धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 25

  1. [धृ] तेष्व एवं संनिवृत्तेषु परत्युद्यातेषु भागशः कथं युयुधिरे पार्था मामकाश च तरस्विनः ॥ 1 ॥

  2. किम अर्जुनश चाप्य अकरॊत संशप्तकबलं परति संशप्तका वा पार्थस्य किम अकुर्वत संजय ॥ 2 ॥

  3. [स] तथा तेषु निवृत्तेषु परत्युद्यातेषु भागशः सवयम अभ्यद्रवद भीमं नागानीकेन ते सुतः ॥ 3 ॥

  4. स नाग इव नागेन गॊवृषेणेव गॊवृषः समाहूतः सवयं राज्ञा नागानीकम उपाद्रवत ॥ 4 ॥

  5. स युद्धकुशलः पार्थॊ बाहुवीर्येण चान्वितः अभिनत कुञ्जरानीकम अचिरेणैव मारिष ॥ 5 ॥

  6. ते गजा गिरिसंकाशाः कषरन्तः सर्वतॊ मदम भीमसेनस्य नाराचैर विमुखा विमदी कृताः ॥ 6 ॥

  7. विधमेद अभ्रजालानि यथा वायुः समन्ततः वयधमत तान्य अनीकानि तथैव पवनात्मजः ॥ 7 ॥

  8. स तेषु विसृजन बाणान भीमॊ नागेष्व अशॊभत भुवनेष्व इव सर्वेषु गभस्तीन उदितॊ रविः ॥ 8 ॥

  9. ते भीम बाणैः शतशः संस्यूता विबभुर गजाः गभस्तिभिर इवार्कस्य वयॊम्नि नाना बलाहकाः ॥ 9 ॥

  10. तथा गजानां कदनं कुर्वाणम अनिलात्मजम करुद्धॊ दुर्यॊधनॊ ऽभयेत्य परत्यविध्यच छितैः शरैः ॥ 10 ॥

  11. ततः कषणेन कषितिपं कषतजप्रतिमेक्षणः कषयं निनीषुर निशितैर भीमॊ विव्याध पत्रिभिः ॥ 11 ॥

  12. स शरार्पित सर्वाङ्गः करुद्धॊ विव्याध पाण्डवम नाराचैर अर्करश्म्य आभैर भीमसेनं समयन्न इव ॥ 12 ॥

  13. तस्य नागं मणिमयं रत्नचित्रं धवजे सथितम भल्लाभ्यां कार्मुकं चैव कषिप्रं चिच्छेद पाण्डवः ॥ 13 ॥

  14. दुर्यॊधनं पीड्यमानं दृष्ट्वा भीमेन मारिष चुक्षॊभयिषुर अभ्यागाद अङ्गॊ मातङ्गम आस्थितः ॥ 14 ॥

  15. तम आपतन्तं मातङ्गम अम्बुदप्रतिमस्वनम कुम्भान्तरे भीमसेनॊ नाराचेनार्दयद भृशम ॥ 15 ॥

  16. तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ततः पपात दविरदॊ वज्राहत इवाचलः ॥ 16 ॥

  17. तस्यावर्जितनागस्य मेच्छस्यावपतिष्यतः शिरश चिच्छेद भल्लेन कषिप्रकारी वृकॊदरः ॥ 17 ॥

  18. तस्मिन निपतिते वीरे संप्राद्रवत सा चमूः संभ्रांताश्वद्विपरथा पदातीन अवमृद्नती ॥ 18 ॥

  19. तेष्व अनीकेषु सर्वेषु विद्रवत्सु समन्ततः पराग्ज्यॊतिषस ततॊ भीमं कुञ्जरेण समाद्रवत ॥ 19 ॥

  20. येन नागेन मघवान अजयद दैत्यदानवान स नागप्रवरॊ भीमं सहसा समुपाद्रवत ॥ 20 ॥

  21. शरवणाभ्याम अथॊ पद्भ्यां संहतेन करेण च वयावृत्तनयनः करुद्धः परदहन्न इव पाण्डवम ॥ 21 ॥

  22. ततः सर्वस्य सैन्यस्य नादः समभवन महान हाहा विनिहतॊ भीमः कुञ्जरेणेति मारिष ॥ 22 ॥

  23. तेन नादेन वित्रस्ता पाण्डवानाम अनीकिनी समहाभ्यद्रवद राजन यत्र तस्थौ वृकॊदरः ॥ 23 ॥

  24. ततॊ युधिष्ठिरॊ राजा हतं मत्वा वृकॊदरम भगदत्तं सपाञ्चालः सर्वतः समवारयत ॥ 24 ॥

  25. तं रथै रथिनां शरेष्ठाः परिवार्य समन्ततः अवाकिरञ शैरस तीक्ष्णैः शतशॊ ऽथ सहस्रशः ॥ 25 ॥

  26. स विघातं पृषत्कानाम अङ्कुशेन समाचरन गजेन पाण्डुपाञ्चालान वयधमत पर्वतेश्वरः ॥ 26 ॥

  27. तद अद्भुतम अपश्याम भगदत्तस्य संयुगे तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥ 27 ॥

  28. ततॊ राजा दशार्णानां पराग्ज्यॊतिषम उपाद्रवत तिर्यग यातेन नागेन स मदेनाशु गामिना ॥ 28 ॥

  29. तयॊर युद्धं समभवन नागयॊर भीमरूपयॊः स पक्षयॊः पर्वतयॊर यथा स दरुमयॊः पुरा ॥ 29 ॥

  30. पराग्ज्यॊतिषपतेर नागः संनिपत्यापवृत्य च पार्श्वे दशार्णाधिपतेर भित्त्वा नागम अपातयत ॥ 30 ॥

