[स] ततॊ युधिष्ठिरॊ दरॊणं दृष्ट्वान्तिकम उपागतम महता शरवर्षेण परत्यगृह्णाद अभीतवत ॥ 1 ॥
ततॊ हलहलाशब्द आसीद यौधिष्ठिरे बले जिघृक्षति महासिंहे गजानाम इव यूथपम ॥ 2 ॥
दृष्ट्वा दरॊणं ततः शूरः सत्यजित सत्यविक्रमः युधिष्ठिरं परिप्रेप्सुम आचार्यं समुपाद्रवत ॥ 3 ॥
तत आचार्य पाञ्चाल्यौ युयुधाते परस्परम विक्षॊभयन्तौ तत सैन्यम इन्द्र वैरॊचनाव इव ॥ 4 ॥
ततः सत्यजितं तीक्ष्णैर दशभिर मर्मभेदिभिः अविध्यच छीघ्रम आचार्यश छित्त्वास्य स शरं धनुः ॥ 5 ॥
स शीघ्रतरम आदाय धनुर अन्यत परतापवान दरॊणं सॊ ऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ॥ 6 ॥
जञात्वा सत्यजिता दरॊणं गरस्यमानम इवाहवे वृकः शरशतैर तीक्ष्णैः पाञ्चाल्यॊ दरॊणम अर्दयत ॥ 7 ॥
संछाद्यमानं समरे दरॊणं दृष्ट्वा महारथम चुक्रुशुः पाण्डवा राजन वस्त्राणि दुधुवुश च ह ॥ 8 ॥
वृकस तु परमक्रुद्धॊ दरॊणं षष्ट्या सतनान्तरे विव्याध बलवान राजंस तद अद्भुतम इवाभवत ॥ 9 ॥
दरॊणस तु शरवर्षेण छाद्यमानॊ महारथः वेगं चक्रे महावेगः करॊधाद उद्वृत्य चक्षुषी ॥ 10 ॥
ततः सत्यजितश चापं छित्त्वा दरॊणॊ वृकस्य च षड्भिः ससूतं सहयं शरैर दरॊणॊ ऽवधीद वृकम ॥ 11 ॥
अथान्यद धनुर आदाय सत्यजिद वेगवत्तरम साश्वं ससूतं विशिखैर दरॊणं विव्याध स धवजम ॥ 12 ॥
स तन न ममृषे दरॊणः पाञ्चाल्येनार्दनं मृधे ततस तस्य विनाशाय स तवरं वयसृजच छरान ॥ 13 ॥
हयान धवजं धनुर मुष्टिम उभौ च पार्ष्णिसारथी अवाकिरत ततॊ दरॊणः शरवर्षैः सहस्रशः ॥ 14 ॥
तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः पाञ्चाल्यः परमास्त्रज्ञः शॊणाश्वं समयॊधयत ॥ 15 ॥
स सत्यजितम आलक्ष्य तथॊदीर्णं महाहवे अर्धचन्द्रेण चिच्छेद शिरस तस्य महात्मनः ॥ 16 ॥
तस्मिन हते महामात्रे पाञ्चालानां रथर्षभे अपायाज जवनैर अश्वैर दरॊणात तरस्तॊ युधिष्ठिरः ॥ 17 ॥
पाञ्चालाः केकया मत्स्याश चेदिकारूष कॊसलाः युधिष्ठिरम उदीक्षन्तॊ हृष्टा दरॊणम उपाद्रवन ॥ 18 ॥
ततॊ युधिष्ठिरा परेप्सुर आचार्यः शत्रुपूगहा वयधमत तान्य अनीकानि तूलराशिम इवानिलः ॥ 19 ॥
निर्हदन्तम अनीकानि तानि तानि पुनः पुनः दरॊणं मत्स्याद अवरजः शतानीकॊ ऽभयवर्तत ॥ 20 ॥
सूर्यरश्मि परतीकाशैः कर्मार परिजार्जितैः षड्भिः समूतं सहयं दरॊणं विद्ध्वानदद भृशम ॥ 21 ॥
तस्य नानदतॊ दरॊणः शिरः कायात सकुण्डलम कषुरेणापाहरत तूर्णं ततॊ मत्स्याः परदुद्रुवुः ॥ 22 ॥
मत्स्याञ जित्वाजयच चेदीन कारूषान केकयान अपि पाञ्चालान सृञ्जयान पाण्डून भारद्वाजः पुनः पुनः ॥ 23 ॥
तं दहन्तम अनीकानि करुद्धम अग्निं यथा वनम दृष्ट्वा रुक्मरथं करुद्धं समकम्पन्त सृञ्जयाः ॥ 24 ॥
उत्तमं हय आदधानस्य धनुर अस्याशु कारिणः जयाघॊषॊ निघ्नतॊ ऽमित्रान दिक्षु सर्वासु शुश्रुवे ॥ 25 ॥
नागान अश्वान पदातींश च रथिनॊ गजसादिनः रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः ॥ 26 ॥
नानद्यमानः पर्जन्यॊ मिश्रवातॊ हिमात्यये अश्मवर्षम इवावर्षत परेषां भयम आदधत ॥ 27 ॥
