[धृ] सर्वेषाम एव मे बरूहि रथचिह्नानि संशय ये दरॊणम अभ्यवर्तन्त करुद्धा भीम पुरॊगमाः ॥ 1 ॥
[स] ऋश्य वर्णैर हयैर दृष्ट्वा वयायच्छन्तं वृकॊदरम रजताश्वस ततः शूरः शैनेयः संन्यवर्तत ॥ 2 ॥
दर्शनीयास तु काम्बॊजाः शुकपत्रपरिच्छदाः वहन्तॊ नकुलं शीघ्रं तावकान अभिदुद्रुवुः ॥ 3 ॥
कृष्णास तु मेघसंकाशाः सहदेवम उदायुधम भीमवेगा नरव्याघ्रम अवहन वातरंहसः ॥ 4 ॥
हेमॊत्तम परतिच्छन्नैर हयैर वातसमैर जवे अभ्यवर्तन्त सैन्यानि सर्वाण्य एव युधिष्ठिरम ॥ 5 ॥
राज्ञस तव अनन्तरं राजा पाञ्चाल्यॊ दरुपदॊ ऽभवत जातरूपमयच छत्रः सर्वैः सवैर अभिरक्षितः ॥ 6 ॥
ललामैर हरिभिर युक्तैः सर्वशब्दक्षमैर युधि राज्ञां मध्ये महेष्वासः शान्तभीर अभ्यवर्तत ॥ 7 ॥
तं विराटॊ ऽनवयात पश्चात सह शूरैर महारथैः केकयाश च शिखण्डी च धृष्टकेतुस तथैव च सवैः सवैः सैन्यैः परिवृता मत्स्यराजानम अन्वयुः ॥ 8 ॥
ते तु पाटल पुष्पाणां समवर्णा हयॊत्तमाः वहमाना वयराजन्त मत्स्यस्यामित्र घातिनः ॥ 9 ॥
हारिद्र समवर्षास तु जवना हेममालिनः पुत्रं विराट राजस्य स तवराः समुदावहन ॥ 10 ॥
इन्द्रगॊपक वर्णैस तु भरातरः पञ्च केकयाः जातरूपसमाभासः सेवे लॊहितक धवजाः ॥ 11 ॥
ते हेममालिनः शूराः सर्वे युद्धविशारदाः वर्षन्त इव जीमूताः परत्यदृश्यन्त दंशिताः ॥ 12 ॥
आमपात्रनिभाकाराः पाञ्चाल्यम अमितौजसम दान्तास ताम्रारुणा युक्ताः शिखण्डिनम उदावहन ॥ 13 ॥
तथा दवादश साहस्राः पाञ्चालानां महारथाः तेषां तु षट सहस्राणि ये शिखण्डिनम अन्वयुः ॥ 14 ॥
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष आक्रीडन्तॊ वहन्ति सम सारङ्गशबला हयाः ॥ 15 ॥
धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः काम्बॊजैः शबलैर अश्वैर अभ्यवर्तत दुर्जयः ॥ 16 ॥
बृहत कषत्रं तु कैकेयं सुकुमारं हयॊत्तमाः पलाल धूमवर्णाभाः सैन्धवाः शीघ्रम आवहन ॥ 17 ॥
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः सवलंकृताः शूरं शिखण्डिनः पुत्रं कषत्रदेवम उदावहन ॥ 18 ॥
युवानम अवहन युद्धे करौञ्चवर्णा हयॊत्तमाः काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम ॥ 19 ॥
शवेतास तु परतिविन्ध्यं तं कृष्ण गरीवा मनॊजवाः यन्तुः परेष्यकरा राजन राजपुत्रम उदावहन ॥ 20 ॥
सुत सॊमं तु यं धौम्यात पार्थः पुत्रम अयाचत माषपुष्पसवर्णास तम अवहन वाजिनॊ रणे ॥ 21 ॥
