धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 21

  1. [धृ] भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे पाञ्चालेषु च सर्वेषु कश चिद अन्यॊ ऽभयवर्तत ॥ 1 ॥

  2. आर्यां युद्धे मतिं कृत्वा कषत्रियाणां यशस्करीम असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ 2 ॥

  3. स हि वीरॊ नरः सूत यॊ भग्नेषु निवर्तते अहॊ नासीत पुमान कश चिद दृष्ट्वा दरॊणं वयवस्थितम ॥ 3 ॥

  4. जृम्भमाणम इव वयाघ्रं परभिन्नम इव कुञ्जरम तयजन्तम आहवे पराणान संनद्धं चित्रयॊधिनम ॥ 4 ॥

  5. महेष्वासं नरव्याघ्रं दविषताम अघवर्धनम कृतज्ञं सत्यनिरतं दुर्यॊधनहितैषिणम ॥ 5 ॥

  6. भारद्वाजं तथानीके दृष्ट्वा शूरम अवस्थितम के वीराः संन्यवर्तन्त तन ममाचक्ष्व संजय ॥ 6 ॥

  7. [स] तान दृष्ट्वा चलितान संख्ये परणुन्नान दरॊण सायकैः पाञ्चालान पाण्डवान मत्स्यान सृञ्जयांश चेदिकेकयान ॥ 7 ॥

  8. दरॊण चापविमुक्तेन शरौघेणासु हारिणा सिन्धॊर इव महौघेन हरियमाणान यथा पलवान ॥ 8 ॥

  9. कौरवाः सिंहनादेन नानावाद्य सवनेन च रथद्विप नराशैश च सर्वतः पर्यवारयन ॥ 9 ॥

  10. तान पश्यन सैन्यमध्यस्थॊ राजा सवजनसंवृतः दुर्यॊधनॊ ऽबरवीत कर्णं परहृष्टः परहसन्न इव ॥ 10 ॥

  11. पश्य राधेय पाञ्चालान परणुन्नान दरॊण सायकैः सिंहेनेव मृगान वन्यांस तरासितान दृढधन्वना ॥ 11 ॥

  12. नैते जातु पुनर युद्धम ईहेयुर इति मे मतिः यथा तु भग्ना दरॊणेन वातेनेव महाद्रुमाः ॥ 12 ॥

  13. अर्द्यमानाः शरैर एते रुक्मपुङ्खैर महात्मना पथा नैकेन गच्छन्ति घूर्णमानास ततस ततः ॥ 13 ॥

  14. संनिरुद्धाश च कौरव्यैर दरॊणेन च महात्मना एते ऽनये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ 14 ॥

  15. भरमरैर इव चाविष्टा दरॊणस्य निशितैः शरैः अन्यॊन्यं समलीयन्त पलायनपरायणाः ॥ 15 ॥

  16. एष भीमॊ दृढक्रॊधॊ हीनः पाण्डव सृञ्जयैः मदीयैर आवृतॊ यॊधैः कर्ण तर्जयतीव माम ॥ 16 ॥

  17. वयक्तं दरॊणमयं लॊकम अद्य पश्यति दुर्मतिः निराशॊ जीवितान नूनम अद्य राज्याच च पाण्डवः ॥ 17 ॥

  18. [कर्ण] नैष जातु महाबाहुर जीवन नाहवम उत्सृजेत न चेमान पुरुषव्याघ्र सिंहनादान विशक्ष्यते ॥ 18 ॥

  19. न चापि पाण्डवा युद्धे भज्येरन्न इति मे मतिः शूराश च बलवन्तश च कृतास्त्रा युद्धदुर्मदाः ॥ 19 ॥

  20. विषाग्निद्यूतसंक्लेशान वनवासं च पाण्डवाः समरमाणा न हास्यन्ति संग्रामम इति मे मतिः ॥ 20 ॥

  21. निकृतॊ हि महाबाहुर अमितौजा वृकॊदरः वरान वरान हि कौन्तेयॊ रथॊदारान हनिष्यति ॥ 21 ॥

  22. असिना धनुषा शक्त्या हयैर नागैर नरै रथैः आयसेन च दण्डेन वरातान वरातान हनिष्यति ॥ 22 ॥

  23. तम एते चानुवर्तन्ते सात्यकिप्रमुखा रथाः पाञ्चालाः केकया मत्स्याः पाण्डवाश च विशेषतः ॥ 23 ॥

  24. शूराश च बलवन्तश च विक्रान्ताश च महारथाः विशेषतश च भीमेन संरब्धेनाभिचॊदिताः ॥ 24 ॥

  25. ते दरॊणम अभिवर्तन्ते सर्वतः कुरुपुंगवाः वृकॊदरं परीप्सन्तः सूर्यम अभ्रगणा इव ॥ 25 ॥

  26. एकायनगता हय एते पीडयेयुर यतव्रतम अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः असंशयं कृतास्त्राश च पर्याप्ताश चापि वारणे ॥ 26 ॥

  27. अतिभारं तव अहं मन्ये भारद्वाजे समाहितम ते शीघ्रम अनुगच्छामॊ यत्र दरॊणॊ वयवस्थितः काका इव महानागं मा वै हन्युर यतव्रतम ॥ 27 ॥

  28. [स] राधेयस्य वचः शरुत्वा राजा दुर्यॊधनस तदा भरातृभिः सहितॊ राजन परायाद दरॊण रथं परति ॥ 28 ॥

  29. तत्रारावॊ महान आसीद एकं दरॊणं जिघांसताम पाण्डवानां निवृत्तानां नानावर्णैर हयॊत्तमैः ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20