[धृ] वयथयेयुर इमे सेनां देवानाम अपि संयुगे आहवे ये नयवर्तन्त वृकॊदर मुखा रथाः ॥ 1 ॥
संप्रयुक्तः किलैवायं दिष्टैर भवति पूरुषः तस्मिन्न एव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ॥ 2 ॥
दीर्घं विप्रॊषितः कालम अरण्ये जटिलॊ ऽजनी अज्ञातश चैव लॊकस्य विजहार युधिष्ठिरः ॥ 3 ॥
स एव महतीं सेनां समावर्तयद आहवे किम अन्यद दैवसंयॊगान मम पुत्रस्य चाभवत ॥ 4 ॥
युक्त एव हि भाग्येन धरुवम उत्पद्यते नरः स तथाकृष्यते तेन न यथा सवयम इच्छति ॥ 5 ॥
दयूतव्यसनम आसाद्य कलेशितॊ हि युधिष्ठिरः स पुनर भागधेयेन सहायान उपलब्धवान ॥ 6 ॥
अर्धं मे केकया लब्धाः काशिकाः कॊसलाश च ये चेदयश चापरे वङ्गा माम एव समुपाश्रिताः ॥ 7 ॥
पृथिवी भूयसी तात मम पार्थस्य नॊ तथा इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनस तदा ॥ 8 ॥
तस्य सेना समूहस्य मध्ये दरॊणः सुरक्षितः निहतः पार्षतेनाजौ किम अन्यद भागधेयतः ॥ 9 ॥
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम सर्वास्त्रपारगं दरॊणं कथं मृत्युर उपेयिवान ॥ 10 ॥
समनुप्राप्त कृच्छ्रॊ ऽहं संमॊहं परमं गतः भीष्मद्रॊणौ हतौ शरुत्वा नाहं जीवितुम उत्सहे ॥ 11 ॥
यन मा कषत्ताभ्रवीत तात परपश्यन पुत्रगृद्धिनम दुर्यॊधनेन तत सर्वं पराप्तं सूत मया सह ॥ 12 ॥
नृशंसं तु परं तत सयात तयक्त्वा दुर्यॊधनं यदि पुत्र शेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत ॥ 13 ॥
यॊ हि धर्मं परित्यज्य भवत्य अर्थपरॊ नरः सॊ ऽसमाच च हीयते लॊकात कषुद्रभावं च गच्छति ॥ 14 ॥
अद्य चाप्य अस्य राष्ट्रस्य हतॊत्साहस्य संजय अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 15 ॥
कथं सयाद अवशेषं हि धुर्ययॊर अभ्यतीतयॊः यौ नित्यम अनुजीवामः कषमिणौ पुरुषर्षभौ ॥ 16 ॥
वयक्तम एव च मे शंस यथा युद्धम अवर्तत के ऽयुध्यन के वयपाकर्षन के कषुद्राः पराद्रवन भयात ॥ 17 ॥
धनंजयं च मे शंस यद यच चक्रे रथर्षभः तस्माद भयं नॊ भूयिष्ठं भरातृव्याच च विशेषतः ॥ 18 ॥
यथासीच च निवृत्तेषु पाण्डवेषु च संजय मम सैन्यावशेषस्य संनिपातः सुदारुणः मामकानां च ये शूराः कांस तत्र समवारयन ॥ 19 ॥
द्रोणपर्व · Drona Parva
अध्याय 23
Reach this point to mark the section finished.
Continue to अध्याय 24