सहस्रसॊमप्रतिमा बभूवुः; पुरे कुरूणाम उदयेन्दु नाम्नि तस्मिञ जातः सॊमसंक्रन्दमध्ये; यस्मात तस्मात सुत सॊमॊ ऽभवत सः ॥ 22 ॥
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः आदित्यतरुण परख्याः शलाघनीयम उदावहन ॥ 23 ॥
काञ्चनप्रतिमैर यॊक्त्रैर मयूरग्रीव संनिभाः दरौपदेयं नरव्याघ्रं शरुतकर्माणम आवहन ॥ 24 ॥
शरुतकीर्तिं शरुतनिधिं दरौपदेयं हयॊत्तमाः ऊहुः पार्थ समं युद्धे चाष पत्रनिभा हयाः ॥ 25 ॥
यम आहुर अध्यर्धगुणं कृष्णात पार्थाच च संयुगे अभिमन्युं पिशङ्गास तं कुमारम अवहन रणे ॥ 26 ॥
एकस तु धार्तराष्ट्रेभ्यः पाण्डवान यः समाश्रितः तं बृहन्तॊ महाकाया युयुत्सुम अवहन रणे ॥ 27 ॥
पलाल काण्डवर्णास तु बार्धक्षेमिं तरस्विनम ऊहुः सुतुमुले युद्धे हया हृष्टाः सवलंकृताः ॥ 28 ॥
कुमारं शिति पादास तु रुक्मपत्रैर उरश छदैः सौचित्तिम अवहन युद्धे यन्तुः परेष्यकरा हयाः ॥ 29 ॥
रुक्मपृष्ठावकीर्णास तु कौशेयसदृशा हयाः सुवर्णमालिनः कषान्ताः शरेणिमन्तम उदावहन ॥ 30 ॥
रुक्ममाला धराः शूरा हेमवर्णाः सवलंकृताः काशिराजं हयश्रेष्ठाः शलाघनीयम उदावहन ॥ 31 ॥
अस्त्राणां च धनुर्वेदे बराह्म वेदे च पारगम तं सत्यधृतिम आयान्तम अरुणाः समुदावहन ॥ 32 ॥
यः सपाञ्चाल सेनानीर दरॊणम अंशम अकल्पयत पारावत सवर्णाश्वा धृष्टद्युम्नम उदावहन ॥ 33 ॥
तम अन्वयात सत्यधृतिः सौचित्तिर युद्धदुर्मदः शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभॊ ॥ 34 ॥
युक्तैः परमकाम्बॊजैर जवनैर हेममालिभिः भीषयन्तॊ दविषत सैन्यं यम वैश्रवणॊपमाः ॥ 35 ॥
परभद्रकास तु पाञ्चालाः षट सहस्राण्य उदायुधाः नानावर्णैर हयश्रेष्ठैर हेमचित्ररथध्वजाः ॥ 36 ॥
शरव्रातैर विधुन्वन्तः शत्रून विततकार्मुकाः समानमृत्यवॊ भूत्वा धृष्टद्युम्नं समन्वयुः ॥ 37 ॥
बभ्रु कौशेयवर्णास तु सुवर्णवरमालिनः ऊहुर अग्लान मनसश चेकितानं हयॊत्तमाः ॥ 38 ॥
इन्द्रायुधसवर्णैस तु कुन्तिभॊजॊ हयॊत्तमैः आया सुवश्यैः पुरुजिन मातुलः सव्यसाचिनः ॥ 39 ॥
अन्तरिक्षसवर्णास तु तारका चित्रिता इव राजानं रॊचमानं ते हयाः संख्ये समावहन ॥ 40 ॥
कर्बुराः शिति पादास तु सवर्णजालपरिच्छदाः जारा संधिं हयश्रेष्ठाः सहदेवम उदावहन ॥ 41 ॥
ये तु पुष्कर नालस्य समवर्णा हयॊत्तमाः जवे शयेनसमाश चित्राः सुदामानम उदावहन ॥ 42 ॥
शशलॊहित वर्म्णास तु पाण्डुरॊद्गत राजयः पाञ्चाल्यं गॊपतेः पुत्रं सिंहसेनम उदावहन ॥ 43 ॥
