धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 28

  1. [धृ] तथा करुद्धः किम अकरॊद भगदत्तस्य पाण्डवः पराग्ज्यॊतिषॊ वा पार्थस्य तन मे शंस यथातथम ॥ 1 ॥

  2. [स] पराग्ज्यॊतिषेण संसक्ताव उभौ दाशार्ह पाण्डवौ मृत्यॊर इवान्तिकं पराप्तौ सर्वभूतानि मेनिरे ॥ 2 ॥

  3. तथा हि शरवर्षाणि पातयत्य अनिशं परभॊ भगदत्तॊ गजस्कन्धात कृष्णयॊः सयन्दनस्थयॊः ॥ 3 ॥

  4. अथ कार्ष्णायसैर बाणैः पूर्णकार्मुकनिःसृतैः अविध्यद देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ 4 ॥

  5. अग्निस्पर्श समास तीक्ष्णा भगदत्तेन चॊदिताः निर्भिद्य देवकीपुत्रं कषितिं जग्मुः शरास ततः ॥ 5 ॥

  6. तस्य पार्थॊ धनुश छित्त्वा शरावापं निहत्य च लाडयन्न इव राजानं भगदत्तम अयॊधयत ॥ 6 ॥

  7. सॊ ऽरकरश्मि निभांस तीक्ष्णांस तॊमरान वै चतुर्दश परेरयत सव्यसाची तांस तरिधैकैकम अथाच्छिनत ॥ 7 ॥

  8. ततॊ नागस्य तद वर्म वयधमत पाकशासनिः शरजालेन स बभौ वयभ्रः पर्वतराड इव ॥ 8 ॥

  9. ततः पराग्ज्यॊतिषः शक्तिं हेमदण्डाम अयस्मयीम वयसृजद वासुदेवाय दविधा ताम अर्जुनॊ ऽचछिनत ॥ 9 ॥

  10. ततश छत्रं धवजं चैव छित्त्वा राज्ञॊ ऽरजुनः शरैः विव्याध दशभिस तूर्णम उत्स्मयन पर्वताधिपम ॥ 10 ॥

  11. सॊ ऽतिविद्धॊ ऽरजुन शरैः सुपुङ्खैः कङ्कपत्रिभिः भगदत्तस ततः करुद्धः पाण्डवस्य महात्मनः ॥ 11 ॥

  12. वयसृजत तॊमरान मूर्ध्नि शवेताश्वस्यॊन्ननाद च तैर अर्जुनस्य समरे किरीटं परिवर्तितम ॥ 12 ॥

  13. परिवृत्तं किरीटं तं यमयन्न एव फल्गुनः सुदृष्टः करियतां लॊक इति राजानम अब्रवीत ॥ 13 ॥

  14. एवम उक्तस तु संक्रुद्धः शरवर्षेण पाण्डवम अभ्यवर्षत स गॊविन्दं धनुर आदाय भस्वरम ॥ 14 ॥

  15. तस्य पार्थॊ धनुश छित्त्वा तूणीरान संनिकृत्य च तवरमाणॊ दविसप्तत्या सर्वमर्मस्व अताडयत ॥ 15 ॥

  16. विद्धस तथाप्य अव्यथितॊ वैष्णवास्त्रम उदीरयन अभिमन्त्र्याङ्कुशं करुद्धॊ वयसृजत पाण्डवॊरसि ॥ 16 ॥

  17. विसृष्टं भगदत्तेन तद अस्त्रं सर्वघातकम उरसा परतिजग्राह पार्थं संछाद्य केशवः ॥ 17 ॥

  18. वैजयन्त्य अभवन माला तद अस्त्रं केशवॊरसि ततॊ ऽरजुनः कलान्तमनाः केशवं परत्यभाषत ॥ 18 ॥

  19. अयुध्यमानस तुरगान संयन्तास्मि जनार्दन इत्य उक्त्वा पुण्डरीकाक्ष परतिज्ञां सवां न रक्षसि ॥ 19 ॥

  20. यद्याहं वयसनी वा सयाम अशक्तॊ वा निवारणे ततस तवयैवं कार्यं सयान न तु कार्यं मयि सथिते ॥ 20 ॥

  21. स बाणः सधनुश चाहं स सुरासुरमानवान शक्तॊ लॊकान इमाञ जेतुं तच चापि विदितं तव ॥ 21 ॥

