कदनं बली संशप्तकावशेषस्य नारायण बलस्य च ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 31

Previous: अध्याय 29