पाञ्चालानां नरव्याघ्रॊ यः खयातॊ जनमेजयः तस्य सर्षप पुष्पाणां तुल्यवर्णा हयॊत्तमाः ॥ 44 ॥
माषवर्णास तु जवना बृहन्तॊ हेममालिनः दधि पृष्ठाश चन्द्र मुखाः पाञ्चाल्यम अवहन दरुतम ॥ 45 ॥
शूराश चभद्रकाश चैव शरकाण्डनिभा हयाः पद्मकिञ्जल्क वर्णाभा दण्डधारम उदावहन ॥ 46 ॥
बिभ्रतॊ हेममालाश च चक्रवाकॊदरा हयाः कॊसलाधिपतेः पुत्रं सुक्षत्रं वाजिनॊ ऽवहन ॥ 47 ॥
शबलास तु बृहन्तॊ ऽशवा दान्ता जाम्बूनदस्रजः युद्धे सत्यधृतिं कषौमिम अवहन परांशवः शुभाः ॥ 48 ॥
एकवर्णेन सर्वेण धवजेन कवचेन च अश्वैश च धनुषा चैव शुक्लैः शुक्लॊ नयवर्तत ॥ 49 ॥
समुद्रसेनपुत्रं तु सामुद्रा रुद्र तेजसम अश्वाः शशाङ्कसदृशाश चन्द्र देवम उदावहन ॥ 50 ॥
नीलॊत्पलसवर्णास तु तपनीयविभूषिताः शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन हयाः ॥ 51 ॥
कलाय पुष्पवर्णास तु शवेतलॊहित राजयः रथसेनं हयश्रेष्ठाः समूहुर युद्धदुर्मदम ॥ 52 ॥
यं तु सर्वमनुष्येभ्यः पराहुः शूरतरं नृपम तं पटच चर हन्तारं शुकवर्णावहन हयाः ॥ 53 ॥
चित्रायुधं चित्रमाल्यं चित्रवर्मायुध धवजम ऊहुः किंशुकपुष्पाणां तुक्य वर्णा हयॊत्तमाः ॥ 54 ॥
एकवर्णेन सर्वेण धवजेन कवचेन च धनुषा रथवाहैश च नीलैर नीलॊ ऽभयवर्तत ॥ 55 ॥
नानारूपै रत्नचित्रैर वरूथ धवजकार्मुकैः वाजिध्वजपताकाभिश चित्रैश चित्रॊ ऽभयवर्तत ॥ 56 ॥
ये तु पुष्कर पत्रस्य तुल्यवर्णा हयॊत्तमाः ते रॊचमानस्य सुतं हेमवर्णम उदावहन ॥ 57 ॥
यॊधाश च भद्रकाराश च शरद अण्डान उदन्डजाः शवेताण्डाः कुक्कुटाण्डाभा दण्डकेतुम उदावहन ॥ 58 ॥
आट रूषक पुष्पाभा हयाः पाण्ड्यानुयायिनाम अवहन रथमुख्यानाम अयुतानि चतुर्दश ॥ 59 ॥
नानारूपेण वर्णेन नानाकृति मुखा हयाः रथचक्रध्वजं वीरं घटॊत्कचम उदावहन ॥ 60 ॥
सुवर्णवर्णा धर्मज्ञम अनीकस्थं युधिष्ठिरम राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतॊ ऽनवयुः वर्णैश चॊच्चावचैर दिव्यैः सदश्वानां परभद्रकाः ॥ 61 ॥
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः परत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ 62 ॥
अत्यरॊचत तान सर्वान धृष्टद्युम्नः समागतान सर्वाण्य अपि च सैन्यानि भारद्वाजॊ ऽतयरॊचत ॥ 63 ॥
द्रोणपर्व · Drona Parva
अध्याय 22
Reach this point to mark the section finished.
Continue to अध्याय 23