  31. तॊमरैः सूर्यरश्म्य आभैर भगदत्तॊ ऽथ संपभिः जघान दविरदस्थं तं शत्रुं परचलितासनम ॥ 31 ॥

  32. उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः रथानीकेन महता सर्वतः पर्यवारयत ॥ 32 ॥

  33. स कुञ्जरस्थॊ रथिभिः शुशुभे सर्वतॊवृतः पर्वते वनमध्यस्थॊ जवलन्न इव हुताशनः ॥ 33 ॥

  34. मण्डलं सर्वतः शलिष्टं रथिनाम उग्रधन्विनाम किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ 34 ॥

  35. ततः पराग्ज्यॊतिषॊ राजा परिगृह्य दविपर्षभम परेषयाम आस सहसा युयुधानरथं परति ॥ 35 ॥

  36. शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः अभिचिक्षेप वेगेन युयुधानस तव अपाक्रमत ॥ 36 ॥

  37. बृहतः सैन्धवान अश्वान समुत्थाप्य तु सारथिः तस्थौ सात्यकिम आसाद्य संप्लुतस तं रथं पुनः ॥ 37 ॥

  38. स तु लब्ध्वान्तरं नागस तवरितॊ रथमण्डलात निश्चक्राम ततः सर्वान परिचिक्षेप पार्थिवान ॥ 38 ॥

  39. ते तव आशुगतिना तेन तरास्यमाना नरर्षभाः तम एकं दविरदं संख्ये मेनिरे शतशॊ नृपाः ॥ 39 ॥

  40. ते जगस्थेन काल्यन्ते भगदत्तेन पाण्डवाः ऐरावतस्थेन यथा देवराजेन दानवाः ॥ 40 ॥

  41. तेषां परद्रवतां भीमः पाञ्चालानाम इतस ततः गजवाजिकृतः शब्दः सुमहान समजायत ॥ 41 ॥

  42. भगदत्तेन समरे काल्यमानेषु पाण्डुषु पराग्ज्यॊतिषम अभिक्रुद्धः पुनर भीमः समभ्ययात ॥ 42 ॥

  43. तस्याभिद्रवतॊ वाहान हस्तमुक्तेन वारिणा सिक्त्वा वयत्रासयन नागस ते पार्थम अहरंस ततः ॥ 43 ॥

  44. ततस तम अभ्ययात तूर्णं रुचि पर्वाकृती सुतः समुक्षञ शरवर्षेण रथस्थॊ ऽनतकसंनिभः ॥ 44 ॥

  45. ततॊ रुचिरपर्वाणं शरेण नतपर्वणा सुपर्वा पर्वत पतिर निन्ये वैवस्वतक्षयम ॥ 45 ॥

  46. तस्मिन निपतिते वीरे सौभद्रॊ दरौपदी सुताः चेकितानॊ धृष्टकेतुर युयुत्सुश चार्दयन दविपम ॥ 46 ॥

  47. त एनं शरधाराभिर धाराभिर इव तॊयदाः सिषिचुर भैरवान नादान विनदन्तॊ जिघांसवः ॥ 47 ॥

  48. ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चॊदितॊ दविपः परसारित करः परायात सतब्धकर्णेक्षणॊ दरुतम ॥ 48 ॥

  49. सॊ ऽधिष्ठाय पदा वाहान युयुत्सॊः सूतम आरुजत पुत्रस तु तव संभ्रान्तः सौभद्रस्याप्लुतॊ रथम ॥ 49 ॥

  50. स कुञ्जरस्थॊ विसृजन्न इषून अरिषु पार्थिवः बभौ रश्मीन इवादित्यॊ भुवनेषु समुत्सृजन ॥ 50 ॥

  51. तम आर्जुनिर दवादशभिर युयुत्सुर दशभिः शरैः तरिभिस तरिभिर दरौपदेया धृष्टकेतुश च विव्यधुः ॥ 51 ॥

  52. सॊ ऽरियत्नार्पितैर बाणैर आचितॊ दविरदॊ बभौ संस्यूत इव सूर्यस्य रश्मिभिर जलदॊ महान ॥ 52 ॥

  53. नियन्तुः शिल्पयत्नाभ्यां परेषितॊ ऽरिशरार्दितः परिचिक्षेप तान नागः स रिपून सव्यदक्षिणम ॥ 53 ॥

  54. गॊपाल इव दण्डेन यथा पशुगणान वने आवेष्टयत तां सेनां भगदत्तस तथा मुहुः ॥ 54 ॥

  55. कषिप्रं शयेनाभिपन्नानां वायसानाम इव सवनः बभूव पाण्डवेयानां भृशं विद्रवतां सवनः ॥ 55 ॥

  56. स नागराजः परवराङ्कुशाहतः; पुरा स पक्षॊ ऽदरिवरॊ यथा नृप भयं तथा रिपुषु समादधद भृशं; वणिग गणानां कषुभितॊ यथार्णवः ॥ 56 ॥

  57. ततॊ धवनिर दविरदरथाश्वपार्थिवैर; भयाद दरवद्भिर जनितॊ ऽतिभैरवः कषितिं वियद दयां विदिशॊ दिशस तथा; समावृणॊत पार्थिवसंयुगे तदा ॥ 57 ॥

  58. स तेन नागप्रवरेण पार्थिवॊ; भृशं जगाहे दविषताम अनीकिनीम पुरा सुगुप्तां विबुधैर इवाहवे; विरॊचनॊ देववरूथिनीम इव ॥ 58 ॥

  59. भृशं ववौ जवलनसखॊ वियद रजः; समावृणॊन मुहुर अपि चैव सैनिकान तम एकनागं गणशॊ यथा गजाः; समन्ततॊ दरुतम इव मेनिरे जनाः ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 26

Previous: अध्याय 24