धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 29

  1. [स] परियम इन्द्रस्य सततं सखायम अमितौजसम हत्वा पराग्ज्यॊतिषं पार्थः परदक्षिणम अवर्तत ॥ 1 ॥

  2. ततॊ गान्धारराजस्य सुतौ परपुरंजयौ आर्छेताम अर्जुनं सख्ये भरातरौ वृषकाचलौ ॥ 2 ॥

  3. तौ समेत्यार्जुनं वीरौ पुरः पश्चाच च धन्विनौ अविध्येतां महावेगैर निशितैर आशुगैर भृशम ॥ 3 ॥

  4. वृषकस्य हयान सूतं धनुश छत्रं रथं धवजम तिलशॊ वयधमत पार्थः सौबलस्य शितैः शरैः ॥ 4 ॥

  5. ततॊ ऽरजुनः शरव्रातैर नानाप्रहरणैर अपि गान्धारान वयाकुलांश चक्रे सौबल परमुखान पुनः ॥ 5 ॥

  6. ततः पञ्चशतान वीरान गान्धारान उद्यतायुधान पराहिणॊन मृत्युलॊकाय करुद्धॊ बाणैर धनंजयः ॥ 6 ॥

  7. हताश्वात तु रथात तूर्णम अवतीर्य महाभुजः आरुरॊह रथं भरातुर अन्यच च धनुर आददे ॥ 7 ॥

  8. ताव एकरथम आरूढौ भरातरौ वृषकाचलौ शरवर्षेण बीभत्सुम अविध्येतां पुनः पुनः ॥ 8 ॥

  9. सयालौ तव महात्मानौ राजानौ वृषकाचलौ भृशं निजघ्नतुः पार्थम इन्द्रं वृत्रबलाव इव ॥ 9 ॥

  10. लब्धलक्ष्यौ तु गान्धाराव अहतां पाण्डवं पुनः निदाघवार्षिकौ मासौ लॊकं घर्माम्बुभिर यथा ॥ 10 ॥

  11. तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ संश्लिष्टाङ्गौ सथितौ राजञ जघानैकेषुणार्जुनः ॥ 11 ॥

  12. तौ रथात समिह संकाशौ लॊहिताक्षौ महाभुजौ गतासू पेततुर वीरौ सॊदर्याव एकलक्षणौ ॥ 12 ॥

  13. तयॊर देहौ रथाद भूमिं गतौ बन्धुजनप्रियौ यशॊ दश दिशः पुण्यं गमयित्वा वयवस्थितौ ॥ 13 ॥

  14. दृष्ट्वा विनिहतौ संख्ये मातुलाव अपलायिनौ भृशं मुमुचुर अश्रूणि पुत्रास तव विशां पते ॥ 14 ॥

  15. निहतौ भरातरौ दृष्ट्वा माया शतविशारदः कृष्णौ संमॊहयन मायां विदधे शकुनिस ततः ॥ 15 ॥

  16. लगुणायॊ गुडाश्मानः शतघ्न्यश च स शक्तयः गदापरिघनिस्त्रिंश शूलमुद्गर पाट्टिशाः ॥ 16 ॥

  17. स कम्पनर्ष्टि नखरा मुसलानि परश्वधाः कषुराः कषुर परनालीका वत्सदन्तास तरिसंधिनः ॥ 17 ॥

  18. चक्राणि विशिखाः परासा विविधान्य आयुधानि च परपेतुः सर्वतॊ दिग्भ्यः परदिग्भ्यश चार्जुनं परति ॥ 18 ॥

  19. खरॊष्ट्रमहिषाः सिंहा वयाघ्राः सृमर चिल्लिकाः ऋक्षाः सालावृका गृध्राः कपयॊ ऽथ सरीसृपाः ॥ 19 ॥

  20. विविधानि च रक्षांसि कषुधितान्य अर्जुनं परति संक्रुद्धान्य अभ्यधावन्त विविधानि वयांसि च ॥ 20 ॥

  21. ततॊ दिव्यास्त्रविच छूरः कुन्तीपुत्रॊ धनंजयः विसृजन्न इषुजालानि सहसा तान्य अताडयत ॥ 21 ॥

