[स] यन मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि तच छृणुष्व महाराज पार्थॊ यद अकरॊन मृधे ॥ 1 ॥
रजॊ दृष्ट्वा समुद्भूतं शरुत्वा च गजनिस्वनम भज्यतां भगदत्तेन कौन्तेयः कृष्णम अब्रवीत ॥ 2 ॥
यथा पराग्ज्यॊतिषॊ राजा गजेन मधुसूदन तवरमाणॊ ऽभयतिक्रान्तॊ धरुवं तस्यैष निस्वनः ॥ 3 ॥
इन्द्राद अनवरः संख्ये गजयानविशारदः परथमॊ वा दवितीयॊ वा पृथिव्याम इति मे मतिः ॥ 4 ॥
स चापि दविरदश्रेष्ठः सदा परतिगजॊ युधि सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः ॥ 5 ॥
सहः शस्त्रनिपातानाम अग्निस्पर्शस्य चानघ स पाण्डव बलं वयक्तम अद्यैकॊ नाशयिष्यति ॥ 6 ॥
न चावाभ्याम ऋते ऽनयॊ ऽसति शक्तस तं परतिबाधितुम तवरमाणस ततॊ याहि यतः पराग्ज्यॊतिषाधिपः ॥ 7 ॥
शक्र सख्याद दविपबलैर वयसा चापि विस्मितम अद्यैनं परेषयिष्यामि बलहन्तुः परियातिथिम ॥ 8 ॥
वचनाद अथ कृष्णस तु परययौ सव्यसाचिनः दार्यते भगदत्तेन यत्र पाण्डव वाहिनी ॥ 9 ॥
तं परयान्तं ततः पश्चाद आह्वयन्तॊ महारथाः संशप्तकाः समारॊहन सहस्राणि चतुर्दश ॥ 10 ॥
दशैव तु सहस्राणि तरिगर्तानां नराधिप चत्वारि तु सहस्राणि वासुदेवस्य ये ऽनुगाः ॥ 11 ॥
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष आहूयमानस्य च तैर अभवद धृदयं दविधा ॥ 12 ॥
किं नु शरेयः करं कर्म भवेद इति विचिन्तयन इतॊ वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम ॥ 13 ॥
तस्य बुद्ध्या विचार्यैतद अर्जुनस्य कुरूद्वह अभवद भूयसी बुद्धिः संशप्तकवधे सथिरा ॥ 14 ॥
स संनिवृत्तः सहसा कपिप्रवर केतनः एकॊ रथसहस्राणि निहन्तुं वासवी रणे ॥ 15 ॥
सा हि दुर्यॊधनस्यासीन मतिः कर्णस्य चॊभयॊः अर्जुनस्य वधॊपाये तेन दवैधम अकल्पयत ॥ 16 ॥
स तु संवर्तयाम आस दवैधी भावेन पाण्डवः रथेन तु रथाग्र्याणाम अकरॊत तां मृषा तदा ॥ 17 ॥
ततः शतसहस्राणि शराणां नतपर्वणाम वयसृजन्न अर्जुने राजन संशप्तकमहारथाः ॥ 18 ॥
नैव कुन्तीसुतः पार्थॊ नैव कृष्णॊ जनार्दनः न हया न रथॊ राजन दृश्यन्ते सम शरैश चिताः ॥ 19 ॥
यदा मॊहम अनुप्राप्तः स सवेदश च जनार्दनः ततस तान परायशः पार्थॊ वज्रास्त्रेण निजघ्निवान ॥ 20 ॥
शतशः पाणयश छिन्नाः सेषु जयातलकार्मुकाः केतवॊ वाजिनः सूता रथिनश चापतन कषितौ ॥ 21 ॥
दरुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः हतारॊहाः कषितौ पेतुर दविपाः पार्थ शराहताः ॥ 22 ॥
विप्र विद्ध कुथा वल्गाश छिन्नभाण्डाः परासवः सारॊहास तुरगाः पेतुर मथिताः पार्थ मार्गणैः ॥ 23 ॥
सर्ष्टि चर्मासि नखराः स मुद्गरपरश्वधाः संछिन्ना बाहवः पेतुर नृणां भल्लैः किरीटिना ॥ 24 ॥
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष संछिन्नान्य अर्जुन शरैः शिरांस्य उर्वीं परपेदिरे ॥ 25 ॥
जज्वालालंकृतैः सेनापत्रिभिः पराणभॊजनैः नाना लिङ्गैर अदामित्रान करुद्धे निघ्नति फल्गुने ॥ 26 ॥
कषॊभयन्तं तदा सेनां दविरदं नलिनीम इव धनंजयं भूतगणाः साधु साध्व इत्य अपूजयन ॥ 27 ॥
दृष्ट्वा तत कर्म पार्थस्य वासवस्येव माधवः विस्मयं परमं गत्वा तलम आहत्य पूजयत ॥ 28 ॥
ततः संशप्तकान हत्वा भूयिष्ठं ये वयवस्थिताः भगदत्ताय याहीति पार्थः कृष्णम अचॊदयत ॥ 29 ॥
द्रोणपर्व · Drona Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27