  22. ततॊ ऽरजुनं वासुदेवः परत्युवाचार्थवद वचः शृणु गुह्यम इदं पार्थ यथावृत्तं पुरानघ ॥ 22 ॥

  23. चतुर्मूर्तिर अहं शश्वल लॊकत्राणार्थम उद्यतः आत्मानं परविभज्येह लॊकानां हितम आदधे ॥ 23 ॥

  24. एका मूर्तिस तपश्चर्यां कुरुते मे भुवि सथिता अपरा पश्यति जगत कुर्वाणं साध्वसाधुनी ॥ 24 ॥

  25. अपरा कुरुते कर्म मानुषं लॊकम आश्रिता शेते चतुर्थी तव अपरा निद्रां वर्षसहस्रिकाम ॥ 25 ॥

  26. यासौ वर्षसहस्रान्ते मूर्तिर उत्तिष्ठते मम वरार्हेभ्यॊ वराञ शरेष्ठांस तस्मिन काले ददाति सा ॥ 26 ॥

  27. तं तु कालम अनुप्राप्तं विदित्वा पृथिवी तदा परायाचत वरं यं मां नरकार्थाय तं शृणु ॥ 27 ॥

  28. देवानाम असुराणां च अवध्यस तनयॊ ऽसतु मे उपेतॊ वैष्णवास्त्रेण तन मे तवं दातुम अर्हसि ॥ 28 ॥

  29. एवं वरम अहं शरुत्वा जगत्यास तनये तदा अमॊघम अस्त्रम अददं वैष्णवं तद अहं पुरा ॥ 29 ॥

  30. अवॊचं चैतद अस्त्रं वै हय अमॊघं भवतु कषमे नरकस्याभिरक्षार्थं नैनं कश चिद वधिष्यति ॥ 30 ॥

  31. अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः भविष्यति दुराधर्षः सर्वलॊकेषु सर्वदा ॥ 31 ॥

  32. तथेत्य उक्त्वा गता देवी कृतकामा मनस्विनी स चाप्य आसीद दुराधर्षॊ नरकः शत्रुतापनः ॥ 32 ॥

  33. तस्मात पराग्ज्यॊतिषं पराप्तं तद अस्त्रं पार्थ मामकम नास्यावध्यॊ ऽसति लॊकेषु सेन्द्ररुद्रेषु मारिष ॥ 33 ॥

  34. तन मया तवत्कृतेनैतद अन्यथा वयपनाशितम वियुक्तं परमास्त्रेण जहि पार्थ महासुरम ॥ 34 ॥

  35. वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम यथाहं जघ्निवान पूर्वं हितार्थं नरकं तथा ॥ 35 ॥

  36. एवम उक्तस ततः पार्थः केशवेन महात्मना भगदत्तं शितैर बाणैः सहसा समवाकिरत ॥ 36 ॥

  37. ततः पार्थॊ महाबाहुर असंभ्रान्तॊ महामनाः कुम्भयॊर अन्तरे नागं नाराचेन समार्पयत ॥ 37 ॥

  38. समासाद्य तु तं नागं बाणॊ वज्र इवाचलम अभ्यगात सह पुङ्खेन वल्मीकम इव पन्नगः ॥ 38 ॥

  39. स तु विष्टभ्य गात्राणि दन्ताभ्याम अवनिं ययौ नदन्न आर्तस्वरं पराणान उत्ससर्ज महाद्विपः ॥ 39 ॥

  40. ततश चन्द्रार्धबिम्बेन शरेण नतपर्वणा बिभेद हृदयं राज्ञॊ भगदत्तस्य पाण्डवः ॥ 40 ॥

  41. स भिन्नहृदयॊ राजा भगदत्तः किरीटिना शरासनं शरांश चैव गतासुः परमुमॊच ह ॥ 41 ॥

  42. शिरसस तस्य विभ्रष्टः पपात च वराङ्कुशः नालताडन विभ्रष्टं पलाशं नलिनाद इव ॥ 42 ॥

  43. स हेममाली तपनीयभाण्डात; पपात नागाद गिरिसंनिकाशात सुपुष्पितॊ मारुतवेगरुग्णॊ; महीधराग्राद इव कर्णिकारः ॥ 43 ॥

  44. निहत्य तं नरपतिम इन्द्र विक्रमं; सखायम इन्द्रस्य तथैन्द्रिर आहवे ततॊ ऽपरांस तव जयकाङ्क्षिणॊ नरान; बभञ्ज वायुर बलवान दरुमान इव ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 29

Previous: अध्याय 27