[स] दृष्ट्वा तु संनिवृत्तांस तान संशप्तकगणान पुनः वासुदेवं महात्मानम अर्जुनः समभाषत ॥ 1 ॥
चॊदयाश्वान हृषीकेश संशप्तकगणान परति नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥ 2 ॥
पश्य मे ऽसत्रबलं घॊरं बाह्वॊर इष्वसनस्य च अद्यैतान पातयिष्यामि करुद्धॊ रुद्रः पशून इव ॥ 3 ॥
ततः कृष्णः समितं कृत्वा परिणन्द्य शिवेन तम परावेशयत दुर्धर्षॊ यत्र यत्रैच्छद अर्जुनः ॥ 4 ॥
बभ्राजे स रथॊ ऽतयर्थम उह्यमानॊ रणे तदा उह्यमानम इवाकाशे विमानं पाण्डुरैर हयैः ॥ 5 ॥
मण्डलानि ततश चक्रे गतप्रत्यागतानि च यथा शक्र रथॊ राजन युद्धे देवासुरे पुरा ॥ 6 ॥
अथ नारायणाः करुद्धा विविधायुधपाणयः छादयन्तः शरव्रातैः परिवव्रुर धनंजयम ॥ 7 ॥
अदृश्यं च मुहूर्तेन चक्रुस ते भरतर्षभ कृणेन सहितं युद्धे कुन्तीपुत्रं धनंजयम ॥ 8 ॥
करुद्धस तु फल्गुनः संख्ये दविगुणीकृतविक्रमः गाण्डीवम उपसंमृज्य तूर्णं जग्राह संयुगे ॥ 9 ॥
बद्ध्वा च भृकुटीं वक्त्रे करॊधस्य परतिलक्षणम देवदत्तं महाशङ्खं पूरयाम आस पाण्डवः ॥ 10 ॥
अथास्त्रम अरिसंघघ्नं तवाष्ट्रम अभ्यस्यद अर्जुनः ततॊ रूपसहस्राणि परादुरासन पृथक पृथक ॥ 11 ॥
आत्मनः परतिरूपैस तैर नानारूपैर विमॊहिताः अन्यॊन्यम अर्जुनं मत्वा सवम आत्मानं च जघ्निरे ॥ 12 ॥
अयम अर्जुनॊ ऽयं गॊविन्देमौ यादव पाण्डवौ इति बरुवाणाः संमूधा जघ्नुर अन्यॊन्यम आहवे ॥ 13 ॥
मॊहिताः परमास्त्रेण कषयं जग्मुः परस्परम अशॊभन्त रणे यॊधाः पुष्पिता इव किंशुकाः ॥ 14 ॥
ततः शरसहस्राणि तैर विमुक्तानि भस्मसात कृत्वा तद अस्त्रं तान वीरान अनयद यमसादनम ॥ 15 ॥
अथ परहस्य बीभत्सुर ललित्थान मालवान अपि माचेल्लकांस तरिगर्तांश्च च यौधेयांश चार्दयच छरैः ॥ 16 ॥
ते वध्यमाना वीरेण कषत्रियाः कालचॊदिताः वयसृजञ शरवर्षाणि पार्थे नानाविधानि च ॥ 17 ॥
ततॊ नैवार्जुनस तत्र न रथॊ न च केशवः परत्यदृश्यत घॊरेण शरवर्षेण संवृतः ॥ 18 ॥
ततस ते लब्धलक्ष्यत्वाद अन्यॊन्यम अभिचुक्रुशुः हतौ कृष्णाव इति परीता वासांस्य आदुधुवुस तदा ॥ 19 ॥
भेरीमृदङ्गशङ्खांश च दध्मुर वीराः सहस्रशः सिंहनाद रवांश चॊग्रांश चक्रिरे तत्र मारिष ॥ 20 ॥
ततः परसिष्विदे कृष्णः खिन्नश चार्जुनम अब्रवीत कवासि पार्थ न पश्ये तवां कच चिज जीवसि शत्रुहन ॥ 21 ॥
तस्य तं मानुषं भावं भावज्ञॊ ऽऽजञाय पाण्डवः वायव्यास्त्रेण तैर अस्तां शरवृष्टिम अपाहरत ॥ 22 ॥
ततः संशप्तकव्रातान साश्वद्विप रथायुधान उवाह भगवान वायुः शुष्कपर्णचयान इव ॥ 23 ॥
उह्यमानास तु ते राजन बह्व अशॊभन्त वायुना परडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ 24 ॥
तांस तथा वयाकुलीकृत्य तवरमाणॊ धनंजयः जघान निशितैर बाणैः सहस्राणि शतानि च ॥ 25 ॥
शिरांसि भल्लैर अहरद बाहून अपि च सायुधान हस्तिहस्तॊपमांश चॊरूञ शरैर उर्व्याम अपातयत ॥ 26 ॥
पृष्ठच छिन्नान विचरणान विमस्तिष्केषणाङ्गुलीन नानाङ्गावयवैर हीनांश चकारारीन धनंजयः ॥ 27 ॥
गन्धर्वनगराकारान विधिवत कल्पितान रथान शरैर विशकलीकुर्वंश चक्रे वयश्व रथद्विपान ॥ 28 ॥
मुण्डतालवनानीव तत्र तत्र चकाशिरे छिन्नध्वजरथव्राताः के चित के चित कव चित कव चित ॥ 29 ॥
सॊत्तरायुधिनॊ नागाः स पताकाङ्कुशायुधाः पेतुः शक्राशनिहता दरुमवन्त इवाचलाः ॥ 30 ॥
चामरापीड कवचाः सरस्तान्त्र नयनासवः सारॊहास तुरगाः पेतुः पार्थ बाणहताः कषितौ ॥ 31 ॥
विप्रविद्धासि नखराश छिन्नवर्मर्ष्टि शक्तयः पत्तयश छिन्नवर्माणः कृपणं शेरते हताः ॥ 32 ॥
तैर हतैर हन्यमानैश च पतद्भिः पतितैर अपि भरमद्भिर निष्टनद्भिश च घॊरम आयॊधनं बभौ ॥ 33 ॥
रजश च महद उद्भूतं शान्तं रुधिरवृष्टिभिः महीं चाप्य अभवद दुर्गा कबन्ध शतसंकुला ॥ 34 ॥
तद बभौ रौद्रबीभत्सं बीभत्सॊर यानम आहवे आक्रीड इव रुद्रस्य घनतः कालात्यये पशून ॥ 35 ॥
ते वध्यमानाः पार्थेन वयाकुलाश्वरथद्विपाः तम एवाभिमुखाः कषीणाः शक्रस्यातिथितां गताः ॥ 36 ॥
सा भूमिर भरतश्रेष्ठ निहतैस तैर महारथैः आस्तीर्णा संबभौ सर्वा परेती भूतैः समन्ततः ॥ 37 ॥
एतस्मिन्न अन्तरे चैव परमत्ते सव्यसाचिनि वयूढानीकस ततॊ दरॊणॊ युधिष्ठिरम उपाद्रवत ॥ 38 ॥
तं परत्यगृह्णंस तवरितॊ वयूढानीकाः परहारिणः युधिष्ठिरं परीप्सन्तस तदासीत तुमुलं महत ॥ 39 ॥
द्रोणपर्व · Drona Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19