सर्वा दिशः समचरत सैन्यं विक्षॊभयन्न इव बली शूरॊ महेष्वासॊ मित्राणाम अभयंकरः ॥ 28 ॥
तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम दिक्षु सर्वास्व अपश्याम दरॊणस्यामित तेजसः ॥ 29 ॥
दरॊणस तु पाण्डवानीके चकार कदनं महत यथा दैत्य गणे विष्णुः सुरासुरनमस्कृतः ॥ 30 ॥
स शूर सत्यवाक पराज्ञॊ बलवान सत्यविक्रमः महानुभावः कालान्ते रौद्रीं भीरु विभीषणाम ॥ 31 ॥
कवचॊर्मिध्वजावर्तां मर्त्यकूलापहारिणीम गजवाजिमहाग्राहाम असि मीनां दुरासदा ॥ 32 ॥
वीरास्थि शर्करां रौद्रां भेरी मुरजकच्छपाम चर्म वर्म पलवां घॊरां केशशैवलशाड्वलाम ॥ 33 ॥
शरौघिणीं धनुः सरॊतां बाहुपन्नग संकुलाम रणभूमिवहां घॊरां कुरुसृञ्जय वाहिनीम मनुष्यशीर्ष पाषाणां शक्तिमीनां गदॊडुपाम ॥ 34 ॥
उष्णीष फेनवसनां निष्कीर्णान्त्र सरीसृपाम वीरापहारिणीम उग्रां मांसशॊणितकर्दमाम ॥ 35 ॥
हस्तिग्राहां केतुवृक्षां कषत्रियाणां निमज्जनीम करूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम दरॊणः परावर्तयत तत्र नदीम अन्तकगामिनीम ॥ 36 ॥
करव्यादगणसंघुष्टां शवशृगाल गणायुताम निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥ 37 ॥
तं दहन्तम अनीकानि रथॊदारं कृतान्तवत सर्वतॊ ऽभयद्रवन दरॊणं कुन्तीपुत्र पुरॊगमाः ॥ 38 ॥
तांस तु शूरान महेष्वासांस तावकाभ्युद्यतायुधाः राजानॊ राजपुत्राश च समन्तात पर्यवारयन ॥ 39 ॥
ततॊ दरॊणः सत्यसंधः परभिन्न इव कुञ्जरः अभ्यतीत्य रथानीकं दृढसेनम अपातयत ॥ 40 ॥
ततॊ राजानम आसाद्य परहरन्तम अभीतवत अविध्यन नवभिः कषेमं स हतः परापतद रथात ॥ 41 ॥
स मध्यं पराप्य सैन्यानां सर्वाः परविचरन दिशः तराता हय अभवद अन्येषां न तरातव्यः कथं चन ॥ 42 ॥
शिखण्डिनं दवादशभिर विंशत्या चॊत्तमौजसा वसु दानं च भल्लेन परेषयद यमसादनम ॥ 43 ॥
अशीत्या कषत्रवर्माणं षड्विंशत्या सुदक्षिणम कषत्रदेवं तु भल्लेन रथनीडाद अपाहरत ॥ 44 ॥
युधामन्युं चतुःषष्ट्या तरिंशता चैव सात्यकिम विद्ध्वा रुक्मरथस तूर्णं युधिष्ठिरम उपाद्रवत ॥ 45 ॥
ततॊ युधिष्ठिरः कषिप्रं कितवॊ राजसत्तमः अपायाज जवनैर अश्वैः पाञ्चाल्यॊ दरॊणम अभ्ययात ॥ 46 ॥
तं दरॊणं सधनुष्कं तु साश्वयन्तारम अक्षिणॊत स हतः परापतद भूमौ रथाज जयॊतिर इवाम्बरात ॥ 47 ॥
तस्मिन हते राजपुत्रे पाञ्चालानां यशः करे हतद्रॊणं हतद्रॊणम इत्य आसीत तुमुलं महत ॥ 48 ॥
तांस तथा भृशसंक्रुद्धान पाञ्चालान मत्स्यकेकयान सृञ्जयान पाण्डवांश चैव दरॊणॊ वयक्षॊभयद बली ॥ 49 ॥
सात्यकिं चेकितानं च धृष्टद्युम्न विखण्डिनौ वार्धक्षेमिं चित्रसेनं सेना बिन्दुं सुवर्चसम ॥ 50 ॥
एतांश चान्यांश च सुबहून नानाजनपदेश्वरान सर्वान दरॊणॊ ऽजयद युद्धे कुरुभिः परिवारितः ॥ 51 ॥
तावकास तु महाराज जयं लब्ध्वा महाहवे पाण्डवेयान रणे जग्नुर दरवमाणान समन्ततः ॥ 52 ॥
ते दानवा इवेन्द्रेण वध्यमाना महात्मना पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥ 53 ॥
द्रोणपर्व · Drona Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21