  22. ते हन्यमानाः शूरेण परवरैः सायकैर दृढैः विरुवन्तॊ महारावान विनेशुः सर्वतॊ हताः ॥ 22 ॥

  23. ततस तमः परादुरभूद अर्जुनस्य रथं परति तस्माच च तमसॊ वाचः करूराः पार्थम अभर्त्सयन ॥ 23 ॥

  24. तत तमॊ ऽसत्रेण महता जयॊतिषेणार्जुनॊ ऽवधीत हते तस्मिञ जलौघास तु परादुरासन भयानकाः ॥ 24 ॥

  25. अम्भसस तस्य नाशार्थम आदित्यास्त्रम अथार्जुनः परायुङ्क्ताम्भस ततस तेन परायशॊ ऽसत्रेण शॊषितम ॥ 25 ॥

  26. एवं बहुविधा मायाः सौबलस्य कृताः कृताः जघानास्त्र बलेनाशु परहसन्न अर्जुनस तदा ॥ 26 ॥

  27. तथा हतासु मायासु तरस्तॊ ऽरजुन शराहतः अपायाज जवनैर अश्वैः शकुनिः पराकृतॊ यथा ॥ 27 ॥

  28. ततॊ ऽरजुनॊ ऽसत्रविच छरैष्ठ्यं दर्शयन्न आत्मनॊ ऽरिषु अभ्यवर्षच छरौघेण कौरवाणाम अनीकिनीम ॥ 28 ॥

  29. सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी दवैधी भूता महाराज गङ्गेवासाद्य पर्वतम ॥ 29 ॥

  30. दरॊणम एवान्वपद्यन्त के चित तत्र महारथाः के चिद दुर्यॊधनं राजन्न अर्द्यमानाः किरीटिना ॥ 30 ॥

  31. नापश्याम ततस तव एतत सैन्यं वै तमसावृतम गाण्डीवस्य च निर्घॊषः शरुतॊ दक्षिणतॊ मया ॥ 31 ॥

  32. शङ्खदुन्दुभिनिर्घॊषं वादित्राणां च निस्वनम गाण्डीवस्य च निर्घॊषॊ वयतिक्रम्यास्पृशद दिवम ॥ 32 ॥

  33. ततः पुनर दक्षिणतः संग्रामश चित्रयॊधिनाम सुयुद्धम अर्जुनस्यासीद अहं तु दरॊणम अन्वगाम ॥ 33 ॥

  34. नानाविधान्य अनीकानि पुत्राणां तव भारत अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः ॥ 34 ॥

  35. तं वासवम इवायान्तं भूरिवर्षशरौघिणम महेष्वासं नरव्याघ्रं नॊग्रं कश चिद अवारयत ॥ 35 ॥

  36. ते हन्यमानाः पार्थेन तवदीया वयथिता भृशम सवान एव बहवॊ जघ्नुर विद्रवन्तस ततस ततः ॥ 36 ॥

  37. ते ऽरजुनेन शरा मुक्ताः कङ्कपत्रास तनुच्छिदः शलभा इव संपेतुः संवृण्वाना दिशॊ दश ॥ 37 ॥

  38. तुरगं रथिनं नागं पदातिम अपि मारिष विनिर्भिद्य कषितिं जग्मुर वल्मीकम इव पन्नगाः ॥ 38 ॥

  39. न च दवितीयं वयसृजत कुञ्जराश्वनरेषु सः पृथग एकशरारुग्णा निपेतुस ते गतासवः ॥ 39 ॥

  40. हतैर मनुष्यैस तुरगैश च सर्वतः; शराभिवृष्टैर दविरदैश च पातितैः तदा शवगॊमायु बडाभिनादितं; विचित्रम आयॊध शिरॊ बभूव ह ॥ 40 ॥

  41. पिता सुतं तयजति सुहृद वरं सुहृत; तथैव पुत्रः पितरं शरातुरः सवरक्षणे कृतमतयस तदा जनास; तयजन्ति वाहान अपि पार्थ पीडिताः ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 30

Previous: अध्याय 28